ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ४
← मध्यभागः, अध्यायः ३ | ब्रह्माण्डपुराणम् अध्यायः ४ [[लेखकः :|]] |
मध्यभागः, अध्यायः ५ → |
सूत उवाच
ब्रह्मणा वै मुखात्सृष्टा जया देवाः प्रजेप्सया ।
सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥ २,४.१ ॥
दर्शश्च पौर्णमासश्च बृहत्साम रथन्तरम् ।
चितिश्च सुचितिश्चैव ह्याकूतिः कूतिरेव च ॥ २,४.२ ॥
विज्ञातश्चैव विज्ञाता मना यज्ञश्च द्वादशः ।
दाराग्निहोत्रसंबन्धं वितत्य यजतेति च ॥ २,४.३ ॥
एवमुक्त्वा तु तान्ब्रह्मा तत्रैवान्तरधात्प्रभुः ।
ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः ॥ २,४.४ ॥
संन्यस्येह च कर्माणि वासनाः कर्मजाश्च वै ।
यमेष्वंवावन्तिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु ॥ २,४.५ ॥
क्षयाति शययुक्तं च ते दृष्ट्वा कर्मणां फलम् ।
जुगुप्संतः प्रसूतिं च निःसत्त्वा निर्ममाभवन् ॥ २,४.६ ॥
अजन्म काङ्क्षमाणास्ते निर्मुक्ता दोषदर्शिनः ।
अर्थं धर्मं च कामं च हित्वा ते वै व्यवस्थिताः ॥ २,४.७ ॥
परमं ज्ञानमास्थाय तत्संक्षिप्य सुसंस्थिताः ।
तेषां तु तमभिप्रायं ज्ञात्वा ब्रह्मा तु कोपितः ॥ २,४.८ ॥
तानब्रवीत्ततो ब्रह्मा निरुत्साहान्सुरानथ ।
प्रजार्थमिह यूयं वै मया सृष्टाः स्थ नान्यथा ॥ २,४.९ ॥
प्रसूयध्वं यजध्वं चेत्युक्तवानस्मि वः पुरा ।
यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः ॥ २,४.१० ॥
जुगुप्समानाः स्वं जन्म संततिं नाभ्यनन्दत ।
कर्मणां न कृतोऽभ्यासो ह्यमृतत्वाभिकाङ्क्षया ॥ २,४.११ ॥
तस्माद्यूयमिहावृत्तिं सप्तकृत्वो ह्यवाप्स्यथ ।
ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन् ॥ २,४.१२ ॥
क्षमास्माकं महादेव यदज्ञानात्मकं प्रभो ।
प्रणतान्वै सानुनयं ब्रह्मा तानब्रवीत्पुनः ॥ २,४.१३ ॥
लोकेऽप्यथानुभुञ्जीत कः स्वातन्त्र्यमिहार्हति ।
मयागतं तु सर्वं हि कथमच्छन्दतो मम ॥ २,४.१४ ॥
प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वोत्तरम् ।
लोके यदपि किञ्चिद्वैशं वा शं वा व्यवस्थितम् ॥ २,४.१५ ॥
बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽतिवर्त्तयेत् ।
भूताना मीहितं यच्च यच्चाप्येषां विचिन्तितम् ॥ २,४.१६ ॥
तथोपचरितं यच्च तत्सर्वं विदितं मम ।
मया बद्धमिदं सर्वं चजगत्स्थावरजङ्गमम् ॥ २,४.१७ ॥
आशामयेन बन्धेन कस्तं छेत्तुमिहोत्सहेत् ।
यस्माद्वहति दृप्तो वै सर्वार्थमिह नान्यथा ॥ २,४.१८ ॥
इति कर्माण्यनारभ्य कामं छन्दाद्विमोक्षते ।
एवं संभाष्य तान्देवान् जयानध्यात्मचेतसः ॥ २,४.१९ ॥
अथ वीक्ष्य पुनश्चाह ध्रुवं दड्यान्प्रजापतिः ।
यस्मान्मानभिसंधाय सन्यासादिः कृतः सुराः ॥ २,४.२० ॥
तस्मात्स विपुलायत्तो व्यापारस्त्वथ मत्कृतः ।
भविता च सुखोदर्के दिव्यभावेन जायताम् ॥ २,४.२१ ॥
आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः ।
मन्वन्तरेषु संसिद्धाः सप्तस्वाविर्भविष्यथ ॥ २,४.२२ ॥
वैवस्वतान्तेषु सुरास्तथा स्वायंभुवादिषु ।
एवं च ब्रह्मणा तत्र श्लोको गीतः पुरातनः ॥ २,४.२३ ॥
त्रयी विद्या ब्रह्ममयप्रसूतिः श्राद्धं तपो यज्ञमनुप्रदानम् ।
एतानि नित्यैः महसा रजोभिर्भूत्वा विभुर्वसतेऽन्यत्प्रशस्तम् ॥ २,४.२४ ॥
एवं श्लोकार्थमुक्त्वा तु जयान्देवानथाब्रवीत् ।
वैवस्वतेंऽतरेतीते मत्समीपमिहैष्यथ ॥ २,४.२५ ॥
ततो देवस्तिरोभूत ईश्वरो ङ्यकुतोभयः ।
प्रपन्नाधारणामाद्यां युक्त्वा योगबलान्विताम् ॥ २,४.२६ ॥
ततस्तेन रुषा शप्तास्तेऽभवन्द्वादशाजिताः ।
जया इति समाख्याताः कृता एवं विसन्निभाः ॥ २,४.२७ ॥
ततः स्वायंभुवे तस्मिन्सर्गेऽतीते तु वै सुराः ।
पुनस्ते तुषिता देवा जाताः स्वारोचिषेंऽतरे ॥ २,४.२८ ॥
उत्तमस्य मनोः पुत्राः सत्यायां जज्ञिरे तदा ।
ततः सत्याः स्मृता देवा औत्तमे चान्तरे मनोः ॥ २,४.२९ ॥
हरिण्यां नाम तुषिता जज्ञिरे द्वादशेव तु ।
हरयोनाम ते देवा यज्ञभाजस्तदाभवन् ॥ २,४.३० ॥
ततस्ते हरयो देवाः प्राप्ते चारिष्ठवेन्तरे?॥
विकुण्ठायां पुनस्ते वै वरिष्ठा जज्ञिरे सुराः ॥ २,४.३१ ॥
वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मानोः ।
ततस्ते वै पुनर्देवा वैकुण्ठाः प्राप्य चाक्षुषम् ॥ २,४.३२ ॥
ततस्ते वै पुनः साध्याः संक्षीणे चाक्षुषेन्तरे ।
उपस्थिते पुनः सर्गे मनोर्वैवस्वतस्य ह ॥ २,४.३३ ॥
अंशेन साध्यास्तेऽदित्यां मारीचात्कश्यपात्पुनः ।
जज्ञिरे द्वादशादित्या वर्त्तमानेन्तरं सुराः ॥ २,४.३४ ॥
यदा चैते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः ।
शप्ताः स्वयंभुवा साध्या जज्ञिरे द्वादशामराः ॥ २,४.३५ ॥
एवं शृणोति यो मर्त्योजयस्तस्य भवेत्सदा ।
जयानां श्रद्धया युक्तः प्रत्यध्यायं तु गच्छति ॥ २,४.३६ ॥
इत्येता वृत्तयः सप्त देवानां जन्मलक्षणाः ।
परिक्रान्ता मया वोऽद्या किं भूयः श्रोतुमिच्छथ ॥ २,४.३७ ॥
इति ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यामभागे तृतीय उपोद्धातपादे जयाभिव्याहारो नाम चतुर्थोऽध्यायः