ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६२
← मध्यभागः, अध्यायः ६१ | ब्रह्माण्डपुराणम् अध्यायः ६२ [[लेखकः :|]] |
मध्यभागः, अध्यायः ६३ → |
पूर्वाचार्यमतं बुद्ध्वा प्रवक्ष्याम्यनुपूर्वशः ।
विख्यातान्वै अलङ्कारांस्तन्मे निगदतः श्रुणु ॥ २,६२.१ ॥
अलङ्कारास्तु वक्तव्याः स्वैः स्वैर्वर्णैः प्रहेतवः ।
संस्था नयोगैश्च तथा सदा नाढ्याद्यवेक्षया ॥ २,६२.२ ॥
वाक्यार्थपदयोगार्थैरलङ्कारैश्च पूरणम् ।
पदानि गीतकस्याहुः पुरस्तात्पृष्ठतोऽथ वा ॥ २,६२.३ ॥
स्थातोनित्रीनरो नीड्डीमनःकण्ठशिरस्थया ।
एतेषु त्रिषु स्थानेषु प्रवृत्तो विधिरुत्तमः ॥ २,६२.४ ॥
चत्त्वारः प्रकृतौ वर्णाः प्रविचारस्य नुर्विधा ।
विकल्पमष्टधा चैव देवाः षोडशधा विदुः ॥ २,६२.५ ॥
सृष्टो वर्मः प्रसंचारी तृतीयमवरोहणम् ।
आरोहणं चतुर्थं तु वर्णं वर्मविदो विदुः ॥ २,६२.६ ॥
तत्रैकः संचरस्थायी संचरस्तु चरोऽभवत् ।
अवरोहणवर्णानामवरोहं विनिर्दिशेत् ॥ २,६२.७ ॥
आरोहणेन वारोहान्वर्णान्वर्णविदो विदुः ।
एतेषामेव वर्णानामलङ्कारन्निबोधत ॥ २,६२.८ ॥
अलङ्कारास्तु चत्वारस्थापनी क्रमरेजनः ।
प्रमादस्याप्रमादश्च तेषां वक्ष्यामि लक्षणम् ॥ २,६२.९ ॥
विस्वरोऽष्टकलाश्चैव स्थानं द्व्येकतरागतः ।
आवर्त्तस्याक्रमो त्वाक्षी वेकार्यां परिमाणतः ॥ २,६२.१० ॥
कुमारं संपरं विद्धि द्विस्तरं वामनं गतः ।
एष वै एष चैवस्यकुतरेकः कुलाधिकः ॥ २,६२.११ ॥
स्वेत स्वे कातरे जातकलामग्नितरैषितः ।
तस्मिंश्चैव स्वरे वृद्धिर्निष्टप्ते तद्विचक्षणः ॥ २,६२.१२ ॥
स्येनस्तु अपरो हस्त उत्तरः कमलाकलः ।
प्रमाणघसबिन्दुर्ना जायते विदुरे पुनः ॥ २,६२.१३ ॥
कला कार्या तु वर्णानां तदा नुः स्थापितो भवेत् ।
विपर्ययस्य रोपिस्या द्यस्य प्रादुर्घटी मम ॥ २,६२.१४ ॥
एकोत्तरः स्वरस्तु स्यात्षड्जतः परमः स्वरः ।
अक्षेपस्कन्दनाकार्यं काकस्योयचपुष्कलम् ॥ २,६२.१५ ॥
संतारौ तौनुसर्वाय्यौ कार्यं वा कारणं तथा ।
आक्षिप्तमवरोह्यासीत्प्रोक्षमद्यस्तथैव च ॥ २,६२.१६ ॥
द्वादशे च कलास्थानामेकान्तरगतस्तथा ।
प्रेशोल्लिखितमलङ्कारमेवस्वरसमन्विता ॥ २,६२.१७ ॥
स्वरस्वरबहुग्रामकाप्रयोष्टनुपत्कला ।
प्रक्षिप्तमेव कलयाचोपादानारयो भवेत् ॥ २,६२.१८ ॥
द्विकथंवावथाभूतयत्रभाषितमुच्यते ।
उच्चराद्विश्वरारूढातथायाष्टस्वरातथा ॥ २,६२.१९ ॥
वापः स्यादवरोहेण नारतो भवति ध्रुवम् ।
एकान्तरं च ह्येतेवैतमेवस्वरसत्तमः ॥ २,६२.२० ॥
सक्षिप्रच्छेदनामाचचतुष्कलगणः स्मृतः ।
अलङ्कारा भवन्त्येते त्रिंशद्देवैः प्रकीर्त्तिताः ॥ २,६२.२१ ॥
वर्णास्थानप्रयोगेण कलामात्राप्रमाणतः ।
संस्थानं च प्रमाणं च विकारो लक्षणस्तथा ॥ २,६२.२२ ॥
चतुर्विधमिदं ज्ञेय मलङ्कारप्रयोजनम् ।
यथात्मनो ह्यलङ्कारो विपयस्तो विगर्हितः ॥ २,६२.२३ ॥
वर्ममेवाप्यलङ्कर्त्तुं विषमाह्यात्मसंभवाः ।
नानाभरणसंयोगा यथा नार्या विभूषणम् ॥ २,६२.२४ ॥
वर्मस्य चैवालङ्कारो विभूषा ह्यात्मसंभवः ।
न पादे कुण्डलं दृष्टं न कण्ठे रसना तथा ॥ २,६२.२५ ॥
एवमेवाद्यलङ्कारे विपर्यस्तो विगर्हितः ।
क्रियमाणोऽप्यलङ्कारो नागं यश्चैव दर्शयत् ॥ २,६२.२६ ॥
यथादृष्टस्य मार्गस्यकर्त्तव्यस्यविधीयते ।
लक्षणंपर्यवस्यापिवर्त्तिका मपिवर्त्तते ॥ २,६२.२७ ॥
याथातथ्येन वक्ष्यामि मासोद्भवमुखोद्भव ।
त्रयोविंशतिशीतिस्तु विज्ञातपवदैवतम् ॥ २,६२.२८ ॥
नगोनातुपुरस्तानुमध्यमांशस्तु पर्ययः ।
तयोर्विभागो देवानां लावण्ये मार्गसंस्थितः ॥ २,६२.२९ ॥
अनुषङ्गमयो दृष्टं स्वसारं वस्वरातर ।
विपर्ययः संवर्त्तो च सप्तस्वरपदक्रमम् ॥ २,६२.३० ॥
गान्धारसेतुगीयन्ते वरोमद्भगवानिच ।
पञ्चमंमध्यमञ्चैवधैवतं तु निषादतः ॥ २,६२.३१ ॥
षड्जर्षभश्चजानीमोमद्रकेष्वेवनान्तरे ।
द्वेव्द्यपरतुकिंविद्याद्द्वयमुष्णन्तिकस्यतु ॥ २,६२.३२ ॥
प्राकृते वैकृते चैव गान्धारः स प्रयुज्यते ।
पदस्यात्ययरूपन्तुसप्तरूपन्तुकौशिकीम् ॥ २,६२.३३ ॥
गान्धारस्येनकार्त्स्येन चायं यस्यविधिः स्मृतः ।
एषचैवक्रमोद्दिष्टोमध्यमांशस्य मध्यमः ॥ २,६२.३४ ॥
यानि प्रोक्तानि गीतानिवतुरूपं विशेषतः ।
ततः सप्तस्वरङ्कार्यंसप्तरूपञ्चकौशिकी ॥ २,६२.३५ ॥
अगदर्शनमित्याहुर्मानुद्वैममकेतथा ।
द्वितीयामासमात्राणाभिः सर्वाः प्रतिष्ठिताः ॥ २,६२.३६ ॥
उत्तरेवप्रकृत्येवंमाताब्राह्मतलायत ।
तथाहतानोपिडकेयत्रमायांनिवर्त्तते ॥ २,६२.३७ ॥
पादेनैकेनमायात्रा पादोनामतिवारिमः ।
संख्यापनोपहूतांवैतत्रपानमिति स्मृतम् ॥ २,६२.३८ ॥
द्वितीयपादभङ्गञ्चग्रहेनामप्रतिष्ठितम् ।
पूर्वमष्ठतीटती नद्वितीयं चापरान्तिकैः ॥ २,६२.३९ ॥
पादभागसपादं तु प्रकृत्यमपि संस्थितम् ।
चतुर्थमुत्तरं चैवमद्रवत्पावमद्रकौ ॥ २,६२.४० ॥
मद्रकोदक्षिणस्यापि यथोक्ता वर्त्तते कला ।
सर्वमेवानुयोगं तु द्वितीयं बुद्धिमिष्यते ॥ २,६२.४१ ॥
पादौवाहरणं चास्यात्पारं नात्र विधीयते ।
एकत्वं मुनुयोगस्य द्वयोर्यद्यद्द्विजोत्तम ॥ २,६२.४२ ॥
अनेकसमवायस्तु पातका हरिणा स्मृताः ।
तिसृणां चैव वृत्तीनां वृत्तौ वृत्ते च दक्षिणः ॥ २,६२.४३ ॥
अष्टौ तु समवायस्तु वीरा संमूर्छना तथा ।
कस्यनासुतराचैव स्वरशाखा प्रकीर्त्तिता ॥ २,६२.४४ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते गान्धर्वलक्षणं नाम द्विषष्टितमोऽध्यायः ॥ ६२॥