ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ३०
← मध्यभागः, अध्यायः २९ | ब्रह्माण्डपुराणम् अध्यायः ३० [[लेखकः :|]] |
मध्यभागः, अध्यायः ३१ → |
वासिष्ठ उवाच
श्रुत्वैतत्सकलं राजा जमदग्निवधादिकम् ।
उद्विग्नचेताः सुभृशं चिन्तयामास नैकधा ॥ २,३०.१ ॥
अहो मे सुनृसंसस्य लोकयोरुभयोरपि ।
ब्रह्मस्वहरणे वाञ्छा तद्धत्या चातिगर्हिता ॥ २,३०.२ ॥
अहो नाश्रौषमस्याहं ब्राह्मणस्य विजानतः ।
वचनं तर्हि तां जह्यां विमूढात्मा गतत्रपः ॥ २,३०.३ ॥
इति संचितयन्नंव हृदयेन विदूयता ।
स्वपुरं प्रतिचक्राम सबलः सानुगस्ततः ॥ २,३०.४ ॥
पुरीं प्रतिगते राज्ञि तस्मिन्सपरिवारके ।
आश्रमात्सहसा राजन्विनिश्चक्राम रेणुका ॥ २,३०.५ ॥
अथ सक्षतसर्वाङ्गं रुधिरेण परिप्लुतम् ।
निश्चेष्टं परितं भूमौ ददर्श पतिमात्मनः ॥ २,३०.६ ॥
ततः सा विहतं मत्वा भर्त्तारं गतचेतनम् ।
अन्वाहतेवाशनिना मूर्छितान्यपतद्भुवि ॥ २,३०.७ ॥
चिरादिव पुनर्भूमेरुत्थायातीव दुःखिता ।
पतित्वोत्थाय सा भूयः सुस्वरं प्ररुरोद ह ॥ २,३०.८ ॥
विललाप च सात्यर्थं धरणीधूलिधूसरा ।
अश्रुपूर्ममुखी दीना पतिता शोकसागरे ॥ २,३०.९ ॥
हा नाथ पिय धर्मज्ञ दाक्षिण्यामृतसागर ।
हा धिगत्यन्तशान्त त्वं नैव काङ्क्षेत चेदृशम् ॥ २,३०.१० ॥
आश्रमादभिनिष्क्रान्तः सहसा व्यसानर्णवे ।
क्षिप्त्वानाथामगाधे मां क्व च यातोऽसि मानद ॥ २,३०.११ ॥
सतां साप्तपदे मैत्रे मुषिताहं त्वया सह ।
यासि यत्र त्वमेकाकी तत्र मां नेतुमर्हसि ॥ २,३०.१२ ॥
दृष्ट्वा त्वामीदृशावस्थमचिराद्धृदयं मम ।
न दीर्यते महाभाग कठिनाः खलु योषितः ॥ २,३०.१३ ॥
इत्येवं विलपन्ती सा रुदती च मुहुर्मुहुः ।
चुक्रोश रामरामेति भृशं दुःखपरिप्लुता ॥ २,३०.१४ ॥
तावद्रामोऽपि स वनात्समिद्भारसमन्वितः ।
अकृतव्रणसंयुक्तः स्वाश्रमाय न्यवर्त्तत ॥ २,३०.१५ ॥
अपश्यद्भयशंसीनि निमित्तानि बहूनि सः ।
पश्यन्नुद्विग्नहृदयस्तूर्णं प्रापाश्रमं विभुः ॥ २,३०.१६ ॥
तमायान्तमभिप्रेक्ष्य रुदती सा भृशातुरा ।
नविभूतेव शोकेन प्रारुदद्रेणुका पुनः ॥ २,३०.१७ ॥
रामस्य पुरतो राजन्भर्तृव्यसनपीडिता ।
उभाभ्यामपि हस्ताभ्यामुदरं समताडयत् ॥ २,३०.१८ ॥
मार्गे विदितवृत्तान्तः सम्यग्रामोऽपि मातरम् ।
कुररीमिव शोकार्त्ता दृष्ट्वा दुःखमुपेयिवान् ॥ २,३०.१९ ॥
धैर्यमारोप्य मेधावी दुःशशोकपरिप्लुतः ।
नेत्राभ्यामश्रुपूर्णाभ्यां तस्थौ भूमावर्धोमुखः ॥ २,३०.२० ॥
तं तथागतमालोक्य रामं प्राहाकृतव्रणः ।
किमिदं भृगुशार्दूल नैतत्वय्युपपाद्यते ॥ २,३०.२१ ॥
न त्वादृशा महाभाग भृशं शोचन्ति कुत्रचित् ।
धृतिमन्तो महान्तस्तु दुःखं कुर्वति न व्यये ॥ २,३०.२२ ॥
शोकः सर्वेन्द्रियाणां हि परिशोषप्रदायकः ।
त्यज शोकं महाबाहो न तत्पात्रं भवदृशाः ॥ २,३०.२३ ॥
एहिकामुष्मिकार्थानां नूनमेकान्तरोधकः ।
शोकस्तस्यावकाशं त्वं कथं त्दृदि नियच्छसि ॥ २,३०.२४ ॥
तत्त्वं धैर्यधनो भूत्वा परिसांत्वय मातरम् ।
रुदतीं बत वैधव्यशं कापहतचेतनाम् ॥ २,३०.२५ ॥
नैवागमनमस्तीह व्यतिक्रान्तस्य वस्तुनः ।
तस्मादतीतमखिलं त्यक्त्वा कृत्यं विचिन्तय ॥ २,३०.२६ ॥
इत्येवं सांत्वमानश्च तेन दुःशसमन्वितः ।
रामः संस्तंभयामास शनैरात्मानमात्मना ॥ २,३०.२७ ॥
दुःखशोकपरीता हि रेणुका त्वरुदन्मुहः ।
त्रिःसप्तकृत्वो हस्ताभ्यामुदरं समताडयत् ॥ २,३०.२८ ॥
तावत्तदन्तिकं रामः समभ्येत्याश्रुलोचनः ।
रुदतीमलमंबेति सांत्वयामास मातरम् ॥ २,३०.२९ ॥
उवाचापनयन्दुःखाद्भर्तृशोकपरायणाम् ।
त्रिःसप्तकृत्वो यदिदं त्वया वक्षः समाहतम् ॥ २,३०.३० ॥
तावतसंख्यमहं तस्मात्क्षत्त्रजारमशेषतः ।
हनिष्ये भुवि सर्वत्र सत्यमेतद्ब्रविमि ते ॥ २,३०.३१ ॥
तस्मात्त्वं शोकमुत्सृज्य धैर्यमातिष्ट सांप्रतम् ।
नास्त्येव नूनमायातमतिक्रान्तस्य वस्तुनः ॥ २,३०.३२ ॥
इत्युक्ता रेणुका तेन भृशं दुःखान्वितापि सा ।
कृच्छ्राद्धैर्यं समालंब्य तथेति प्रत्यभाषत ॥ २,३०.३३ ॥
ततो रामो महाबाहुः पितुः सह सहोदरैः ।
अग्नौ सत्कर्त्तुमारेभे देहं राजन्यथविधि ॥ २,३०.३४ ॥
भर्तृशोकपरिताङ्गी रेणुकापि दृढव्रता ।
पुत्रान्सर्वान्समाहूय त्विदं वचनमब्रवीत् ॥ २,३०.३५ ॥
रेणुकोवाच ।
अहं वपितरं पुत्राः स्वर्गतं पुण्यशीलिनम् ।
अनुगन्तुमिहेच्छामि तन्मेऽनुज्ञातुमर्हथ ॥ २,३०.३६ ॥
असह्यदुःशं वैधव्यं सहमाना कथं पुनः ।
भर्त्रा विरहिता तेन प्रवर्त्तिष्ये विनिन्दिता ॥ २,३०.३७ ॥
तस्मादनुगमिष्यामि भर्त्तारं दयितं मम ।
यथा तेन प्रवर्त्तिष्ये परत्रापि सहानिशम् ॥ २,३०.३८ ॥
ज्वलन्तमिममेवाग्निं संप्रविश्य चिरादिव ।
भर्तुर्मम भविष्यामि पितृलोकप्रियातिथिः ॥ २,३०.३९ ॥
अनुवादमृते पुत्रा भवद्भिस्तत्र कर्मणि ।
प्रतिभूय न वक्तव्यं यदि मत्प्रियमिच्छथ ॥ २,३०.४० ॥
इत्येवमुक्त्वा वचनं रेणुका दृढनिश्चया ।
अग्निं प्रविश्य भर्त्तारमनुगन्तुं मनोदधे ॥ २,३०.४१ ॥
एतस्मिन्नेव काले तु रेणुकां तनयैः सह ।
समाभाष्यातिगंभीरा वागुवाचाशरीरीणी ॥ २,३०.४२ ॥
हे रेणुके स्वतनयैर्गिरं मेऽवहिता शृणु ।
मा कार्षीः साहसं भद्रे प्रवक्ष्यामि प्रियं तव ॥ २,३०.४३ ॥
साहसो नैव कर्त्तव्यः केनाप्यात्महितैषिणा ।
न मर्त्तव्यन्त्वया सर्वो जीवन्भद्राणि पश्यति ॥ २,३०.४४ ॥
तस्माद्धैर्यधना भूत्वा भव त्वं कालकाङ्क्षिणी ।
निमित्तमन्तरीकृत्य किञ्चिदेव शुचिस्मिते ॥ २,३०.४५ ॥
अचिरेणैव भर्त्ता ते भविष्यति सचेतनः ।
उत्पन्नजीवितेन त्वं कामं प्राप्स्यसि शोभने ।
भवित्री चिररात्राय बहुकल्याण भाजनम् ॥ २,३०.४६ ॥
वसिष्ठ उवाच
इति तद्वचनं श्रुत्वा धृतिमालंब्य रेणुका ।
तद्वाक्यगौरवाद्धर्षमवापुस्तनयाश्च ते ॥ २,३०.४७ ॥
ततोनीत्वा पितुर्देहमाश्रमाभ्यन्तरं मुनेः ।
शाययित्वा निवाते तु परितः समुपाविशन् ॥ २,३०.४८ ॥
तेषां तत्रोपविष्टानामप्रहृष्टात्मचेतसाम् ।
निमत्तानि शुभान्यासन्ननेकानि महान्ति च ॥ २,३०.४९ ॥
तेन ते किञ्चिदाश्वस्तचेतसो मुनिपुङ्गवाः ।
निषेदुः सहिता मात्रा काङ्क्षन्तो जीवितं पितुः ॥ २,३०.५० ॥
एतस्मिन्नन्तरे राजन्भृगुवंशधरो मुनिः ।
विधेर्बलेन मतिमांस्तत्रागच्छद्यदृच्छया ॥ २,३०.५१ ॥
अथर्वणां विधिः सा क्षाद्वेदवेदाङ्गपारगः ।
सर्वशास्त्रार्थवित्प्राज्ञः सकलासुरवन्दितः ॥ २,३०.५२ ॥
मृतसंजीविनीं विद्यां यो वेद मुनिदुर्लभाम् ।
यथाहतान्मृतान्देवैरुत्थापयति दानवान् ॥ २,३०.५३ ॥
शास्त्रमोशनसं येन राज्ञां राज्यफलप्रदम् ।
प्रणीतमनुजीवन्ति सर्वेऽद्यापीह पार्थिवाः ॥ २,३०.५४ ॥
स तदाश्रममासाद्य प्रविष्टोऽन्तर्महामुनिः ।
ददर्श तदवस्थांस्तान्सर्वान्दुःखपरिप्लुतान् ॥ २,३०.५५ ॥
अथ ते तु भृगुं दृष्ट्वा वंशम्य पितरं मुदा ।
उत्थायास्मै ददुश्चापि सत्कृत्य परमासनम् ॥ २,३०.५६ ॥
स चाशीर्भिस्तु तान्सर्वानभिनन्द्य महामुनिः ।
पप्रच्छ किमिदं वृत्तं तत्सर्वं ते न्यवेदयन् ॥ २,३०.५७ ॥
तच्छ्रुत्वा स भृगुः शीघ्रं जलमादाय मन्त्रवित् ।
संजीविन्या विद्यया तं सिषेच प्रोच्चरन्निदम् ॥ २,३०.५८ ॥
यज्ञस्य तपसो वीय ममापि शुभमस्ति चेत् ।
तेनासौ जीवताच्छीघ्रं प्रसुप्त इव चोत्थितः ॥ २,३०.५९ ॥
एवमुक्ते शुभे वाक्ये भृगुणा साधुकारिणा ।
समुत्तस्थावथार्चीकः साक्षाद्गुरुरिवापरः ॥ २,३०.६० ॥
दृष्ट्वा तत्र स्थितं वन्द्यं भृगुं स्वस्य पितामहम् ।
ननाम भक्त्या नृपते कृताञ्जलिरुवाच ह ॥ २,३०.६१ ॥
जमदग्निरुवाच
धन्योऽहं कृतकृत्योऽहं सफलं जीवितं च मे ॥ २,३०.६२ ॥
यत्पश्ये चरणौ तेऽद्य सुरासुरनमस्कृतौ ।
भगवन्किं करोम्यद्य शुश्रूषां तव मानद ॥ २,३०.६३ ॥
पुनीह्यात्मकुलं स्वस्य चरणांबुकणैर्विभो ।
इत्युक्त्वा सहसाऽनीतं रामेणार्ध्यं मुदान्वितः ॥ २,३०.६४ ॥
प्रददौ पादयोस्तस्य भक्त्यानमितकन्धरः ।
तज्जलं शिरसाधत्त सकुटुंबो महामनाः ॥ २,३०.६५ ॥
अथ सत्कृत्य स भृगुं पप्रच्छ विनयान्वितः ।
भगवन् किं कृतं तेन राज्ञा दुष्टेन पातकम् ॥ २,३०.६६ ॥
यस्यातिथ्यं हि कृतवानहं सम्यग्विधानतः ।
साधुबुद्ध्या स दुष्टात्मा किं चकार महामते ॥ २,३०.६७ ॥
वसिष्ठ उवाच
एवं स पृष्टो मतिमान्भृगुः सर्वविदीश्वरः ।
चिरं ध्यात्वा समालोच्य कारणं प्राह भूपते ॥ २,३०.६८ ॥
भृगुरुवाच
शृणु तात महाभाग बीजमस्य हि कर्मणः ।
यश्च वै कृतवान्पापं सर्वज्ञस्य तवानघ ॥ २,३०.६९ ॥
शप्तः पुरा वसिष्ठेन नाशार्थं स महीपतिः ।
द्विजापराधतो मूढ वीर्यं ते विनशिष्यते ॥ २,३०.७० ॥
तत्कथं वचनं तस्य भविष्यत्यन्यथा मुनेः ।
अयं रामो महावीर्यं प्रसह्य नृपपुङ्गवम् ॥ २,३०.७१ ॥
हनिष्यति महाबाहो प्रतिज्ञां कृतवान्पुरा ।
यस्मादुरः प्रतिहतं त्वया मातर्ममाग्रतः ॥ २,३०.७२ ॥
एकविंशतिवारं हि भृशं दुःखपरीतया ।
त्रिः सप्तकृत्वो निःक्षत्रां करिष्ये पृथिवीमिमाम् ॥ २,३०.७३ ॥
अतोऽयं वार्यमाणोऽपि त्वया पित्रा निरन्तरम् ।
भाविनोऽर्थस्य च बलात्करिष्यत्येव मानद ॥ २,३०.७४ ॥
स तु राजा महाभागो वृद्धानां पर्युपासिता ।
दत्तात्रेयाद्धरेरंशाल्लब्धबोधो महामतिः ॥ २,३०.७५ ॥
साक्षाद्भक्तो महात्मा च तद्वधे पातकं भवेत् ।
एवमुक्त्वा महाराज स भृगुर्ब्रह्मणः सुतः ।
यथागतं ययौ विद्वान्भविष्यत्कालपर्ययात् ॥ २,३०.७६ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्याभागे तृतीय
उपोद्धातपादे भार्गवचरिते त्रिंशत्तमोऽध्यायः ॥ ३०॥