ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ४१

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ४० ब्रह्माण्डपुराणम्
अध्यायः ४१
[[लेखकः :|]]
मध्यभागः, अध्यायः ४२ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


वसिष्ठ उवाच
दृष्ट्वा पितुर्वधं घोरं तत्पुत्रास्ते शतं त्वरा ।
वारयामासुरत्युग्रं भार्गवं स्वबलेः पृथक् ॥ २,४१.१ ॥

एकैकाक्षैहिणीयुक्ताः सर्वे ते युद्धदुर्मदाः ।
संग्रामं तुमुलं चक्रुः संरब्धास्तु पितुर्वधात् ॥ २,४१.२ ॥

रामस्तु दृष्ट्वा तत्पुत्राञ्छूरान्रणविशारदान् ।
परश्वधं समादाय युयुधे तैश्च संगरे ॥ २,४१.३ ॥

तां सेनां भगवान्रामः शताक्षौहिणिसंमिताम् ।
निजघान त्वरायुक्तो मुहुर्त्तद्वयमात्रतः ॥ २,४१.४ ॥

निःशेषितं स्वसैन्यं तु कुठारेणैव लीलया ।
दृष्ट्वा रामेण तेसर्वे युयुधुर्वीर्यसंमताः ॥ २,४१.५ ॥

नानाविधानि दिव्यानि प्रहरन्तो महोजसः ।
परितो मण्डलं चक्रुर्भार्गवस्य महात्मनः ॥ २,४१.६ ॥

अथ रामोऽपि बलवांस्तेषां मण्डलमध्यगः ।
विरेजे भगवान्साक्षाद्यथा नाभिस्तु चक्रगा ॥ २,४१.७ ॥

नृत्यन्निवाचौ विरराज रामः शतं पुनस्ते परितो भ्रमन्तः ।
रेजुश्च गोपी गणमध्यसंस्थः कृष्णो यथा ताः परितो भ्रमन्त्यः ॥ २,४१.८ ॥

तदा तु सर्वे द्रुहिणप्रधानाः समागताः स्वस्वविमानसंस्थाः ।
समाकिरन्नन्दनमाल्यवर्षैः समन्ततो राममहीनवीर्यम् ॥ २,४१.९ ॥

यः शस्त्रपादादुदतिष्ठत ध्वनिर्हुंकारगर्भो दिवमस्पृशन्स वै ।
तौर्यत्रिकस्येव शरक्षतानि भान्तीव यद्वन्नखदन्तपाताः ॥ २,४१.१० ॥

क्रन्दन्ति शस्त्रैः क्षतविक्षताङ्गा गायन्ति यद्वत्किल गीतविज्ञाः ।
एवं प्रवृत्तं नृपयुद्धमण्डलं पश्यन्ति देवा भृशविस्मिताक्षः ॥ २,४१.११ ॥

ततस्तु रामोऽवनिपालपुत्राञ्जिघांसुराजौ विविधास्त्रपूगैः ।
पृथक्चकारातिब लांस्तु मण्डलद्विच्छिद्य पङ्क्तिं प्रभुरात्तचापः ॥ २,४१.१२ ॥

एकैकशस्तान्निजघान वीराञ्छतं तदा पञ्च ततः पलायिताः ।
शूरो वृषास्यो वृषशूरसेनौ जयध्वजश्चापि विभिन्नधैर्याः ॥ २,४१.१३ ॥

महाभयेनाथ परीतचिता हिमाद्रिपादान्तरकाननं च ।
पृथग्गतास्ते सुपरीप्सवो नृपा न कोऽपि कांस्विद्ददृशे भृशार्त्तः ॥ २,४१.१४ ॥

रामोऽपि हत्वा नृपचक्रमाजौ राज्ञः सहायर्थमुपागतं च ।
समन्वितोऽसावकृतव्रणेन सस्नौ मुदागत्य च नर्मदायाम् ॥ २,४१.१५ ॥

स्रात्वा नित्यक्रियां कृत्वा संपूज्य वृषभध्वजम् ।
प्रतस्थे द्रष्टुमुर्वीश शिवं कैलासवासिनम् ॥ २,४१.१६ ॥

गुरुपत्नीमुमां चापि सुतौ स्कन्दविनायकौ ।
मनोयायी महात्मासावकृतव्रणसंयुतः ॥ २,४१.१७ ॥

कृतकार्यो मुदा युक्तः कैलासं प्राप्य तत्क्षणम् ।
ददर्श तत्र नगरीं महतीमलकाभिधम् ॥ २,४१.१८ ॥

नानामणिगणाकीर्णभवनैरुपशोभिताम् ।
नानारुपधरैर्यक्षैः शोभितां चित्रभूषणैः ॥ २,४१.१९ ॥

नानावृक्षसमाकीणैर्वनैश्चोपवनैर्युताम् ।
दीर्घिकाभिः सुदीर्घाभिस्तडागैश्चोपशोभिताम् ॥ २,४१.२० ॥

सर्वतोऽप्यावृतां बाह्ये सीतयालकनन्दया ।
तत्र देवाङ्गनास्नानमुक्तकुङ्कुमपिञ्जरम् ॥ २,४१.२१ ॥

तृषाविर हिताश्चांभः पिबन्ति करिणो मुदा ।
यत्र संगीतसंनादा श्रूयन्ते तत्रतत्र ह ॥ २,४१.२२ ॥

गन्धर्वैरप्सरोभिश्च सततं सहकारिभिः ।
तां दृष्ट्वा भार्गवो राजन्मुदा परमया युतः ॥ २,४१.२३ ॥

ययौ तदूर्ध्वं शिखरं यत्र शेवपरं गृहम् ।
ततो ददर्श राजेन्द्र स्निग्धच्छायं महावटम् ॥ २,४१.२४ ॥

तस्याधस्ताद्वरावासं सुसेव्यं सिद्धसंयुतम् ।
ददर्ंश तत्र प्राकारं शतयोजनमण्डलम् ॥ २,४१.२५ ॥

नानारत्नाचितं रम्यं चतुर्द्वारं गणावृतम् ।
नन्दीश्वरं महाकालं रक्ताक्षं विकटोदरम् ॥ २,४१.२६ ॥

पिङ्गलाक्षं विशालाक्षं विरूपाक्षं घटोदरम् ।
मन्दारं भैरवं बाणं रुरुं भैरवमेव च ॥ २,४१.२७ ॥

वीरकं वीरभद्रं च चण्डं भृङ्गिं रिटिं मुखम् ।
सिद्धेन्द्रनाथरुद्रांश्च विद्याधरमहोरगान् ॥ २,४१.२८ ॥

भूतप्रेतपिशाचांश्च कूष्माण्डान्ब्रह्मराक्षसान् ।
वेतालान्दानवेन्द्रांश्च योगीन्द्रांश्च जटाधरान् ॥ २,४१.२९ ॥

यक्षकिंपुरुषांश्चैव डाकिनीयो गिनीस्तथा ।
दृष्ट्वा नन्द्या५ आ तत्र प्रविष्टोऽन्तर्मुदान्वितः ॥ २,४१.३० ॥

ददर्श तत्र भुवनैरावृतं शिवमन्दिरम् ।
चतुर्योजनविस्तीर्णं तत्र प्राग्द्वारसंस्थितौ ॥ २,४१.३१ ॥

दृष्ट्वा वामे कार्त्तिकेय दक्ष चैव विनायकम् ।
ननाम भार्गवस्तौ द्वौ शिवतुल्यपराक्रमौ ॥ २,४१.३२ ॥

पार्षदप्रवरास्तत्र क्षेत्रपालाश्च संस्थिताः ।
रत्नसिंहासनस्थाश्च रत्नभूषमभूषिताः ॥ २,४१.३३ ॥

भार्गवं प्रविशन्तं तु ह्यपृच्छञ्शिवमन्दिरम् ।
विनायको महाराज क्षणं तिष्ठेत्युवाच ह ॥ २,४१.३४ ॥

निद्रितो ह्युमया युक्तो महादेवोऽधुनेति च ।
ईश्वराज्ञां गृहीत्वाहमत्रागत्यक्षणान्तरे ॥ २,४१.३५ ॥

त्वया सार्द्धं प्रवेक्ष्यामि भ्रातस्तिष्ठात्र सांप्रतम् ।
विनायकचश्चैवं श्रुत्वा भार्गवनन्दनः ॥ २,४१.३६ ॥

प्रवक्तुमुपचक्राम गणेशं त्वरयान्वितः ।
राम उवाच
गत्वा ह्यन्तःपुरं भ्रातः प्रणम्य जगदीश्वरौ ॥ २,४१.३७ ॥

पार्वतीशङ्करौ सद्यो यास्यामि निजमन्दिरम् ।
कार्त्तवीर्यः सुचन्द्रश्च सपुत्रबलबान्धवः ॥ २,४१.३८ ॥

अन्ये सहस्रशो भूपाः कांबोजाः पङ्लवाः शाकाः ।
कान्यकुब्जाः कोशलेशा मायावन्तो महाबलाः ॥ २,४१.३९ ॥

निहताः समरे सर्वे मया शंभुप्रसादतः ।
तमिमं प्रणिपत्यैव यास्यामि स्वगृहं प्रति ॥ २,४१.४० ॥

इत्युक्त्वा भार्गवस्तत्र तस्थौ गणपतेः पुरः ।
प्रोवाच मधुरं वाक्यं भार्गवे स गणाधिपः ॥ २,४१.४१ ॥

विनायक उवाच
ज्ञणं तिष्ट महाभाग दर्शनं ते भविष्यति ।
अद्य विश्वेश्वरो भ्रातर्भवान्या सह वर्त्तते ॥ २,४१.४२ ॥

स्त्रीपुंसोर्युक्त योस्तात सहैकासनसंस्थयोः ।
करोति सुखभङ्गं यो नरकं स व्रजेद्ध्रुवम् ॥ २,४१.४३ ॥

विशेषतस्तु पितरं गुरुं वा भूपतिं द्विजः ।
र७ यं समुपासिनं न पश्येदिति निश्चयः ॥ २,४१.४४ ॥

कामतोऽकामतो वापि पश्येद्यः सुरतोन्मुखम् ।
स्त्रीविच्छेदो भवेत्तस्य ध्रुवं सप्रसु जन्मसु ॥ २,४१.४५ ॥

श्रोणिं वक्षः स्थलं वक्त्रं यः पश्यति परस्त्रियः ।
मातुर्वापि भगिन्या वा दुहितुः स नराधमः ॥ २,४१.४६ ॥

भार्गव उवाच
अहो श्रुतमपूर्वं किं वचनं तव वक्त्रतः ।
ब्रान्त्या विनिर्गतं वापि हास्यार्थमथवोदितम् ॥ २,४१.४७ ॥

कामिनां सविकाराणामेतच्छास्त्रनिदर्शनम् ।
निर्विकारास्य च शिशोर्न दोषः कश्चिदेव हि ॥ २,४१.४८ ॥

यास्याम्यन्तः पुरं भ्रातस्तव किं तिष्ठ बालक ।
यथादृष्टं करिष्यामि तत्र यत्समयोचितम् ॥ २,४१.४९ ॥

तत्रैव माता तातश्च त्वया नाम निरूपितौ ।
जगतां पितरौ तौ च पार्वतीपरमेश्वरौ ॥ २,४१.५० ॥

इत्युक्त्वा भार्गवो राजन्नन्तर्गन्तुं समुद्यतः ।
विनायकस्तदोत्थाय वारयामास सत्वरम् ॥ २,४१.५१ ॥

वाग्युद्धं च तयोरासीन्मिथो हस्तविकर्षणम् ।
दृष्ट्वा सकन्दस्तु संभ्रान्तो बोधयामास तौ तदा ॥ २,४१.५२ ॥

बाहुभ्यां द्वौ समुद्गृह्य पृथगुत्सारितौ तथा ।
अथ क्रुद्धो गणेशाय भार्गवः परवीरहा ।
परश्वधं समादाय सप्रक्षेप्तुं समुद्यतः ॥ २,४१.५३ ॥

तं दृष्ट्वा गजाननो भृगुवरं क्रोधात्क्षिपन्तं त्वरा स्वात्मार्थं परशुं तदा निजकरेणोद्धृत्य वेगेन तु ।
भूर्लोकं भुवः स्वरपि तस्योर्ध्वं महर्वैजनं लोकं चापि तपोऽथ सत्यमपरं वैकुण्ठमप्यानयत् ॥ २,४१.५४ ॥

तस्योर्ध्वं च विदर्शयन्भृगुवरं गोलोकमीशात्मजो निष्पात्याधरलोकसप्तक मपीत्थं दर्शयामास च ।
उद्धृत्याथ ततो हि गर्भसलिले प्रक्षप्तमात्रं त्वरा भीतं प्राणपरिप्सुमानयदथो तत्रैव यत्रास्थितः ॥ २,४१.५५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते एकचत्वारिंशत्तमोऽध्यायः ॥ ४१॥