ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ३६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः ३५ ब्रह्माण्डपुराणम्
अध्यायः ३६
[[लेखकः :|]]
मध्यभागः, अध्यायः ३७ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
अवगत्य स वै सर्वं कारणं प्रीतमानसः ।
उवाच भार्गवं राममगस्त्यः कुंभसंभवः ॥ २,३६.१ ॥

अगस्त्य उवाच
शृणु राम महाभाग कथयामि हितं तव ।
मन्त्रस्य सिद्धिं येन त्वं शीघ्रमेव समाप्नुयाः ॥ २,३६.२ ॥

भक्तेस्तु लक्षणं ज्ञात्वा त्रिविधाया महामते ।
यो यतेत नरस्तस्य सिद्धिर्भवति सत्वरम् ॥ २,३६.३ ॥

एकदाहमनुप्राप्तोऽनन्तदर्शनकाङ्क्षया ।
पातालं नागराचैन्द्रैः शोभितं परया मुदा ॥ २,३६.४ ॥

तत्र दृष्टा महाभाग मया सिद्धाः समन्ततः ।
सनकाद्या नारदश्च गौतमो जाजलिःक्रतुः ॥ २,३६.५ ॥

ऋभुर्हंसोऽरुणिश्चैव वाल्मीकिः शक्तिरासुरिः ।
एतेऽन्ये च महासिद्धा वात्स्यायनमुखा द्विज ॥ २,३६.६ ॥

उपासत ह्युपा सीना ज्ञानार्थं फणिनायकम् ।
तं नमस्कृत्य नागैन्द्रैः सह सिद्धैर्महात्मभिः ॥ २,३६.७ ॥

उपविष्टः कथात्तत्र शृण्वानो वैष्णवीर्मुदा ।
येयं भूमिर्महाभाग भूतधात्री स्वरूपिणी ॥ २,३६.८ ॥

निविष्टा पुरतस्तस्य शृण्वन्ती ताः कथाः सदा ।
यद्यत्पृच्छति सा भूमिः शेषं साक्षान्महीधरम् ॥ २,३६.९ ॥

शृण्वन्ति ऋषयः सर्वे तत्रस्था तदनुग्रहात् ।
मया तत्र श्रुतं वत्स कृष्णप्रेमामृतं शुभम् ॥ २,३६.१० ॥

स्तोत्रं तत्ते प्रवक्ष्यामि यस्यार्थं त्वमिहागतः ।
वाराहाद्यवताराणां चरितं पापनाशनम् ॥ २,३६.११ ॥

सुखदं मोक्षदं चैव ज्ञानविज्ञान कारणम् ।
श्रुत्वा सर्वं धरा वत्स प्रत्दृष्टा तं धराधरम् ॥ २,३६.१२ ॥

उवाच प्रणता भूयो ज्ञातुं कृष्णविचेष्टितम् ।
धरण्युवाच
अलङ्कृतं जन्म पुंसामपि नन्दव्रजौकसाम् ॥ २,३६.१३ ॥

तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः ।
जयोपाधिनियुक्तानि संति नामान्यनेकशः ॥ २,३६.१४ ॥

तेषु नामानि मुख्यानि श्रोतुकामा चिरादहम् ।
तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके ॥ २,३६.१५ ॥

नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ।
शेष उवाच
वसुंधरे वरारोहे जनानामस्ति मुक्तिदम् ॥ २,३६.१६ ॥

सर्वमङ्गलमूर्द्धन्यमणिमाद्यष्टसिद्धिदम् ।
महापातककोटिघ्न सर्वतीर्थफलप्रदम् ॥ २,३६.१७ ॥

समस्तजपयज्ञानां फलदं पापनाशनम् ।
शृणु देवि प्रवक्ष्यामि नाम्नामष्टोतरं शतम् ॥ २,३६.१८ ॥

महस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ २,३६.१९ ॥

तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् ।
नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये ॥ २,३६.२० ॥

छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः ।
श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ॥ २,३६.२१ ॥

वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ।
श्रीवत्सकौस्तभधरो यशोदावत्सलो हरिः ॥ २,३६.२२ ॥

चतुर्भुजात्तचक्रासिगदाशङ्खाद्युदायुधः ।
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ॥ २,३६.२३ ॥

यमुनावेगसंहारी बलभद्रप्रियानुजः ।
पूतनाजीवितहरः शकटासुरभञ्जनः ॥ २,३६.२४ ॥

नन्दप्रजजनानन्दी सच्चिदानन्दविग्रहः ।
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ॥ २,३६.२५ ॥

नवनीतलवाहारी मुचुकुन्दप्रसादकृत् ।
षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ॥ २,३६.२६ ॥

शुकवागमृताब्धीन्दुर्गोविन्दो गोविदांपतिः ।
वत्सपालनसंचारी धेनुकासुरमर्द्दनः ॥ २,३६.२७ ॥

तृणीकृततृणावर्त्तो यमलार्जुनभञ्जनः ।
उत्तालतालभेत्ता च तमालश्यामला कृतिः ॥ २,३६.२८ ॥

गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः ।
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ॥ २,३६.२९ ॥

वनमाली पीतवासाः पारिजातापहरकः ।
गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः ॥ २,३६.३० ॥

अजो निरञ्जनः कामजनकः कञ्जलोचनः ।
मधुहा मथुरानाथो द्वारकानाथको बली ॥ २,३६.३१ ॥

वृन्दावनान्तसंचारी तुलसीदामभूषणः ।
स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः ॥ २,३६.३२ ॥

कुब्जाकृष्टांबरधरो मायी परमपूरुषः ।
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥ २,३६.३३ ॥

संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ।
अनादि ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ २,३६.३४ ॥

शिशुपालशिरस्छेत्ता दुर्योधनकुलान्तकृत ।
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ २,३६.३५ ॥

सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी ।
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ २,३६.३६ ॥

जगद्गुरुर्जगन्नाथो वेणुवाद्य विशारदः ।
वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् ॥ २,३६.३७ ॥

युधिष्टिरप्रतिष्ठाता बर्हिबर्हावतंसकः ।
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ २,३६.३८ ॥

कालीयफणिमाणिक्यरञ्जितः श्रीपदांबुजः ।
दामोदरो यज्ञभोक्ता दानवैद्रविनाशनः ॥ २,३६.३९ ॥

नारायणः परं ब्रह्म पन्नगाशनवाहनः ।
जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ २,३६.४० ॥

पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ।
सर्वतीर्थान्मकः सर्वग्रहरूपी परात्परः ॥ २,३६.४१ ॥

इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ।
कृष्णोन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २,३६.४२ ॥

स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् ।
कृष्णप्रेमामृतं नाम परमानन्ददायकम् ॥ २,३६.४३ ॥

अत्युपद्रवदुः खघ्नं परमायुष्य वर्द्धनम् ।
दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २,३६.४४ ॥

पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् ।
पुत्रप्रदमपुत्राणामगती नां गतिप्रदम् ॥ २,३६.४५ ॥

धनवाहं दरिद्राणां जयेच्छूनां जयावहम् ।
शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्द्धनम् ॥ २,३६.४६ ॥

बालरोगग्रहादीनां शमनं शान्तिकारकम् ।
अन्ते कृष्णस्मरणदं भवतापत्रयापहम् ॥ २,३६.४७ ॥

असिद्धसाधकं भद्रे जपादिकरमात्मनाम् ।
कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ॥ २,३६.४८ ॥

नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ।
इमं मन्त्रं महादेवि जपन्नेव दिवा निशम् ॥ २,३६.४९ ॥

सर्वग्रहानुग्रहभाक्सर्वप्रियतमो भवेत् ।
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ॥ २,३६.५० ॥

निषेव्य भोगानन्तेऽपिकृष्णासायुज्यमाप्नुयात् ।
अगस्त्य उवाच
एतावदुक्तो भागवाननन्तो मूर्त्तिस्तु संकर्षणसंज्ञिता विभो ॥ २,३६.५१ ॥

धराधरोऽलं जगतां धरायै निर्दिश्य भूयो विरराम मानदः ।
ततस्तु सर्वे सनकादयो ये समास्थितास्तत्परितः कथादृताः ।
आनन्द पूर्ण्णंबुनिधौ निमग्नाः सभाजयामासुरहीश्वरं तम् ॥ २,३६.५२ ॥

ऋषय ऊचुः
नमो नमस्तेऽखिलविश्वाभावन प्रपन्नभक्तार्त्तिहराव्ययात्मन् ।
धराधरायापि कृपार्णवाय शेषाय विश्वप्रभवे नमस्ते ॥ २,३६.५३ ॥

कृष्णामृतं नः परिपायितं विभो विधूतपापा भवता कृता वयम् ।
भवादृशा दीनदयालवो विभो समुद्धरन्त्येव निजान्हि संनतान् ॥ २,३६.५४ ॥

एवं नमस्कृत्य फणीश पादयोर्मनो विधायाखिलकामपूरयोः ।
प्रदक्षिणीकृत्य धराधराधरं सर्वे वयं स्वावसथानुपागताः ॥ २,३६.५५ ॥

इति तेऽभिहितं राम स्तोत्रं प्रेमामृताभिधम् ।
कृष्णस्य राधाकान्तस्य सिद्धिदम् ॥ २,३६.५६ ॥

इदं राम महाभाग स्तोत्रं परमदुर्लभम् ।
श्रुतं साक्षाद्भगवतः शेषात्कथयतः कथाः ॥ २,३६.५७ ॥

यावन्ति मन्त्रजालानि स्तोत्राणि कवचानि च ॥ २,३६.५८ ॥

त्रैलोक्ये तानि सर्वाणि सिद्ध्यन्त्येवास्य शीलनात् ।
वसिष्ठ उवाच
एवमुक्त्वा महाराज कृष्णप्रेमामृतं स्तवम् ।
यावद्व्यरसींत्स मुनिस्तावत्स्वर्यानमागतम् ॥ २,३६.५९ ॥

चतुर्भिरद्भुतैः सिद्धैः कामरूपैर्मनोजवैः ।
अनुयातमथोत्प्लुत्य स्त्रीपुंसौ हरिणौ तदा ।
अगस्त्यचरणौ नत्वा समारुरुहतुर्मुदा ॥ २,३६.६० ॥

दिव्यदेहधरौ भूत्वा संखचक्रादिचिह्नितौ ।
गतौ च वैष्णवं लोकं सर्व देवन मस्कृतम् ।
पश्यतां सर्वभूतानां भार्गवागस्त्ययोस्तथा ॥ २,३६.६१ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते षट्त्रिंशत्तमोऽध्यायः ॥ ३६॥