ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः २८ ब्रह्माण्डपुराणम्
अध्यायः २९
[[लेखकः :|]]
मध्यभागः, अध्यायः ३० →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
जमदग्निस्ततो भूयस्तमुवाच रुषान्वितः ।
ब्रह्मस्वं नापहर्त्तव्यं पुरुषेण विजानता ॥ २,२९.१ ॥

प्रसह्य गां मे हरतो पापमाप्स्यसि दुर्मते ।
आयुर्जाने परिक्षीणं न चेदेतत्करिष्यति ॥ २,२९.२ ॥

बलादिच्छसि यन्नेतुं तन्न शक्यं कथञ्चन ।
स्वयं वा यदि सायुच्येद्विनशिष्यति पार्थिवः ॥ २,२९.३ ॥

दानं विनापहरणं ब्राह्मणानां तपस्विनाम् ।
शतायुषोर्ऽजुनादन्यः को न्विच्छति जिजीविषुः ॥ २,२९.४ ॥

इत्युक्तस्तेन संक्रुद्धः स मन्त्रीकालचोदितः ।
बद्ध्वा तां गां दृढैः पाशैर्विचकर्ष बलान्वितः ॥ २,२९.५ ॥

जमदग्निरथ क्रोधाद्भाविकर्मप्रचोदितः ।
रुरोध तं यथाशक्ति विकर्षन्तं पायस्विनीम् ॥ २,२९.६ ॥

जीवन्न प्रतिमोक्ष्यामि गामेनामित्यमर्षितः ।
जग्राह सुदृढं कण्ठे वाहुभ्यां तां महामुनिः ॥ २,२९.७ ॥

ततः क्रोधपरीतात्मा चन्द्रगुप्तोऽतिनिर्घृणः ।
उत्सारयध्वमित्येनमादिदेश स्वसैनिकान् ॥ २,२९.८ ॥

अप्रधृष्यतमं लोके तमृषिं राजकिङ्कराः ।
भर्त्राज्ञया प्रसह्यैनं परिवव्रुः समन्ततः ॥ २,२९.९ ॥

दण्डैः कशाभिर्लकुडैर्विनिघ्नन्तश्च मुष्टिभिः ।
ते समुत्सारयन् धेनोः सुदूरतरमन्तिकात् ॥ २,२९.१० ॥

स तथा हन्यमोनोऽपि व्यथितःक्षमयान्वितः ।
न चुक्रोधाक्रोधनत्वं सतो हि परमं धनम् ॥ २,२९.११ ॥

स च शक्तः स्वतपसा संहर्त्तुमपि रक्षितुम् ।
जगत्सर्वं क्षयं तस्य चिन्तयन्न प्रचुक्रुधे ॥ २,२९.१२ ॥

सपूर्वं क्रोधनोऽत्यर्थं मातुरर्थे प्रसादितः ।
रामेणाभूत्ततो नित्यं शान्त एव महातपाः ॥ २,२९.१३ ॥

स हन्यमानः सुभृशं चूर्णिताङ्गास्थिवन्धनः ।
निपपात महातेजा धरण्यां गतचेतनः ॥ २,२९.१४ ॥

तस्मिन्मुनौ निपतिते स दुरात्मा विशङ्कितः ।
किङ्करानादिशच्छीघ्रं धेनोरानयने बलात् ॥ २,२९.१५ ॥

ततः सवत्सां ता धेनुं बद्ध्वा पाशैर्दृढैर्नृपः ।
कशाभिरभिहन्यन्त चकृषुश्च निनीषया ॥ २,२९.१६ ॥

आकृष्यमाणा बहुभिः कशाभिर्लगुडैरपि ।
हन्यमाना भृशं तैश्च चुक्रुधे च पयस्विनी ॥ २,२९.१७ ॥

व्यथितातिकशापातैः क्रोधेन महातान्विता ।
आकृष्य पाशान् सुदृढान् कृत्वात्मानममोचयत् ॥ २,२९.१८ ॥

विमुक्तपाशवन्धासा सर्वतोऽभिवृता बलैः ।
हुंहारवं प्रकुर्वाणा सर्वतोऽह्यपतद्रुषा ॥ २,२९.१९ ॥

विषाणखुरपुच्छाग्रैरभिहत्य समन्ततः ।
राजमन्त्रिबलं सर्वं व्यद्रावयदमर्षिता ॥ २,२९.२० ॥

विद्राव्य किङ्करान्सर्वांस्तरसैव पयस्विनी ।
पश्यतां सर्वभूतानां गगनं प्रत्यपद्यत ॥ २,२९.२१ ॥

ततस्ते भग्नसंकल्पाः संभग्नक्षतविग्रहाः ।
प्रसह्य बद्ध्वा तद्वत्सं जग्मुरेवातिनिर्घृणाः ॥ २,२९.२२ ॥

पयस्विनीं विना वत्सं गृहीत्वा किङ्करैः सह ।
स पापस्तरसा राज्ञः सन्निधिं समुपागमत् ॥ २,२९.२३ ॥

गत्वा समीपं नृपतेः प्रणम्यास्मै प्रशंसकृत् ।
तद्व्रत्तान्तमशेषेण व्याचचक्षे ससाध्वसः ॥ २,२९.२४ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय
उपोद्धातपादेर्ऽजुनोपाख्याने एकोनत्रिंशत्तमोऽध्यायः ॥ २९॥