सामग्री पर जाएँ

ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ३१

विकिस्रोतः तः
← मध्यभागः, अध्यायः ३० ब्रह्माण्डपुराणम्
अध्यायः ३१
[[लेखकः :|]]
मध्यभागः, अध्यायः ३२ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सगर उवाच
ब्रह्मपुत्र महाभाग वद भार्गवचेष्टितम् ।
यच्चकार महावीर्य्यो राज्ञः क्रुद्धो हि कर्मणा ॥ २,३१.१ ॥

वसिष्ठ उवाच
गते तस्मिन्महाभागे भृगो पितृपरायणः ।
रामः प्रोवाच संक्रुद्धो मुञ्चञ्छ्वासान्मुहर्मुहुः ॥ २,३१.२ ॥

परशुराम उवाच
अहो पश्यत मूढत्वंराज्ञो ह्युत्पथगामिनः ।
कार्त्तवीर्यस्य यो विद्वांश्चक्रे ब्रह्मवधोद्यमम् ॥ २,३१.३ ॥

दैवं हि बलवन्मन्ये यत्प्रभावाच्छरीरिणः ।
शुभं वाप्यशुभं सर्वे प्रकुर्वन्ति विमोहिताः ॥ २,३१.४ ॥

शृणवन्तु ऋषयः सर्वे प्रतिज्ञा क्रियते मया ।
कार्त्तवीर्यं निहत्याजौ पितुर्वैरं प्रसाधये ॥ २,३१.५ ॥

यदि राजा सुरैः सर्वैरिन्द्राद्दैर्दानवैस्तथा ।
रक्षिष्यते तथाप्येनं संहरिष्यामि नान्यथा ॥ २,३१.६ ॥

एवमुक्तं समाकर्ण्य रामेण समुहात्मना ।
जमदग्निरुवाचेदं पुत्रं साहसभाषिणम् ॥ २,३१.७ ॥

जमदग्निरुवाच
श्रुणु राम प्रवक्ष्यामि सतां धर्मं सनातनम् ।
यच्छ्रुत्वा मानवाः सर्वे जायन्ते धर्मकारिणः ॥ २,३१.८ ॥

साधवो ये महाभागाः संसारान्मोक्षकाङ्क्षिणाः ।
न कस्मैचित्प्रकुप्यन्ति निन्दितास्ताडिता अपि ॥ २,३१.९ ॥

क्षमाधना महाभागा ये च दान्तास्तपस्विनः ।
तेषां चैवाक्षया लोकाः सततं साधुकारिणाम् ॥ २,३१.१० ॥

यस्तु दुष्टैस्तु दण्डाद्यैर्वचसापि च ताडितः ।
न च क्षोभमवाप्नोति स साधुः परिकीर्त्थते ॥ २,३१.११ ॥

ताडयेत्ताडयन्तं यो न च साधुः स पापभाक् ।
क्षमयार्ऽहणतां प्राप्ताः साधवो ब्राह्मणा वयम् ॥ २,३१.१२ ॥

नरनाथवधे तात पातकं सुमहद्भवेत् ।
तस्मान्निवारये त्वाद्य क्षमां कुरु तपश्चर ॥ २,३१.१३ ॥

वसिष्ठ उवाच
एवं पित्रा समादिष्टं विज्ञाय नृपनन्दन ।
रामः प्रोवाच पितरं क्षमाशीलमरिन्दमम् ॥ २,३१.१४ ॥

परशुराम उवाच
शृणु तात महाप्राज्ञ वि५ तिं मम सांप्रतम् ।
भवता शम उद्दिष्टः साधूनां सुमहात्मनाम् ॥ २,३१.१५ ॥

म शमः साधुदीनेषु गुरुष्वीश्वरभावनैः ।
कर्त्तव्यो दुष्टचेष्टेषु न शमः सुखदो भवेत् ॥ २,३१.१६ ॥

तस्मादस्य वधः कार्यः कार्त्तवीर्यस्य वै मया ।
देह्याज्ञां माननीयाद्य साधये वैरमात्मनः ॥ २,३१.१७ ॥

जमदग्निरुवाच
शृणु राम महाभाग वचो मम समाहितः ।
करिष्यसि यथा भावि तथा नैवान्यथा भवेत् ॥ २,३१.१८ ॥

इतो व्रजत्वं ब्रह्माणां बृच्छ तात हिताहितम् ।
स यद्वदिष्यति विभुस्तत्कर्त्ता नात्र संशयः ॥ २,३१.१९ ॥

वसिष्ठ उवाच
एवमुक्तः स पितरं नमस्कृत्य महामतिः ।
जगाम ब्रह्मणो लोकमगम्यं प्राकृतैर्जनैः ॥ २,३१.२० ॥

ददर्श ब्रह्मणो लोकं शातकैंभविनिर्मितम् ।
स्वर्णप्राकारसंयुक्तं मणिस्तंभैर्विमूषितम् ॥ २,३१.२१ ॥

तत्रापश्यत्समासीनं ब्रह्माणममितौजसम् ।
रत्नसिंहासने रम्ये रत्नभूषणभूषितम् ॥ २,३१.२२ ॥

सिद्धेन्द्रैश्च मुनीन्द्रैश्च वेष्टितं ध्यानतत्परैः ।
विद्याधरीणां नृत्यं च पश्यन्तं सस्मितं मुदा ॥ २,३१.२३ ॥

तपसा फलदातारं कर्त्तारं जगतां विभुम् ।
परिपूर्णतमं ब्रह्म ध्यायतं यतमानसम् ॥ २,३१.२४ ॥

गुह्ययोगं प्रवोचन्तं भक्तवृन्देषु संततम् ।
दृष्ट्वा तमव्ययं भक्त्या प्रणनाम भृगूद्वहः ॥ २,३१.२५ ॥

स दृष्ट्वा विनतं राममाशीर्भिरभिनन्द्य च ।
पप्रच्छ कुशलं वत्स कथमागमनं कृथाः ॥ २,३१.२६ ॥

संपृष्टो विधिना रामः प्रोवाचाखिलमादितः ।
वृत्तान्तं कार्त्तवीर्यस्य पितुः स्वस्य महात्मनः ॥ २,३१.२७ ॥

तच्छ्रुत्वा सकलं ब्रह्मा विज्ञातार्थोऽपि मानद ।
उवाच रामं धर्मिष्ठं परिणामसुखावहम् ॥ २,३१.२८ ॥

प्रतिज्ञा दुर्लभा वत्स यां भवन्कृतवान्रुषा ।
सृष्टि रेषा भगवतः संभवेत्कृपया बटो ॥ २,३१.२९ ॥

जगत्सृष्टं मया तात संक्लेशेन तदाज्ञया ।
तन्नाशकारिणी चैव प्रतिज्ञा भवता कृता ॥ २,३१.३० ॥

त्रिःसप्तकृत्वो निर्भूपां कर्तुमिच्छसि मेदिनीम् ।
एकस्य राज्ञो दोषेण पितुः परिभवेन च ॥ २,३१.३१ ॥

ब्रह्मक्षत्र्रियविट्शूद्रैः सृष्टिरेषा सनातनी ।
आविर्भूता तिरोभूता हरेरेव पुनः पुनः ॥ २,३१.३२ ॥

अव्यर्था त्वत्प्रतिज्ञा तु भवित्री प्राक्तनेन च ।
यद्वायासेन ते कार्यसिद्धिर्भवितुमर्हति ॥ २,३१.३३ ॥

शिवलोकं प्रयाहि त्वं शिवस्याज्ञामवाप्नुहि ।
पृथिव्यां बहवो भूपाः संति शङ्करकिङ्कराः ॥ २,३१.३४ ॥

विनैवाज्ञां महेशस्य को वा तान्हन्तुमीश्वरः ।
बिभ्रतः कवचान्यङ्गे शक्तीश्चापि दुरासदाः ॥ २,३१.३५ ॥

उपायं कुरु यत्नेन जयबीजं शुभावहम् ।
उपाये तु समारब्धे सर्वे सिध्यन्त्युपक्रमाः ॥ २,३१.३६ ॥

श्रीकृष्णमन्त्रं कवचं गृह्ण वत्स गुरोर्हरात् ।
दुर्ल्लङ्घ्यं वैष्णवं तेजः शिवशक्तिर्विजेष्यति ॥ २,३१.३७ ॥

त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।
यथाकथं च विज्ञाप्य शङ्करं लभदुर्लभम् ॥ २,३१.३८ ॥

प्रसन्नः स गुणैस्तुभ्यं कृपालुर्दीनवत्सलः ।
दिव्यपाशुपतं चापि दास्यत्येव न संशयः ॥ २,३१.३९ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते एकत्रिंशत्तमोऽध्यायः ॥ ३१॥