ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ३२ ब्रह्माण्डपुराणम्
अध्यायः ३३
[[लेखकः :|]]
मध्यभागः, अध्यायः ३४ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सगर उवाच
श्रुतं सर्वं मुनिश्रेष्ठ कीर्त्यमानं त्वया विभो ।
कवचं वद सर्वत्र त्रैलोक्यविजयप्रदम् ॥ २,३३.१ ॥

वसिष्ठ उवाच
शृणु वत्स प्रवक्ष्यामि कवचं परमाद्भुतम् ।
मन्त्र च सिद्धिद शश्वत्साधकानां सुखावहम् ॥ २,३३.२ ॥

गोपीजनपदस्यात वल्लभाय समुच्चरेत् ।
स्वाहान्तोऽयं महामन्त्रो दशार्णो भुक्तिमुक्तिदः ॥ २,३३.३ ॥

सदाशिवस्त्वस्य ऋषिः पङ्क्तिश्छन्द उदाहृतम् ।
देवता कृष्ण उदितो विनियोगोऽखिलाप्तये ॥ २,३३.४ ॥

त्रैलोक्यविजयस्याथ कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च जगती देवो राजेश्वरः स्वयम् ॥ २,३३.५ ॥

त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्त्तितः ।
प्रणवो मेशिरः पातु श्रीकृष्णाय नमः सदा ॥ २,३३.६ ॥

पायात्कपालं कृष्णाय स्वाहेति सततं मम ।
कृष्णेति पातु नेत्रे मे कृष्णस्वाहेति तारकाम् ॥ २,३३.७ ॥

हरये नम इत्येष भ्रूलतां पातु मे सदा ।
ओं गोविन्दाय स्वाहेति नासिकां पातु संततम् ॥ २,३३.८ ॥

गोपालाय नमो गण्डं पातु मे सततं मनुः ।
क्लीं कृष्णाय नमः कर्णौं पातु कल्पतरुर्मम ॥ २,३३.९ ॥

श्रीं कृष्णाय नमः पातु नित्यं मेऽधरयुग्मकम् ।
ओं गोपीशाय स्वाहेति दन्तपङ्क्तिं ममावतु ॥ २,३३.१० ॥

श्रीकृष्णेति रदच्छिद्रं पातुमे त्र्यक्षरो मनुः ।
ओं श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ॥ २,३३.११ ॥

रामेश्वराय स्वाहेति तालुकं पातु मे सदा ।
राधिकेशाय स्वाहेति कण्ठं मे पातु सर्वदा ॥ २,३३.१२ ॥

नमो गोपीगणेशाय ग्रीवां मे पातु सर्वदा ।
ओं गोपेशाय स्वाहेति स्कन्धौ पातु सदा मम ॥ २,३३.१३ ॥

नमः किशोरवेषाय स्वाहा पृष्ठं ममावतु ।
उदरं पातु मे नित्यं मुकुन्दाय नमो मनुः ॥ २,३३.१४ ॥

ह्नीं श्रीङ्क्लीङ्कृष्णाय स्वाहा करौ पातु सदा मम ।
ओं विष्णवे नमः स्वाहा बाहुयुग्मं ममावतु ॥ २,३३.१५ ॥

ओं ह्रींभगवते स्वाहा नखपङ्क्तिं ममावतु ।
नमो नारायणायेति नखरन्ध्रं ममावतु ॥ २,३३.१६ ॥

ओं ह्रींश्रींपद्मनाभाय नाभिं पातु सदा मम ।
ओं सर्वेशाय स्वाहेति केशान्मम सदावतु ॥ २,३३.१७ ॥

नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदावतु ।
ओं माधवाय स्वाहेति भालं मे सर्वदावतु ॥ २,३३.१८ ॥

ओं ह्रींश्रींरसिकेशाय कटिं मम सदावतु ।
नमो गोपीजनेशाय ऊरू पातु सदा मम ॥ २,३३.१९ ॥

ओं नमो दैत्यनाशाय स्वाहेत्यवतु जानुनी ।
यशोदानन्दनायेति नमोतो जङ्घकेऽवतु ॥ २,३३.२० ॥

रासारंभप्रियायेति स्वाहान्तो हीं ममावतु ।
वृन्दाप्रियाय स्वाहेति सकलाङ्गानि मेऽवतु ॥ २,३३.२१ ॥

परिबुर्णमनाः कृष्मः प्राच्यां मां सर्वदावतु ।
स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु ॥ २,३३.२२ ॥

पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदावतु ।
नैरृत्यां पातु मां कृष्णाः पश्चिमे पातु मां हरिः ॥ २,३३.२३ ॥

गोविन्दः पातु वायव्यामुत्तरे रसिकेश्वरः ।
ऐशान्यां मे सदा पातु वृन्दावनविहार कृत् ॥ २,३३.२४ ॥

वृन्दाप्राणेश्वरः शश्वत्पातु मामूर्द्ध्वदेशतः ।
सदैव मामधः पातु बलिध्वंसी महाबलः ॥ २,३३.२५ ॥

जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ।
स्वप्ने जागरणे चैव पातु मां माधवः स्वयम् ॥ २,३३.२६ ॥

सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ।
इति ते कथितं भूप सर्वाघौघविनाशनम् ॥ २,३३.२७ ॥

त्रैलोक्यविजयं नाम कवचं परमेशितुः ।
मया श्रुतं शिवमुखात्प्रवक्तव्यं न कस्यचित् ॥ २,३३.२८ ॥

गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ २,३३.२९ ॥

स साधकोऽवसद्यत्र तत्र वाणीरमे स्थिते ।
यदि स्यात्सिद्धकवचो जीवन्मुक्तो न संशयः ॥ २,३३.३० ॥

निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् ।
राजसूर्यसहस्राणि वाजपेयशतानि च ॥ २,३३.३१ ॥

महादानानि यान्येव भुवश्चापि प्रदक्षिणा ।
त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥ २,३३.३२ ॥

व्रतोपवासनियमाः स्वाध्यायाध्ययने तथा ।
स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥ २,३३.३३ ॥

सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि ।
यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् ॥ २,३३.३४ ॥

स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः ।
यो भवेत्सिद्धकवचो विजयी स भवेद्ध्रुवम् ॥ २,३३.३५ ॥

राज्यं देयं शिरो देयं प्राणा देयाश्च भूपते ।
एतत्तु कवचं वत्स न देयं संकटेऽपि च ॥ २,३३.३६ ॥

मया प्रकाशितं यत्ते चैतेषां त्राणकारणात् ।
ममाज्ञाकरणाच्चैव तद्विद्धि कुलभास्कर ।
इदं धृत्वा तु कवचं चक्रवर्त्ती भवान्भव ॥ २,३३.३७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते त्रयस्त्रिंशत्तमोऽध्यायः