सामग्री पर जाएँ

ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः २२

विकिस्रोतः तः
← मध्यभागः, अध्यायः २१ ब्रह्माण्डपुराणम्
अध्यायः २२
[[लेखकः :|]]
मध्यभागः, अध्यायः २३ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
इत्येवमुक्तो भृगुणा तथेत्युक्त्वा प्रणम्य च ।
रामस्तेनाभ्यनुज्ञातश्चकार गमने मनः ॥ २,२२.१ ॥

भृगुं ख्यातिं च विधिवत्परिक्रम्य प्रणम्यच ।
परिष्वक्तस्तथा ताभ्यामाशीर्भिराभिनन्दितः ॥ २,२२.२ ॥

मुनींश्च तान्नमस्कृत्य तैः सर्वैरनुमोदितः ।
निश्चक्रमाश्रमात्तस्मात्तपसे कृतनिश्चयः ॥ २,२२.३ ॥

ततो गुरुनियोगेन तदुक्तेनैव वर्त्मना ।
हिमवन्तं गिरिवरं ययौ रामो महामनाः ॥ २,२२.४ ॥

सोऽतीत्य विविधान्देशान्पर्वतान्सरितस्तथा ।
वनानि मुनिमुख्यानामावासांश्चात्यगाच्छनैः ॥ २,२२.५ ॥

तत्रतत्र निवासेषु मुनीनां निवसन्पथि ।
तीर्थेषु क्षेत्रमुख्येषु निवसन्वा ययौ शनैः ॥ २,२२.६ ॥

अतीत्य सुबहून्देशान्पश्यन्नपि मनोरमान् ।
आससादच लश्रेष्ठं हिमवन्तमनुत्तमम् ॥ २,२२.७ ॥

स गत्वा पर्वतवरं नानाद्रुमलतास्थितम् ।
ददर्श विपुलैः शृङ्गैरुल्लिखन्तमिवांबरम् ॥ २,२२.८ ॥

नानाधातुविचित्रैश्च प्रदेशैरुपशोभितम् ।
रत्नौषधीभिरभितः स्फुरद्भिरभिशोभितम् ॥ २,२२.९ ॥

मरुत्संघट्टनाघृष्टनीरसांघ्रिपजन्मना ।
सानिलेनानलेनोच्छैर्दह्यमानं नवं क्वचित् ॥ २,२२.१० ॥

क्वचिद्रविकरामर्शज्वलदर्केपलाग्निभिः ।
द्रवद्धिमाशिलाजातुजलशान्तदवानलम् ॥ २,२२.११ ॥

स्फटिकाञ्जनदुर्वर्णस्वर्णराशिप्रभाकरैः ।
स्फुरत्परस्परच्छायाशरैर्द्दीप्तवनं क्वचित् ॥ २,२२.१२ ॥

उपत्यकशिलापृष्ठवालातपनिषेविभिः ।
तुषारक्लिन्नसिद्धौघौरुद्भासितवनं क्वचित् ॥ २,२२.१३ ॥

क्वचिदर्काशुसंभिन्नश्चामीकरशिलाश्रितैः ।
यक्षौघैर्भासितोपान्तं विशद्भिरिवपावकम् ॥ २,२२.१४ ॥

दरीमुखविनिष्क्रान्ततरक्षूत्पतनाकुलैः ।
मृगयूथार्त्तसन्नादैरापूरितगुहं क्वचित् ॥ २,२२.१५ ॥

युद्ध्यद्वराहशार्दूलयूथपैरित स्तेरम् ।
प्रसभोन्मृष्टकान्तोरुशिलातरुतटं क्वचित् ॥ २,२२.१६ ॥

कलभोन्मेषणाकृष्टकरिणीभिरनुद्रुतैः ।
गवयैः खुरसंक्षुण्णशिलाप्रस्थतटङ्क्वचित् ॥ २,२२.१७ ॥

वासितर्थेऽभिसंवृद्धमदोन्मत्तमतङ्गजैः ।
युद्ध्यद्भिश्चूर्णितानेकगण्डशैलवनं क्वचित् ॥ २,२२.१८ ॥

बृंहितश्रवणामर्षान्मातं गानभिधावताम् ।
सिंहानां चरणक्षुण्णनखभिन्नोपरं क्वचित् ॥ २,२२.१९ ॥

सहसा निपतत्सिंहनखनिर्भिन्नमस्तकैः ।
गजैराक्रन्दनादेन पूर्यमामं वनं क्वचित् ॥ २,२२.२० ॥

अष्टपादबलाकृष्टकेसरा दारुणाखैः ।
भेद्यमानाखिलशिलागंभीरकुहरं क्वचित् ॥ २,२२.२१ ॥

संरब्धा नेकशबरप्रसक्तैरृयूथपैः ।
इतरेतरसंमर्दं विप्रभग्नदृषत्क्वचित् ॥ २,२२.२२ ॥

गिरिकुञ्जेषु संक्रीडत्करिणीमद्विपं क्वचित् ।
करेणुमाद्रवन्मत्तगजाकलितकाननम् ॥ २,२२.२३ ॥

स्वपत्सिंहमुखश्वासमरुत्पुर्मदरीशतम् ।
गहनेषु गुरुत्राससाशङ्कविहरन्मृगम् ॥ २,२२.२४ ॥

कण्टाकश्लिष्टलाङ्गूललोमत्रुटनकातरैः ।
क्रीडितं चमरीयूथैर्मन्दमन्दविचारिभिः ॥ २,२२.२५ ॥

गिरिकन्दरसंसक्तकिन्नरीसमुदीरितैः ।
सतालनादैरुदिनैर्भृताशेषदिशामुखम् ॥ २,२२.२६ ॥

अरण्यदेवतानां च चरेतीनामितस्ततः ।
अलक्तकरसक्लिन्नचरणाङ्कितभूतलम् ॥ २,२२.२७ ॥

मयूरकेकिरीवृन्दैः संगीत मधुरस्वरैः ।
प्रवृत्तनृत्तं परितो विततोदग्रबर्हिभिः ॥ २,२२.२८ ॥

जलस्थलरुहानेककुसुमोत्करवर्षिभिः ।
गात्राह्लादकरैर्मन्दं वीज्यमानं वनानिलैः ॥ २,२२.२९ ॥

भूतार्त्तवरसास्वादमाद्यत्पुंस्कोकिलारवैः ।
आकुलीकृतपर्यन्तसहकारवनान्तरम् ॥ २,२२.३० ॥

नानापुष्पासवोन्माद्यद्भृङ्गसंगीतनादितम् ।
अनेकविहगारावबधिरीकृतकाननम् ॥ २,२२.३१ ॥

मधुद्रवार्द्राविरलप्रत्यग्रकुसुमोत्करैः ।
वनान्तमारुताकीर्णैरलङ्कृतमहीतलम् ॥ २,२२.३२ ॥

उपरिष्टान्निपततां विषमोपलसंकटे ।
निर्झराणां महारावैः समन्ताद्बधिरीकृतम् ॥ २,२२.३३ ॥

विततानेकसंसक्तशाखाग्राविरलच्छदैः ।
पाटलैर्विटपच्छायैरुपशल्यसमुत्थितैः ॥ २,२२.३४ ॥

कदंबनिंबहिन्तालसर्जबेधूकतिन्दुकैः ।
कपित्थपनसाशोकसहकारेगुदाशनैः ॥ २,२२.३५ ॥

नागचंपकपुन्नागकोविदारप्रियङ्गुभिः ।
प्रियालनीपबकुलबन्धूकाक्षतमालकैः ॥ २,२२.३६ ॥

द्राक्षामधूकामलकजंबूकङ्कोलजातिभिः ।
बिल्वार्जुनकरञ्जाम्रबीजपूराङ्घ्रिपैरपि ॥ २,२२.३७ ॥

पिचुलांबष्ठकनकवैकङ्कतशमीधवैः ।
पुत्रजीवाभयारिष्टलोहोदुंबरपिप्पलैः ॥ २,२२.३८ ॥

अन्यैश्च विविधैर्वृक्षैः समन्तादुपशोभितम् ।
निरन्तरतरुच्छायासुदूरविनिवारितैः ॥ २,२२.३९ ॥

समन्तादर्ककिरणैरनासादितभूतलम् ।
नानापक्वफलास्वादबलपुष्टैः प्लवेगमैः ॥ २,२२.४० ॥

आक्रान्तचकितानेकवनपङ्क्तिशताकुलम् ।
तत्र तत्रातिरम्यैश्च शिलाकुहरनिर्गतैः ॥ २,२२.४१ ॥

प्रतापविषमैराजन्ह्रास्यमानं सरिच्छतैः ।
सारोवरैश्च विपुलैः कुमुदोत्पलमण्डितैः ॥ २,२२.४२ ॥

नानाविहगसंघुष्टैः समन्तादुपशोभितम् ।
समासाद्यथ शैलेन्द्रं तुषारशिशिरं गिरिम् ॥ २,२२.४३ ॥

आरुरोह भगुश्रेष्ठस्तरसा तं मुदान्वितः ।
तस्य प्रविश्य गहनं वनं रामो महामनाः ॥ २,२२.४४ ॥

विचचार शनै राजन्नुपशल्यमहीरुहम् ।
स तत्र विचरन्दिक्षु हरिणीभिः समन्ततः ॥ २,२२.४५ ॥

विक्ष्यमाणो मुदं लेभे साशङ्कं मुग्धदृष्टिभिः ।
स तत्र कुसुमामोदगन्धिभिर्वनवायुभिः ॥ २,२२.४६ ॥

वीज्यमानो जहर्षे स वीक्ष्योदारां वनश्रियम् ।
विविधाश्च स्थरीः सूक्ष्ममुपरिक्रम्य भार्गवः ॥ २,२२.४७ ॥

द्वन्द्वांश्च धातून्विविधान्पश्यन्नेवमतर्कयत् ।
अहोऽयं सर्वशैलानामाधिपत्येऽभिषेचितः ॥ २,२२.४८ ॥

ब्रह्मणा यज्ञभाक्चैव स्थाने संप्रतिपादितः ।
अस्य शैलाधिराजत्वं सुव्यक्तमभिलक्ष्यते ॥ २,२२.४९ ॥

रवैः कीचकवेणुनां मधुरीकृतकाननः ।
नितंबस्थलसंसक्ततुषारनिचयैग्यम् ॥ २,२२.५० ॥

विभातीवाहितस्वच्छपरीतधवलांशुकः ।
निबिडश्रितनीहारनिकरेण तथोपरि ॥ २,२२.५१ ॥

नानावर्णोत्तरासंगावृत्ताङ्ग इवल्क्ष्यते ।
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादिभिः ॥ २,२२.५२ ॥

अलङ्कृतागः सुव्यक्तं दृश्यतेऽही विलासिवत् ।
मृगेन्द्राहतदन्तीन्द्रकुंभस्थलपरिच्युतैः ॥ २,२२.५३ ॥

स्थूलमुक्तोत्करैरेष विभाति परितो गिरिः ।
नानावृक्षलतावल्लीपुष्पालङ्कृतमूर्द्धजः ॥ २,२२.५४ ॥

नीरन्ध्राञ्चितमे घौघवितानसमलङ्कृतः ।
नानाधातुविचित्राङ्गः सर्वरत्नविभूषितः ॥ २,२२.५५ ॥

कैलासव्याजविलसत्सितच्छत्रविराजितः ।
गजाश्वमुखयूथैश्च समन्तात्परिवारितः ॥ २,२२.५६ ॥

रत्नद्वीपमहाद्वारशिलाकन्दरमन्दिरः ।
विविक्तगह्वरास्थानमध्यसिंहासनाश्रयः ॥ २,२२.५७ ॥

समन्तात्प्रतिसंसक्ततरुवेत्रवतां शनैः ।
दृष्ट्वा जनैरनासाद्यो महाराजाधिराजवत् ॥ २,२२.५८ ॥

दोधूयमानो विचरच्चमरीचा रुचामरैः ।
मयूरैरुपनृत्यद्भिर्गायद्भिश्चैव किन्नरैः ॥ २,२२.५९ ॥

सत्त्वजातैरनेकैश्च सेव्यमानो विराजते ।
व्यक्तमेवाचलेन्द्राणामधिराज्यपदे स्थितः ॥ २,२२.६० ॥

भुनक्त्याक्रम्य वसुधां समग्रां श्रियमोजसा ।
एवं संचिन्तयानः स हिमाद्रिवनगह्वरे ॥ २,२२.६१ ॥

विचचार चिरं रामो मुदा परमया युतः ।
आससाद वने तस्मिन्विपुले भृगुपुङ्गवः ॥ २,२२.६२ ॥

सरोवरं महाराज विपुलं विमलोदकम् ।
कुमुदोत्पलकह्लारनिकरैरुपसोभितम् ॥ २,२२.६३ ॥

पङ्कजैरुत्पलैश्चैव रक्तपीतैः सितासितैः ।
अन्यैश्च जलचैर्वक्षैः सर्वतः समलङ्कृतम् ॥ २,२२.६४ ॥

हंससारसदात्यूहकारण्डवशतैरपि ।
जीवजीवकचक्राह्वकुररभ्रमरोत्करैः ॥ २,२२.६५ ॥

संघुष्यमाणं परितः सेवितं मन्दवायुना ।
शफरीमत्स्यसंघैश्च विचरद्भिरितस्ततः ॥ २,२२.६६ ॥

अन्तर्जनितकल्लोलैर्नृत्यमानमिवाभितः ।
आससाद भृगुश्रेष्ठस्तत्सरोवरमुत्तमम् ॥ २,२२.६७ ॥

नानापतत्र्रिविरुतैर्मधुरीकृतदिक्तटम् ।
स तस्य तीरे विपुलं कृत्वाश्रमपदं शुभम् ॥ २,२२.६८ ॥

रामो मतिमतां श्रेष्ठस्तपसे च मनो दधे ।
शाकमूलफलाहारो नियतं नियतेन्द्रियः ॥ २,२२.६९ ॥

तपश्चचार देवेशं विनिवेश्यात्ममानसे ।
भृगूपदिष्टमार्गेण भक्त्या परमया युतः ॥ २,२२.७० ॥

पूजयामास देवेशमेकाग्रमनसा नृप ।
अनिकेतः स वर्षासु शिशिरे जलसंश्रयः ॥ २,२२.७१ ॥

ग्रीष्मे पञ्जाग्निमध्यस्थश्चचारैवं तपश्चिरम् ।
रिपून्निर्जित्य कामादीनूर्मिषषट्कं विधूय च ॥ २,२२.७२ ॥

द्वन्द्वैरनुद्वेजितधीस्तापदोषैरनाकुलः ।
यमैः सनियमैश्चैव शुद्धदेहः समाहितः ॥ २,२२.७३ ॥

वशी चकार पवनं प्राणायामेन देहगम् ।
जितपद्मासनो मौनी स्थिरचित्तो महामुनिः ॥ २,२२.७४ ॥

वशी चकार चाक्षाणि प्रत्याहारपरायणः ।
धारणाभिः स्थिरीचक्रे मनश्चञ्चलमात्मवान् ॥ २,२२.७५ ॥

ध्यानेन देवदेवेशं ददर्श परमेश्वरम् ।
स्वस्थान्तः करणो मैत्रः सर्वबाधाविवर्जितः ॥ २,२२.७६ ॥

चिन्तयामास देवेशं ध्याने दृष्ट्वा जगद्गुरुम् ।
ध्येयावस्थि तचित्तात्मा निश्चलेद्रियदेहवान् ॥ २,२२.७७ ॥

आकालावधि सोऽतिष्ठन्निवातस्थप्रदीपवत् ।
जपंश्च देवदेवेशं ध्यायंश्च स्वमनीषया ॥ २,२२.७८ ॥

आराधयदमेयात्मा सर्वभावस्थमीश्वरम् ।
ततः स निष्फलं रूपमैश्वरं यन्निरञ्जनम् ॥ २,२२.७९ ॥

परं ज्योतिरचिन्त्यं यद्योगिध्येयमनुत्त मम् ।
नित्यं शुद्धं सदा शान्तमतीन्द्रियमनौपमम् ।
आनन्दमात्रमचलं व्याप्ताशेषचराचरम् ॥ २,२२.८० ॥

चिन्तयामास तद्रूपं देवदेवस्य भार्गवः ।
नित्यं शुद्धं सदा शान्तमतीन्द्रियमनौपमम् ॥ २,२२.८१ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे वसिष्ठसगरसंवादे अर्चुनोपाख्याने जामदग्न्यतपश्चरणं नाम द्वाविंशतितमोऽध्यायः ॥ २२॥