सामग्री पर जाएँ

ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६५

विकिस्रोतः तः
← मध्यभागः, अध्यायः ६४ ब्रह्माण्डपुराणम्
अध्यायः ६५
[[लेखकः :|]]
मध्यभागः, अध्यायः ६६ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


सूत उवाच
पिता सोमस्य वै विप्रा जज्ञेऽत्रिर्भगवानृषिः[]
तत्रात्रिः सर्वलोकानां तस्थौ स्वेनौजसा वृतः ॥ २,६५.१ ॥
कर्मणा मनसा वाचा शुभान्येव समाचरन् ।
काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः ॥ २,६५.२ ॥
सुदुश्चरं नाम तपो येन तप्तं महात्पुरा ।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ २,६५.३ ॥
तस्योर्द्ध्वरेतसस्तत्र स्थितस्यानिमिषस्य ह ।
सोमत्वं तनुरापेदे महाबुद्धिः स वै द्विजः ॥ २,६५.४ ॥
ऊर्द्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः ।
नेत्राभ्या मस्रवत्सोमो दशधा द्योतयन् दिशः ॥ २,६५.५ ॥
तं गर्भं विधिना हृष्टा दश देव्यो दधुस्तदा ।
समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ २,६५.६ ॥
स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रसाधितः ।
पपात भासयंल्लोकाञ्छीतांशुः सर्वभावनः ॥ २,६५.७ ॥
यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः ।
ततः सहाभिः शीतांशुर्निपपात वसुंधराम् ॥ २,६५.८ ॥
पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः ।
रथमारोपयामास लोकानां हितकाम्यया ॥ २,६५.९ ॥
स हि वेदमयो विप्रा धर्मात्मा सत्यसंगरः ।
युक्ते वाजिसहस्रेण रथेऽध्यास्तेति नःश्रुतम् ॥ २,६५.१० ॥
तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनः ।
तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त विश्रुताः ॥ २,६५.११ ॥
तत्रैवाङ्गिरसास्तस्य भृगोश्चैवात्मजास्तथा ।
ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि ॥ २,६५.१२ ॥
ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः ।
आप्यायमानं लोकांस्त्रीन्भावयामास सर्वशः ॥ २,६५.१३ ॥
स तेन रथमुख्येन सागरान्तां वसुंधराम् ।
त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणम् ॥ २,६५.१४ ॥
तस्य यद्वर्द्धितं तेजः पृथिवीमन्वपद्यत ।
ओषध्यस्ताः समुद्भूतास्तेजसा खं ज्वलत्युत ॥ २,६५.१५ ॥
ताभिः पुण्यात्ययं लोकान्प्रजाश्चापि चतुर्विधाः ।
पोष्टा हि भगवान्सोमो जगतो हि द्विजोत्तमाः ॥ २,६५.१६ ॥
स लब्धतेजास्तपसा संस्तवैस्तैः स्वकर्मभिः ।
तवस्तेपे महाभागः समानां नवतीर्दश ॥ २,६५.१७ ॥
इरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत् ।
विभुस्तासां मुदा सोमः प्रख्यातःस्वेन कर्मणा ॥ २,६५.१८ ॥
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ।
बीजौषधीनां विप्राणामपां च द्विजसत्तमाः ॥ २,६५.१९ ॥
सोऽभिषिक्तो महातेजा महाराज्येन राजराट् ।
लोकान्वै भावयामास तेजस्वी तपतां वरः ॥ २,६५.२० ॥
सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः ।
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ॥ २,६५.२१ ॥
स तत्प्राप्य महाद्राज्यं सोमः सोमवतां प्रभुः ।
समारेभे राजसूयं सहस्रशतदक्षिणम् ॥ २,६५.२२ ॥
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमीयिवान् ।
सदस्यस्तत्र भगवान्हरिर्नारायणः प्रभुः ॥ २,६५.२३ ॥
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ २,६५.२४ ॥
दक्षिणामददात्सोमस्त्रींल्लोकानिति नः श्रुतम् ।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः ॥ २,६५.२५ ॥
तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभा वसुः ।
कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ २,६५.२६ ॥
प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ।
अतिरेजे हि राजेन्द्रो दशधा भासयन्दिशः ॥ २,६५.२७ ॥
तस्य तत्प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम् ।
विबभ्राम मतिर्विप्रा विनयादनयावृता ॥ २,६५.२८ ॥
बृहस्पतेः सवै भार्यां तारां नाम यशस्विनीम् ।
जहार सहसा सर्वानवमत्याङ्गिरःसुतान् ॥ २,६५.२९ ॥
स याच्यमानो देवैश्च तथा देवर्षिभिश्च ह ।
नैव व्यसर्जयत्तारां तस्मा अङ्गिरसे तदा ॥ २,६५.३० ॥
उशनास्तस्य जग्राह पार्ष्णिमङ्गिरसो भवः ।
स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः ॥ २,६५.३१ ॥
तेन स्नेहेन भगवान्रुद्रस्तस्य बृहस्पतेः ।
पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याजगवं धनुः ॥ २,६५.३२ ॥
तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।
उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ॥ २,६५.३३ ॥
तत्र तद्युद्धमभवत्प्रख्यातं तारकामयम् ।
देवानां दानवानां च लोकक्षयकरं महत् ॥ २,६५.३४ ॥
तत्र शिष्टास्तु ये देवास्तुषिताश्चैव ते स्मृताः ।
ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ॥ २,६५.३५ ॥
ततो निवार्योशनसं रुद्रं ज्येष्ठं च शङ्करम् ।
ददावाङ्गिरसे तारां स्वयमेत्य पितामहः ॥ २,६५.३६ ॥
अन्तर्वत्नीं च तां दृष्ट्वा तारां ताराधिपाननाम् ।
गर्भमुत्सृज सद्यस्त्वं विप्रः प्राह बृहस्पतिः ॥ २,६५.३७ ॥
मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन ।
अथो तारासृजद्गर्भं ज्वलन्तमिव पावकम् ॥ २,६५.३८ ॥
जातमात्रोऽथ भगवान्देवानामाक्षिपद्वपुः ।
ततः संशयमापन्नस्तारामकथयन्सुराः ॥ २,६५.३९ ॥
सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ।
ह्रीयमाणा यदा देवान्नाह सा साध्वसाधु वा ॥ २,६५.४० ॥
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ।
तं निवार्य तदाब्रह्मा तारां पप्रच्छ संशयम् ॥ २,६५.४१ ॥
यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् ।
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् ॥ २,६५.४२ ॥
सोमस्येति महात्मानं कुमारं दस्युहन्तमम् ।
ततः सुतमुपाघ्राय सोमो राजा प्रजापतिः ॥ २,६५.४३ ॥
बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ।
प्रतिघस्रं च गगने समभ्युत्तिष्ठते बुधः ॥ २,६५.४४ ॥
उत्पादयामास तदा पुत्रं वै राजपुत्रिका ।
तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः ॥ २,६५.४५ ॥
उर्वश्यां जज्ञिरे तस्य पुत्राः षट्सु महौजसः ।
प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा ॥ २,६५.४६ ॥
ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ।
जगाम शरणायाथ पितरं सोऽत्रिमेव तु ॥ २,६५.४७ ॥
तस्य तत्पापशमनं चकारात्रिर्महायशाः ।
स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्वशः ॥ २,६५.४८ ॥
एतत्सोमस्य वै जन्म कीर्त्तितं द्विजसत्तमाः ।
वंशं तस्य द्विजश्रेष्ठा कीर्त्यमानं निबोधत ॥ २,६५.४९ ॥
धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम् ।
सौम्यस्य जन्म श्रुत्वैवं सर्वपापैः प्रमुच्यते ॥ २,६५.५० ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सोमसौम्ययोर्जन्मकथनं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५॥
                                            

  1. अत्रिशब्दोपरि टिप्पणी