ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ४९

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ४८ ब्रह्माण्डपुराणम्
अध्यायः ४९
[[लेखकः :|]]
मध्यभागः, अध्यायः ५० →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

जैमिनिरुवाच
अथानुज्ञाय सगरो वसिष्ठमृषिसत्तमम् ।
बलेन महता युक्तो विदर्भानभ्यवर्त्तत ॥ २,४९.१ ॥

ततो विदर्भराट्तस्मै स्वसुतां प्रीतिपूर्वकम् ।
केशिन्याख्यामनुपमामनुरूपां न्यवेदयत् ॥ २,४९.२ ॥

स तस्या राजशार्दूलो विधिवद्वह्निसाक्षिकम् ।
शुभे मुहूर्ते केशिन्याः पार्णिं जग्राह भूमिपः ॥ २,४९.३ ॥

स्थित्वा दिनानि कतिचिद्गृहे तस्यातिसत्कृतः ।
विदर्भराज्ञा संमन्त्र्य ततो गन्तुं प्रजक्रमे ॥ २,४९.४ ॥

अनुज्ञातस्ततस्तेन पारिबर्हैश्च सत्कृतः ।
निष्क्रम्य तत्पुराद्राजा शूरसेनानुपेयिवान् ॥ २,४९.५ ॥

संभावितस्ततश्चैव यादवैर्मातृसोदरैः ।
धनौघैस्तर्पितस्तैश्च मधुराया विनिर्ययौ ॥ २,४९.६ ॥

एवं स सगरो राजा विजित्य वसुधामिमाम् ।
करैश्च स नृपान्सर्वांश्चक्रे संकेतगानपि ॥ २,४९.७ ॥

ततोऽनुमान्य नृपतीन्निजराज्याय सानुगान् ।
अनुजज्ञे नरपतिः समस्ताननुयायिनः ॥ २,४९.८ ॥

ततो बलेन महाता स्कन्धावारसमन्वितः ।
शनैरपीडयन्देशान्स्वराज्यमुपजग्मिवान् ॥ २,४९.९ ॥

संभाव्यमानश्च मुहुरुपदाभिरनेकशः ।
नानाजनपदैस्तूर्ममयोध्यां समुपागमत् ॥ २,४९.१० ॥

तदागमनमाज्ञाय नागरः सकलो जनः ।
नगरीं तामलञ्चक्रे महोत्सवसमुत्सुकः ॥ २,४९.११ ॥

ततः सा नगरी सर्वा कृतकौतुकमङ्गला ।
सिक्तसंमृष्टभूभागा पूर्णकुम्भशतावृता ॥ २,४९.१२ ॥

समुच्छ्रितध्वजशता पताकाभिरंलकृता ।
सर्वत्रागरुधूपाञढ्या विचित्रकुसुमोज्ज्वला ॥ २,४९.१३ ॥

सद्रत्नतोरणोत्तुङ्गगोपुराट्टलभूषिता ।
प्रसूनलाजवर्षैश्च स्वलङ्कृतमहापथा ॥ २,४९.१४ ॥

महोत्सवसमायुक्ता प्रतिगेहमभूत्पुरी ।
संबूजिताशेषवास्तुदेवतागृहमालिनी ॥ २,४९.१५ ॥

दिक्चक्रजयिनो राज्ञः संदर्शनमुदान्वितैः ।
पौरजानपदैर्त्दृष्टैः सर्वतः समलङ्कृता ॥ २,४९.१६ ॥

ततः प्रकृतयः सर्वे तथान्तः पुरवासिनः ।
वारकाताकदबैश्च नगरीभिश्च सवृताः ॥ २,४९.१७ ॥

अभ्याययुस्ततः सर्वे समत्य पुरवासिनः ।
स तैः समेत्य नृपतिर्लब्धाशीर्वाद सक्त्क्रियः ॥ २,४९.१८ ॥

बधिरीकृतदिक्चक्रो जयशब्देन भूरिणा ।
नानावादित्रसंघोषमिश्रेण मधुरेण च ॥ २,४९.१९ ॥

सत्कृत्य तान्यथा योगं सहितस्तैर्मुदान्वितैः ।
आनन्दयन्प्रजाः सर्वाः प्रविवेश पुरोत्तमम् ॥ २,४९.२० ॥

वेदघोषैः सुमधुरैर्ब्राह्मणैरभिनन्दितः ।
संस्तूयमानः सुभृशं सूतमागधवन्दिभिः ॥ २,४९.२१ ॥

जयशब्दैश्च परितो नानाजनपदेरितैः ।
कलतालरवोन्मिश्रवीणावेणुतलस्वनैः ॥ २,४९.२२ ॥

गायद्भिर्गायकजनैर्नृत्यद्भिर्गणिकाजनैः ।
अन्वीयमानो विलसच्छ्वेतच्छत्रविराजितः ॥ २,४९.२३ ॥

विकीर्यमाणः परितः सल्लाजकुसुमोत्करैः ।
पुरीमयोध्यामविशत्स्वपुरीमिव वासवः ॥ २,४९.२४ ॥

दृष्टिपूतेन गन्धेन ब्राह्मणानां च वर्त्मना ।
जगाम मध्येनगरं गृहं श्रीमदलङ्कृतम् ॥ २,४९.२५ ॥

अवरुह्य ततो यानाद्भार्याभ्यां सहितो मुदा ।
प्रविवेश गृहं मातुर्हृष्टपुष्टजनायुतम् ॥ २,४९.२६ ॥

पर्यङ्कस्थामुपागम्य मातरं विनयान्वितः ।
तत्पादौ संस्पृशन्मूर्ध्ना प्रणाममकरोत्तदा ॥ २,४९.२७ ॥

साभिनन्द्य तमाशीर्भिर्हर्षगद्गदया गिरा ।
ससंभ्रमं समुत्थाय पर्यष्वजत चात्मजम् ॥ २,४९.२८ ॥

सहर्षं बहुधाशीर्भिरभ्यनन्ददुभे स्नुषे ।
स तां संभाव्य कथया तत्र स्थित्वा चिरादिव ॥ २,४९.२९ ॥

अनुज्ञातस्तया राजा निश्चक्राम तदालयात् ।
ततः सानुचरो राजा श्वेतव्यजनवीजितः ॥ २,४९.३० ॥

सुरराज इव श्रीमान्सभां समगमच्छनैः ।
संप्रविश्य सभां दिव्यामनेकनृपसेविताम् ॥ २,४९.३१ ॥

नत्वा गुरुजनं सर्वमाशीर्भिश्चाभिनन्दितः ।
सिंहासने शुभे दिव्ये निषसाद नरेश्वरः ॥ २,४९.३२ ॥

संसेव्यमानश्च नृपैर्नानाजनपदेश्वरैः ।
नानाविधाः कथाः कुर्वन्स तत्र नृपसत्तमः ॥ २,४९.३३ ॥

संप्रीयमामः सुतरामुवास सह बन्धुभिः ।
प्रतिज्ञां पालयित्वैवं जितदिङ्मण्डलो नृपः ॥ २,४९.३४ ॥

अन्वतिष्ठद्यन्थान्याय मर्थत्रयमुदारधीः ।
स्वप्रभावजिताशेषवैरिर्दिङ्मण्डलाधिपः ॥ २,४९.३५ ॥

एकातपत्रां पृथिवीमन्वशासद्वृषो यथा ।
स्वर्यातस्य पितुः पूर्वं परिभावममर्षितः ॥ २,४९.३६ ॥

स यां प्रतिज्ञामारूढस्तां सम्यक्परिपूर्य च ।
सप्तद्वीपाब्धिनगरग्रामायतनमालिनीम् ॥ २,४९.३७ ॥

जित्वा शत्रूनशेषेण पालयामास मेदिनीम ।
एवं गच्छति काले च वसिष्ठो भगवानृषिः ॥ २,४९.३८ ॥

अभ्यजगाम तं भूयो द्रष्टुकामो जरेश्वरम् ।
तमायान्तमतिप्रेक्ष्य मुनिवर्यं ससंभ्रमः ॥ २,४९.३९ ॥

प्रत्युज्जगामार्घहस्तः सहितस्तैर्नपैर्नृपः ।
अर्ध्यपाद्यादिभिः सम्यक्पूजयित्वा महामतिः ॥ २,४९.४० ॥

प्रणाममकरोत्तस्मै गुरुभक्तिसमन्वितः ।
आशीर्भिर्वर्द्धयित्वा तं वसिष्ठः सगरं तदा ॥ २,४९.४१ ॥

आस्यतामिति होवाच सह सर्वैर्नरेश्वरैः ।
उपाविशत्ततो राजा काञ्चने परमासने ॥ २,४९.४२ ॥

मुनिना समनुज्ञातः सभार्यः सह राजभिः ।
आपवस्तुनृपश्रेष्ठमुपासीनमुपह्वरे ॥ २,४९.४३ ॥

उवाच शृण्वतां राज्ञां शनैर्मृद्वक्षरं वचः ।
वसिष्ठ उवाच
कुशलं ननु ते राजन्वाह्येष्वाभ्यन्तरेषु च ॥ २,४९.४४ ॥

मन्त्रिष्वमात्यवर्गेषु राज्ये वा सकलेऽधुना ।
दिष्ट्या च विजिताः सर्वे समग्रबलवाहनाः ॥ २,४९.४५ ॥

अयत्नेनैव युद्धेषु भवता रिपवो हि यत् ।
दिष्ट्यारूढप्रतिज्ञेन मम मानयता वचः ॥ २,४९.४६ ॥

अरयस्त्यक्तधर्माणस्त्वया जीवविसर्जिताः ।
तान्विजित्येतराञ्जेतुं पुनर्दिग्विजयेच्छया ॥ २,४९.४७ ॥

गतस्सवाहनबलस्त्वमित्यशृणवं वचः ।
जितदिङ्मण्डलं भूयः श्रुत्वा त्वां नगरस्थितम् ॥ २,४९.४८ ॥

प्रीत्याहमागतो द्रष्टुमिदानीं राजसत्तम ।
जैमिनिरुवाच
वसिष्ठेनैवमुक्तस्तु सगरस्तालजङ्घजित् ॥ २,४९.४९ ॥

कृताञ्जलिपुटो भूत्वा प्रत्युवाच महामुनिम् ।
सगर उवाच
कुशलं ननु सर्वत्र महर्षे नात्र संशयः ॥ २,४९.५० ॥

कल्याणाभिमुखाः सर्वे देवताश्च मुनेऽनिशम् ।
भवान्ध्यायति कल्याणं मनसा यस्य संततम् ॥ २,४९.५१ ॥

तस्य मे चोपसर्गाश्च संभवन्ति कथं मुने ।
भवतानुगृहीतोऽस्मि कृतार्थश्चाधुना कृतः ॥ २,४९.५२ ॥

यन्मां द्रष्टुमिहायातः स्वयमेव भवान्गुरो ।
यन्मह्यमाह भगवान्विपक्षविजयादिकम् ॥ २,४९.५३ ॥

तत्तथानुष्ठितं किं तु सर्वं भवदनुग्रहात् ।
भवत्प्रसादतः सर्वं मन्ये प्राप्तं महीक्षिताम् ॥ २,४९.५४ ॥

अन्यथा मम का शक्तिः शत्रून्हन्तुं तथाविधान् ।
अनल्पी कुरुते फल्यं यन्मे व्यवसितं भवान् ॥ २,४९.५५ ॥

फलमल्पमपि प्रीत्यै स्यादगस्याधिरोपितुः ।
जैमिनिरुवाच
एवं संभावितः सम्यक्सगेरण महामुनिः ॥ २,४९.५६ ॥

अभ्यनुज्ञाय तं भूयः प्रजागाम निजाश्रमम् ।
वसिष्टे तु गते राजा सगरःप्रीतमानसः ॥ २,४९.५७ ॥

अयोध्यायामभिवसन्प्रशशासाखिलां भुवम् ।
भार्याभ्यां समुपेताभ्यां रूपशीलगुणादिभिः ॥ २,४९.५८ ॥

बुभुजे विषयान्रम्यान्यथाकामं यथासुखम् ।
सुमतिः केशिनी चोभे विकसद्वदनांबुजे ॥ २,४९.५९ ॥

रूपौदार्यगुणोपेते पीनवृत्तपयोधरे ।
नीलकुञ्चितकेशाढ्ये सर्वाभरणभूषिते ॥ २,४९.६० ॥

सर्वलक्षणसंपन्ने नवयौवनगोचरे ।
प्रिये सन्निहिते तस्य नित्यं प्रियहिते रते ॥ २,४९.६१ ॥

स्वाचारभावचेष्टाभिर्जह्रतुस्तन्मनोऽनिशम् ।
स चापि भरणोत्कर्षप्रतीतात्मा महीपतिः ॥ २,४९.६२ ॥

रममाणो यथाकामं सह ताभ्यां पुरेऽवसत् ।
अन्येषां भुवि राज्ञां तु राजशब्दो न चाप्यभूत् ॥ २,४९.६३ ॥

गुणेन चाभवत्तस्य सगरस्य महात्मनः ।
अल्पोऽपि धर्मः सततं यथा भवति मानसे ॥ २,४९.६४ ॥

रा५ तस्यार्थकामौ तु न तथा विपुलावपि ।
अलुब्धमानसोर्ऽथं च भेजे धर्ममपीडयन् ॥ २,४९.६५ ॥

तदर्थमेव राजेन्द्र कामं चापीडयंस्तयोः ॥ २,४९.६६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरदिग्विजयो नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥