ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ४७

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ४६ ब्रह्माण्डपुराणम्
अध्यायः ४७
[[लेखकः :|]]
मध्यभागः, अध्यायः ४८ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४



वसिष्ठ उवाच
ततो मूर्द्धाभिषिक्तानां राज्ञाममिततेजसाम् ।
षट्सहस्रद्वयं रामो जीवग्राहं गृहीतवान् ॥ २,४७.१ ॥

ततो राजसहस्राणि गृहीत्वा मुनिभिः सह ।
स जगाम महातेजाः कुरुक्षेत्रं तपोमयम् ॥ २,४७.२ ॥

सरसां पञ्चकं तत्र खानयित्वा भृगुद्वहः ।
सुखावगाहतीर्थानि तानि चक्रे समन्ततः ॥ २,४७.३ ॥

जघान तत्र वै राज्ञः शरीरप्रभवामृजा ।
सरांसि तानि वै पञ्च पूरयामास भार्गवः ॥ २,४७.४ ॥

स्नात्वा तेषु यथान्यायं जामदग्नयः प्रतापवान् ।
पितॄन्संतर्पयामास यथाशास्त्रमतन्द्रितः ॥ २,४७.५ ॥

पितुः प्रेतस्य राजेन्द्र श्राद्धादिकमशेषतः ।
ब्राह्मणैः सह मातुश्च तत्र चक्रे यथोदितम् ॥ २,४७.६ ॥

एवं तीर्णप्रतीकः स कुरुक्षेत्रे तपोमये ।
उवासातन्द्रितः सम्यक्पितृपूजापरायणः ॥ २,४७.७ ॥

ततः प्रभृत्यभूद्राजंस्तीर्थानामुत्तमोत्तमम् ।
विहितं जामदग्न्येन कुरुक्षेत्रे तपोवने ॥ २,४७.८ ॥

सस्यमं तपञ्चकमिति स्थानं त्रैलोक्यविश्रुतम् ।
यत्र यक्रे भृगुश्रेष्ठः पितॄणां तृप्तिमक्षयाम् ॥ २,४७.९ ॥

स्नानदानतपोहोमद्विजभोजनतर्पणैः ।
भृशमाप्यायितास्तेन यत्र ते पितरोऽखिलाः ॥ २,४७.१० ॥

अवापुरक्षयां तृप्तिं पितृलोकं च शाश्वतम् ।
समन्तपञ्चकं नाम तीर्थं लोके परिश्रुतम् ॥ २,४७.११ ॥

सर्वपापक्षयकरं महापुण्योपबृंहितम् ।
मर्त्यानां यत्र यातानामेनांसि निखिलानि तु ॥ २,४७.१२ ॥

दूरादेवापयास्यन्ति प्रवाते शुष्कपर्णवत् ।
तत्क्षेत्रचर्यागमनं मर्त्यानामसतामिह ॥ २,४७.१३ ॥

न लभ्यते महाराज जातु जन्मशतैरपि ।
समन्तपञ्चकं तीर्थं कुरुक्षेत्रेऽतिपावनम् ॥ २,४७.१४ ॥

यत्र स्नातः सर्वतीर्थैः स्नातो भवति मानवः ।
कृतकृत्यस्ततो रामः सम्यक्पूर्णमनोरथः ॥ २,४७.१५ ॥

उवास तत्र नियतः कञ्चित्कालं महामतिः ।
ततः संवत्सरस्यान्ते ब्राह्मणैः सहितो वशी ॥ २,४७.१६ ॥

पितृपिण्डप्रदानाय जामदग्न्योऽगमद्गयाम् ।
ततो गत्वा ततः श्राद्धे यथाशास्त्रमरिन्दमः ॥ २,४७.१७ ॥

ब्राह्मणांस्तर्पयामास पितॄनुद्दिश्य सत्कृतान् ।
शैवं तत्र परं स्थानं चन्द्रपादमिति स्मृतम् ॥ २,४७.१८ ॥

पितृतृप्तिकरं क्षेत्रं तादृग्लोके न विद्यते ।
यत्रार्चिताः स्वकुलजैर्यथाशक्ति मनागपि ॥ २,४७.१९ ॥

पितरः पिण्डदानाद्यैः प्राप्स्यन्ति गतिमक्षयाम् ।
पितॄनुद्दिश्य तत्रासौ तर्प्पितेषु द्विजातिषु ॥ २,४७.२० ॥

ददौ च विधिवत्पिण्डं पितृभक्तिसमन्वितः ।
ततस्तत्पितरः सर्वे पितृलोकादुपागताः ॥ २,४७.२१ ॥

जगृहुस्तत्कृतां पूजां जमदग्निपुरोगमाः ।
अथ संप्रीतमनसः समेत्य भृगुनन्दनम् ॥ २,४७.२२ ॥

ऊचुस्तत्पितरः सर्वेऽदृश्या भूत्वान्तरिक्षगाः ।
पितर ऊचुः
महत्कर्म कृतं वीर भवतान्यैः सुदुष्करम् ॥ २,४७.२३ ॥

अस्मानपि यथान्यायं सम्यक्तर्पितवानसि ।
अस्माकमक्षयां प्रीतिं तथापि त्वं न यच्छसि ॥ २,४७.२४ ॥

क्षत्रहत्यां हि कृत्वा तु कृतकर्माभवद्यतः ।
क्षेत्रस्यास्य प्रभावेण भक्त्या च तव दर्शनम् ॥ २,४७.२५ ॥

प्राप्ताःस्म पूजिताः किं तु नाक्षय्यफलभागिनः ।
त्समात्त्वं वीरहत्यादिपापप्रशमनाय हि ॥ २,४७.२६ ॥

प्रायश्चित्तं यथान्यायं कुरु धर्मं च शाश्वतम् ।
वधाच्च विनिवर्तस्व क्षत्रियाणामतः परम् ॥ २,४७.२७ ॥

पितुर्न्न तेऽपराध्यन्ते न स्वतन्त्रं यतो जगत् ।
तन्निमित्तं तु मरणं पितुस्ते विहितं पुरा ॥ २,४७.२८ ॥

हन्तुं कं कः समर्थः स्याल्लोके रक्षितुमेव वा ।
निमित्तमात्रमेवेह सर्वः सर्वस्य चैतयोः ॥ २,४७.२९ ॥

ध्रुवं कर्मानुरूपं ते चेष्टन्ते सर्व एव हि ।
कालानुवृत्तं बलवान्नृलोको नात्र संशयः ॥ २,४७.३० ॥

बाधितुं भुवि भूतानि भूतानां न विधिं विना ।
शक्यते वत्स सर्वोऽपि यतः शक्त्या स्वकर्मकृत् ॥ २,४७.३१ ॥

क्षत्रं प्रति ततो रोषं विमुच्यास्मत्प्रियेप्सया ।
शममा प्नुहि भद्रं ते स ह्यस्माकं परं बलम् ॥ २,४७.३२ ॥

वसिष्ठ उवाच
इत्युक्त्वान्तर्दधुः सर्वे पितरो भृगुनन्दनम् ।
स चापि तद्वचः सर्वं प्रतिजग्राह सादरम् ॥ २,४७.३३ ॥

अकृतव्रणसंयुक्तो मुदा परमया युतः ।
प्रययौ च तदा रामस्तस्मात्सिद्धवनाश्रमम् ॥ २,४७.३४ ॥

तस्मिन्स्थित्वा भृगुश्रेष्ठो ब्राह्मणैः सहितो नृप ।
तपसे धृतसंकल्पो बभूव स महामनाः ॥ २,४७.३५ ॥

सरथं सहसाहं च धनुःसंहननानि च ।
पुनरागमसंकेतं कृत्वा प्रास्थापयत्तदा ॥ २,४७.३६ ॥

ततः स सर्वतीर्थेषु चक्रे स्नानमतन्द्रितः ।
परीत्यपृथिवीं सर्वां पितृदेवादिबूजकः ॥ २,४७.३७ ॥

एवं क्रमेण पृथिवीं त्रिवारं भुगुनन्दनः ।
परिचक्राम राजेन्द्र लोकवृत्तमनुव्रतः ॥ २,४७.३८ ॥

ततः स पर्वतश्रेष्ठं महेन्द्रं पुनरप्यथ ।
जगाम तपसे राजन्बाह्मणैरभिसंवृतः ॥ २,४७.३९ ॥

स तस्मिंश्चिररात्राय मुनि सिद्धनिषेविते ।
निवासमात्मनो राजन्कल्पयामास धर्मवित् ॥ २,४७.४० ॥

मुनयस्तं तपस्यन्तं सर्वक्षेत्रनिवासिनः ।
द्रष्टुकामाः समाजग्मुर्नियता ब्रह्मवादिनः ॥ २,४७.४१ ॥

ददृशुस्ते मुनिगणास्तपस्यासक्तमानसम् ।
क्षात्रं कक्षमशेषेण दग्ध्वा शान्तमिवानलम् ॥ २,४७.४२ ॥

अथ तानागतान्दृष्ट्वा मुनीन्दिव्यांस्तपोमयान् ।
अर्घ्यादिसमुदाचारैः पूजयामास भार्गवः ॥ २,४७.४३ ॥

कृतकौशलसंप्रश्नपूर्वकाः सुमहोदयाः ।
तेषां तस्य च संवृत्ताः कथाः पुण्या मनोहराः ॥ २,४७.४४ ॥

ततस्तेषामनुमते मुनीनां भावितात्मनाम् ।
हयमेधं महायज्ञमाहर्तुमुपचक्रमे ॥ २,४७.४५ ॥

संभृत्य सर्वसंभारानौर्वाद्यैः सहितो नृप ।
विश्वामित्रभरद्वाजमार्कण्डेयादिभिस्तथा ॥ २,४७.४६ ॥

तेषा मनुमते कृत्वा काश्यपं गुरुमात्मनः ।
वाजिमेधं ततो राजन्नाजहार महाक्रतुम् ॥ २,४७.४७ ॥

तस्याभूत्काश्यपोऽध्वर्युरुद्गाता गौतमो मुनिः ।
विश्वामित्रोऽभवद्धोता रामस्य विदितात्मनः ॥ २,४७.४८ ॥

ब्रह्मत्वमकरोत्तस्य मार्कण्डेयो महामुनिः ।
भरद्वाजाग्निवेश्याद्या वेद वेदाङ्गपारगाः ॥ २,४७.४९ ॥

मुनयश्चक्रुरन्यानि कर्माण्यन्ये यथाक्रमम् ।
पुत्त्रैः शिष्यैः प्रशिष्यैश्च सहितो भगवान्भृगुः ॥ २,४७.५० ॥

सादस्यमकरोद्राजन्नन्यैश्च मुनिभिः सह ।
स तैः सहाखिलं कर्म समाप्य भृगुपुङ्गवः ॥ २,४७.५१ ॥

ब्रह्माणं पूजयामास यथावद्गुरुणा सह ।
अलङ्कृत्य यथान्याय कन्यां रूपवतीं महीम् ॥ २,४७.५२ ॥

पुरग्रामशतोपेतां समुद्रांबरमालिनीम् ।
आहूय भृगुशार्दूलः सशैलवनकाननाम् ॥ २,४७.५३ ॥

काश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् ।
आत्मनः सन्निवासार्थं तं रामः पर्यकल्पयत् ॥ २,४७.५४ ॥

ततः प्रभृतिराजेन्द्र पूजयामास शास्त्रतः ।
हिरण्यरत्नवस्त्रश्वगोगजान्नादिभिस्तथा ॥ २,४७.५५ ॥

पुरा समाप्य यज्ञान्ते तथा चावभृथाप्लुतः ।
चक्रे द्रव्यपरित्यागं तेषामनुमते तदा ॥ २,४७.५६ ॥

दत्त्वा च सर्वभूतानामभयं भृगुनन्दनः ।
तत्रापि पर्वतवरे तपश्चर्तुं समारभत् ॥ २,४७.५७ ॥

ततस्तं समनुज्ञाय सदस्या ऋत्विजस्तथा ।
ययुर्यथागतं सर्वे मुनयः शंसितव्रताः ॥ २,४७.५८ ॥

गतेषु तेषु भगवानकृतव्रणसंयुतः ।
तपो महत्समास्थाय तत्रैव न्यवसत्सुखी ॥ २,४७.५९ ॥

काश्यपी तु ततो भूमिर्जननाथा ह्यनेकशः ।
सर्वदुःखप्रशान्त्यर्थं मारीचानुमतेन तु ॥ २,४७.६० ॥

तत्र दीपप्रतिष्ठाख्यव्रतं विष्णुमुखोदितम् ।
चचार धरणी सम्यक्दुखैर्ःमुक्ताभवच्च सा ॥ २,४७.६१ ॥

इत्येष जामदग्न्यस्य प्रादुर्भाव उदाहृतः ।
यस्मिञ्श्रुते नरः सर्वपातकैर्विप्रमुच्यते ॥ २,४७.६२ ॥

प्रभावः कार्त्तवीर्यस्य लोके प्रथिततेजसः ।
प्रसंगात्कथितः सम्यङ्नातिसंक्षेपविस्तरः ॥ २,४७.६३ ॥

एवंप्रभावः स नृपः कार्त्तवीर्योऽभवद्भुवि ।
न तादृशः पुमात्कश्चिद्भावी भूताथवा श्रुतः ॥ २,४७.६४ ॥

दत्तात्रेयाद्वरं वव्रे मृतिमुत्तमपूरुषात् ।
यत्पुरा सोऽगमन्मुक्तिं रणे रामेण घातितः ॥ २,४७.६५ ॥

तस्यासीत्पञ्चमः पुत्रः पख्यातो यो जयध्वजः ।
पुत्रस्तस्य महाबाहुस्तालजङ्घोऽभवन्नृप ॥ २,४७.६६ ॥

अभूत्तस्यापि पुत्राणां शतमुत्तमधन्विनाम् ।
तालजङ्घाभिधा येषां वीतिहोत्रोऽग्रजोऽभवत् ॥ २,४७.६७ ॥

पुत्रैः सवीतिहोत्राद्यैर्हैहयाद्यैश्च राजभिः ।
कालं महान्तमवसद्धिमाद्रिवानगह्वरे ॥ २,४७.६८ ॥

यः पूर्वं राम बाणेन द्रवन्पृष्ठेऽभिताडितः ।
तालजङ्घोऽपतद्भूमौ मूर्छितो गाढवेदनः ॥ २,४७.६९ ॥

ददर्श वीतिहोत्रस्तं द्रवन्दैववशादिव ।
रथमारोप्य वेगेन पलायनपरोऽभवत् ॥ २,४७.७० ॥

ते तत्र न्यवसन्सर्वे हिमाद्रौ भयपीडिताः ।
कृच्छ्रं महान्तमासाद्य शाकमूलफलाशनः ॥ २,४७.७१ ॥

ततः शान्तिं गते रामे तपस्यासक्तमानसे ।
जालजङ्घः स्वकं राज्यं सपुत्रः प्रत्यपद्यत ॥ २,४७.७२ ॥

सन्निवेश्य पुरीं भूयः पूर्ववन्नृपसत्तमः ।
वसंस्तदा निजं राज्यमापालयदरिन्दमः ॥ २,४७.७३ ॥

सुपुत्रः सानुगबलः पूर्ववैरमनुस्मरन् ।
अभ्याययौ महाराज तालजङ्घः पुरं तव ॥ २,४७.७४ ॥

चतुरङ्गबलोपेतः कंपयन्निव मेदिनीम् ।
रुरोदाभ्येत्य नगरीमयोध्यां स महीपतिः ॥ २,४७.७५ ॥

ततो निष्क्रम्य नगरात्फलगुतन्त्रोऽपि ते पिता ।
युयुधे तैर्नृपैः सर्वैर्वृद्धोऽपि तरुणो यथा ॥ २,४७.७६ ॥

निहतानेकमातगतुरङ्गरथसैनिकः ।
शत्रुभिर्निर्जितो वृद्धः पलायनपरोऽ भवत् ॥ २,४७.७७ ॥

त्यक्त्वा स नगरं राज्यं सकोशबलवाहनम् ।
अन्तर्वत्न्या च ते मात्रा सहितो वनमाविशत् ॥ २,४७.७८ ॥

तत्र चौर्वाश्रमोपान्ते निवसन्नचिरादिव ।
शोकामर्षसमाविष्टो वृद्धभावेन च स्वयम् ॥ २,४७.७९ ॥

विलोक्यमानो मात्रा ते बाष्पगद्गदकण्ठया ।
अनाथ इव राजेन्द्र स्वर्गलोकमितो गतः ॥ २,४७.८० ॥

ततस्ते जननी राजन्दुःखशोकसमन्विता ।
चितामारोपयद्भर्तू रुदती सा कलेवरम् ॥ २,४७.८१ ॥

अनशनादिदुःखेन भर्त्तुर्व्यसनकर्शिता ।
चकाराग्निप्रवेशाय सुदृढां मतिमात्मनः ॥ २,४७.८२ ॥

और्वस्तदखिलं श्रुत्वा स्वयमेव महामुनिः ।
निर्गत्य चाश्रमात्तां च वारयन्निदमब्रवीत् ॥ २,४७.८३ ॥

न मर्त्तव्यं त्वया राज्ञि सांप्रतं जठरे तव ।
पुत्रस्तिष्ठति सर्वेषां प्रवरश्चवर्त्तिनाम् ॥ २,४७.८४ ॥

इति तद्वचनं श्रुत्वा माता तव मनस्विनी ।
विरराम मृतेस्तां तु मुनिः स्वाश्रममानयत् ।
ततः सा सर्वदुःखानि नियम्य त्वन्मुखांबुजम् ॥ २,४७.८५ ॥

दिदृक्षुराश्रमोपान्ते तस्यैव न्यवसत्सुखम् ।
सुषाव च ततः काले सा त्वामौर्वाश्रमे तदा ॥ २,४७.८६ ॥

जातकर्मादिकं सर्वं भवतः सोऽकरोन्मुनिः ।
और्वाश्रमे विवृद्धश्च भवांस्तेनानुकंपितः ॥ २,४७.८७ ॥

त्वयैव विदितं सर्वमतः परमरिन्दम ।
एवं प्रभावो नृपतिः कार्त्तवीर्योऽभवद्भुवि ॥ २,४७.८८ ॥

व्रतस्यास्य प्रभावेण सर्वलोकेषु विश्रुतः ।
यद्वंशजैर्जितो युद्धे पिता ते वनमादिशत् ॥ २,४७.८९ ॥

तद्वृत्तान्तमशेषेण मया ते समुदीरितम् ।
एतच्च सर्वमाख्यातं व्रतानामुत्तमं तव ॥ २,४७.९० ॥

समन्त्रतन्त्रं लोकेषु सर्वलोकफलप्रदम् ।
न ह्यस्य कर्त्तुर्नृपतेः पुरुषार्थचतुष्टये ॥ २,४७.९१ ॥

भवत्यभीप्सितं किञ्चिद्दर्ल्लभं भुवनत्रये ।
संक्षेपेण मयाख्यातं व्रतं हैहयभूभुजः ।
जामदग्न्यस्य च मुने किमन्यत्कथयामि ते ॥ २,४७.९२ ॥

जैमिनिरुवाच
ततः स सगरो राजा कृताञ्जलिपुटो मुनिम् ॥ २,४७.९३ ॥

उवाच भगवन्नेतत्कर्तुमिच्छाम्यहं व्रतम् ।
सम्यक्तमुपदेशेन तत्रानुज्ञां प्रयच्छ मे ॥ २,४७.९४ ॥

कर्मणानेन विप्रर्षे कृतार्थोऽस्मि न संशयः ।
इत्युक्तस्तेन राज्ञातु तथेत्युक्त्वा महामुनिः ॥ २,४७.९५ ॥

दीक्षयामास राजानं शस्त्रोक्तेनैव वर्त्मना ।
स दीक्षितो वसिष्ठेन सगरो राजसत्तमः ॥ २,४७.९६ ॥

द्रव्याण्यानीय विधिवत्प्रचचार शुभव्रतम् ।
पूजयित्वा जगन्नाथं विधिना तेन पार्थिवः ॥ २,४७.९७ ॥

समाप्य च यथायोग्यमनुज्ञाय गुरुं ततः ।
प्रतिज्ञामकरोद्राजा व्रतमेतदनुत्तमम् ॥ २,४७.९८ ॥

आजीवान्तं धरिष्यामि यत्नेनेति महामतिः ।
अथानुज्ञाप्य राजानं वसिष्ठो भगवानृषिः ॥ २,४७.९९ ॥

सन्निवर्त्यानुगच्छन्तं प्रजगाम निजाश्रमम् ॥ २,४७.१०० ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरोपाख्याने वसिष्ठगमनं नाम सप्तचत्वारिंशत्तमोऽध्यायः