ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ३९

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ३८ ब्रह्माण्डपुराणम्
अध्यायः ३९
[[लेखकः :|]]
मध्यभागः, अध्यायः ४० →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
मत्स्यराजे निपतिते राजा युद्धविशारदः ।
राजेन्द्रान्प्रेरयामास कार्त्तवीर्यो महाबलः ॥ २,३९.१ ॥

बृहद्बलः सोमदत्तो विदर्भो मिथिलेश्वरः ।
निषधाधिपतिश्चैव मगधाधिपतिस्तथा ॥ २,३९.२ ॥

आययुः समरे योद्धं भार्गवेद्रेण भूपते ।
वर्षन्तः शरजालानि नानायुद्धविशारदाः ॥ २,३९.३ ॥

वीराभिमानिनः सर्वे हैहयस्याज्ञया तदा ।
पिनाकहस्तः स भृगुर्ज्वलदग्निशिखोपमः ॥ २,३९.४ ॥

चिक्षेप नागपाशं च आभिमन्त्र्य शरोत्तमम् ।
तदस्त्रं भार्गवे द्रेण क्षिप्तं संग्राममूर्द्धनि ॥ २,३९.५ ॥

चकर्त्त गारुडास्त्रेण सोमदत्तो महाबलः ।
ततः क्रुद्धो महाभागो रामः शत्रुविदारणः ॥ २,३९.६ ॥

रुद्रदत्तेन शूलेन सोमदत्तं जघान ह ।
बृहद्बलं च गदया विदर्भं मुष्टिना तथा ॥ २,३९.७ ॥

मैथिलं मुद्गरेणैव शक्त्या च निषधाधिपम् ।
मागधञ्चरणाघातैरस्त्रजालेन सैनिकान् ॥ २,३९.८ ॥

निहत्य निखिलां सेनां संहाराग्निसमीरणे ।
दुद्राव कार्त्तवीर्यं च जामदग्न्यो महाबलः ॥ २,३९.९ ॥

दृष्ट्वा तं योद्धुमायान्तं राजानोऽन्ये महारथाः ।
कार्य्याकार्यविधानज्ञाः पृष्टे कृत्वा च हैहयम् ॥ २,३९.१० ॥

रामेण युयुधुश्चैव दर्शयन्तश्च सौहृदम् ।
कान्यकुब्जाश्च शतशः सौराष्ट्रावन्तयस्तथा ॥ २,३९.११ ॥

चक्रुश्च शरजालानि रामस्य च समन्ततः ।
शरजालावृतस्तेषां रामः संग्राममूर्द्धनि ॥ २,३९.१२ ॥

न चादृश्यत राजेन्द्र तदा स त्वकृतव्रणः ।
सस्मार रामचरितं यदुक्तं हरिणेन वै ॥ २,३९.१३ ॥

कुशलं भार्गवेन्द्रस्य याचमानो हरिं मुनिः ।
एतस्मिन्नेव काले तु रामः शस्त्रास्त्रकोविदः ॥ २,३९.१४ ॥

विधूय शरजालानि वायव्यास्त्रेण मन्त्रवित् ।
उदतिष्ठद्रणाकाङ्क्षी नीहारादिव भास्करः ॥ २,३९.१५ ॥

त्रिरात्रं समरे रामस्तैः सार्द्धं युयुधे बली ।
द्वादशाक्षौहिणीस्तत्र चिच्छेद लघुविक्रमः ॥ २,३९.१६ ॥

रम्भास्तम्भवनं यद्वत्परश्वधवरायुधः ।
सर्वांस्तान्भूपवर्गांश्च तदीयश्च महाचमूः ॥ २,३९.१७ ॥

दृष्ट्वा विनिहतां तेन रामेण सुमहात्मना ।
आजगाम महावीर्यः सुचन्द्रः सूर्यवंशजः ॥ २,३९.१८ ॥

लक्षराजन्यसंयुक्तः सप्ताक्षौहिणिसंयुतः ।
तत्रानेकमहावीरा गर्जन्तस्तोयदा इव ॥ २,३९.१९ ॥

कंपयन्तो भुवं राजन् युयुधुर्भार्गवेण च ।
तेः प्रयुक्तानि शस्त्राणि महास्त्राणि च भूपते ॥ २,३९.२० ॥

क्षणेन नाशयामास भार्गवेन्द्रः प्रतापवान् ।
गृहीत्वा परशुं दिव्यं कालातकयमोपमम् ॥ २,३९.२१ ॥

कालयन्सकला सेनां चिच्छेद भुगुनन्दनः ।
कर्षकस्तु यथा क्षेत्रे पक्वं धान्यं तथा तृणम् ॥ २,३९.२२ ॥

निशेषयति दात्रेण तथा रामेण तत्कृतम् ।
लक्षराजन्यसैन्यं तददृष्ट्वा रामेण दारितम् ॥ २,३९.२३ ॥

सुचन्द्रः पृथिवीपालो युयुधे संगरे नृप ।
तावुभौ तत्र संक्षुब्धौ नानाशस्त्रास्त्रकोविदौ ॥ २,३९.२४ ॥

युयुधाते महावीरौ मुनीशनृपतीश्वरौ ।
रामोऽस्मै यानि शस्त्राणि चिक्षेपास्त्राणि चापि हि ॥ २,३९.२५ ॥

तानि सर्वाणि चिच्छेद सुचन्द्रो युद्ध पण्डितः ।
ततः क्रुद्धो रणे रामः सुचन्द्रं पृथिवीश्वरम् ॥ २,३९.२६ ॥

कृतप्रतिकृताभिज्ञं ज्ञात्वोपस्पृश्य वार्यथ ।
नारायणास्त्रं विशिखे संदधे चानिवारितम् ॥ २,३९.२७ ॥

तदस्त्रं शतसूर्याभं क्षिप्तं रामेण धीमता ।
हृष्टोत्तीर्य रथात्सद्यः सुचन्द्रः प्रणनाम ह ॥ २,३९.२८ ॥

सर्वास्त्रपूज्यं तच्चापि नारायणविनिर्मितम् ।
तमेवं प्रणतं त्यक्त्वा यथौ नारायमन्तिकम् ॥ २,३९.२९ ॥

विस्मितोऽभूत्तदा रामः समरे शत्रसूदनः ।
दृष्ट्वा व्यर्थं महास्त्रं तद्भूपं स्वस्थं विलोक्य च ॥ २,३९.३० ॥

रामः शक्तिं च मुसलं तोमरं पट्टिशं तथा ।
गदां च परशुं कोपाच्छिक्षेप नृपमूर्द्धनि ॥ २,३९.३१ ॥

जग्राह तानि सर्वाणि सुचन्द्रो लीलयैव हि ।
चिक्षेप शिवशूलं च रामो नृपतये यदा ॥ २,३९.३२ ॥

बभूव पुष्पमालां च तच्छूलं नृपतेर्गले ।
ददर्श च पुरस्तस्य भद्रकालीं जगत्प्रसूम् ॥ २,३९.३३ ॥

वहन्तीं मुण्डमालां च विकटास्यां भयङ्करीम् ।
सिंहस्थां च त्रिनेत्रां च त्रिशूलवरधारिणीम् ॥ २,३९.३४ ॥

दृष्ट्वा विहाय शस्त्रास्त्रं नमस्कृत्य समैडत ।
राम उवाच
नमोस्तु ते शङ्करवल्लभायै जगत्सवित्र्यै समलङ्कृतायै ॥ २,३९.३५ ॥

नानाविभूषाभिरिभारिगायै प्रपन्नरक्षाविहितोद्यमायै ।
दक्षप्रसूत्यै हिमवद्भवायै महेश्वरार्द्धङ्गसमास्थितायै ॥ २,३९.३६ ॥

काल्यै कलानाथकलाधरायै भक्तप्रियायै भुवनाधिपायै ।
ताराभिधायै शिवतत्परायै गणेश्वराराधितपादुकायै ॥ २,३९.३७ ॥

परात्परायै परमेष्ठिदायै तापत्रयोन्मूलनचिन्तनायै ।
जगद्धितायास्तपुरत्रयायै बालादिकायै त्रिपुराभिधायै ॥ २,३९.३८ ॥

समस्तविद्यासुविलासदायै जगज्जनन्यै निहिताहितायै ।
बकाननायै बहुसाख्यदायै विध्वस्तनानासुरदान्वायै ॥ २,३९.३९ ॥

वराभयालङ्कृतदोर्लतायै समस्तगीर्वाणनमस्कृतायै ।
पीतांबरायै पवनाशुगायै शुभप्रदायै शिवसंस्तुतायै ॥ २,३९.४० ॥

नागारिगायै नवखण्डपायै नीलाचलाभां गलसत्प्रभायै ।
लघुक्रमायै ललिताभिधायै लेखाधिपायै लवणाकरायै ॥ २,३९.४१ ॥

लोलेक्षणायै लयवर्जितायै लाक्षारसालङ्कृतपङ्कजायै ।
रमाभिधायै रतिसुप्रियायै रोगापहायै रचिताखिलायै ॥ २,३९.४२ ॥

राज्यप्रदायै रमणोत्सुकायै रत्नप्रभायै रुचिरांबरायै ।
नमो नमस्ते परतः पुरस्तात्पार्श्वाधरोर्ध्वं च नमो नमस्ते ॥ २,३९.४३ ॥

सदा च सर्वत्र नमो नमस्ते नमो नमस्तेऽखिलविग्रहायै ।
प्रसीद देवेशि मम प्रतिज्ञां पुरा कृतां पालय भद्रकालि ॥ २,३९.४४ ॥

त्वमेव माता च पिता त्वमेव जगत्त्रयस्यापि नमो नमस्ते ।
वसिष्ठ उवाच
एवं स्तुता तदा देवी भद्रकाली तरस्विनी ॥ २,३९.४५ ॥

उवाच भार्गवं प्रीता वरदानकृतोत्सवा ।
भद्रकाल्युवाच
वत्स राम महाभाग प्रीतास्मि तव सांप्रतम् ॥ २,३९.४६ ॥

वरं वरय मत्तो यस्त्वया चाभ्यर्थिता हृदि ।
राम उवाच
मातर्यदि वरो देयस्त्वया मे भक्तव त्सले ॥ २,३९.४७ ॥

तत्सुचन्द्रं जये युद्धे तवानुग्रहभाजनम् ।
इति मेऽभिहितं देवि कुरु प्रीतेन चेतसा ॥ २,३९.४८ ॥

येन केनाप्युपायेन जगन्मातर्नमोऽस्तु ते ।
भद्रकाल्युवाच
आग्नेयास्त्रेण राजेन्द्रं सुचन्द्रं नय मद्गृहम् ॥ २,३९.४९ ॥

ममातिप्रियमद्यैव पार्षदो मे भवत्वयम् ।
वसिष्ठ उवाच
इत्युक्तमाकर्ण्य स भार्गवेन्द्रो देव्याः प्रियं कर्तुमथोद्यतोऽभूत् ॥ २,३९.५० ॥

प्राणान्नियम्याचमनं च कृत्वा सुचन्द्रमुद्दिश्य च तत्समादधे ।
अस्त्रं प्रयुक्तं नृपतेर्वधाय रामेण राजन् प्रसभं तदा तत् ॥ २,३९.५१ ॥

दग्ध्वा वपुर्भूतमयं तदीयं निनाय लोकं परदेवतायाः ।
ततस्तु रामेण कृतप्रणामा सा भद्रकालो जगदादिकर्त्री ॥ २,३९.५२ ॥

अन्तर्हिताभूदथ जामदग्न्यस्तस्थौ रणेभूपवधाभिकाङ्क्षी ॥ २,३९.५३ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते एकोनचत्वारिंशत्तमोऽध्यायः ॥ ३९॥