ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः २८

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः २७ ब्रह्माण्डपुराणम्
अध्यायः २८
[[लेखकः :|]]
मध्यभागः, अध्यायः २९ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
स्वपन्तमेत्य राजानं सूतमागधवन्दिनः ।
प्रवोधयितुमव्यग्रा जगुरुच्चैर्निशात्यये ॥ २,२८.१ ॥

वीणावेणुरवोन्मिश्रकलतालततानुगम् ।
समस्तश्रुतिसुश्राव्यप्रशस्तमधुरस्वरम् ॥ २,२८.२ ॥

स्निग्धकण्ठाः सुविस्पष्टमूर्च्छनाग्रामसूचितम् ।
जगुर्गेयं मनोहारि तारमन्द्रलयान्वितम् ॥ २,२८.३ ॥

ऊचुश्च तं महात्मानं राजानं सूतमागधाः ।
स्वपन्तं विविधा वाचो बुबोधयिषवः शनेः ॥ २,२८.४ ॥

पस्यायमस्तमभ्येति राजेन्द्रेन्दुः पराजितः ।
विवर्द्धमानया नूनं तव वक्त्रांबुजश्रिया ॥ २,२८.५ ॥

द्रष्टुं त्वदान नांभोजं समुत्सुक इवाधुना ।
तमांसि भिन्दन्नादित्यः संप्राप्तो ह्युदयं विभो ॥ २,२८.६ ॥

राजन्नखिलशीतांशुवंशमौलिशिखामणे ।
निद्रया लं महाबुद्धे प्रतिवुध्यस्व सांप्रतम् ॥ २,२८.७ ॥

इति तेषां वचः शृण्वन्नबुध्यत महीपतिः ।
क्षीराब्दौ शेषशयनाद्यथापङ्कजलोचनः ॥ २,२८.८ ॥

विनिद्राक्षः समुत्थाय कर्म नैत्यकमादरात् ।
चकारावहितः सम्यग्जयादिकमशेषतः ॥ २,२८.९ ॥

देवतामभिवन्द्येष्टां गां दिव्यस्रग्गन्धभूषणः ।
कृत्वा दूर्वाञ्जनादर्शमङ्गल्यालम्बनानि च ॥ २,२८.१० ॥

दत्त्वा दानानि चार्थिभ्यो नत्वा गोब्रह्मणानपि ।
निष्क्रम्य च पुरात्तस्मादुपतस्थे च भास्करम् ॥ २,२८.११ ॥

तावदभ्याययुः सर्वं मन्त्रिसामन्तनायकाः ।
रचिताञ्जलयो राजन्नेमुश्च नृपसत्तमम् ॥ २,२८.१२ ॥

ततः स तैः परिवृतः समुपेत्य तपोनिधिम् ।
ननाम पादयोस्तस्य किरीटेनार्कवर्चसा ॥ २,२८.१३ ॥

आशीर्भिरभिनन्द्याथ राजानं मुनिपुङ्गवः ।
प्रश्रयावनतं साम्ना तमुवाचास्यतामिति ॥ २,२८.१४ ॥

तमासीनं नरपतिं महार्षिः प्रीतमानसः ।
उवाच रजनी व्युष्टा सुखेन तव किं नृप ॥ २,२८.१५ ॥

अस्माकमेव राजेन्द्र वने वन्येन जीवताम् ।
शक्यं मृगसधर्माणां येन केनापि वर्त्तितुम् ॥ २,२८.१६ ॥

अरण्ये नागराणां तु स्थितिरत्यन्तदुःसहा ।
अनभ्यस्तं हि राजेन्द्र ननु सर्वं हि दुष्करम् ॥ २,२८.१७ ॥

वनवासपरिक्लेशं भवान्यत्सानुगोऽसकृत् ।
आप्तस्तु भवतो नूनं सा गौरवसमुन्नतिः ॥ २,२८.१८ ॥

इत्युक्तस्तेन मुनिना स राजा प्रीतिपूर्वकम् ।
प्रहसन्निव तं भूयो वचनं प्रत्यभाषत ॥ २,२८.१९ ॥

ब्रह्मन्किमनया ह्युक्त्या दृष्टस्ते यादृशो महान् ।
अस्माभिमहिमा येन विस्मितं सकलं जगत् ॥ २,२८.२० ॥

भवत्प्रभावसंजातविभवाहतचेतसः ।
इतो न गन्तुमिच्छन्ति सैनिका मे महामुने ॥ २,२८.२१ ॥

त्वादृशानां जगन्तीह प्रभावैस्तपसां विभो ।
ध्रियन्ते सर्वदा नूनमचिन्त्यं ब्रह्मवर्चसम् ॥ २,२८.२२ ॥

नैव चित्रं तव विभो शक्रोति तपसा भवान् ।
ध्रुवं कर्त्तुं हि लोकानामवस्थात्रितयं क्रमात् ॥ २,२८.२३ ॥

सुदृष्टा ते तपःसिद्धिर्महती लोकपूजिता ।
गमिष्यामि पुरीं ब्रह्मन्ननुजानातु मां भवान् ॥ २,२८.२४ ॥

वसिष्ठ उवाच
इत्युक्तस्तेनस मुनिः कार्त्तवीर्येण सादरम् ।
संभावयित्वा नितरां तथेति प्रत्यभाषत ॥ २,२८.२५ ॥

मुनिना समनुज्ञातो विनिष्क्रम्य तदाश्रमात् ।
सैन्यैः परिवृतः सर्वैः संप्रतस्थे पुरीं प्रति ॥ २,२८.२६ ॥

स गच्छंश्चिन्तयामास मनसा पथि पार्थिवः ।
अहोऽस्य तपसः सिद्धिर्लोक विस्मयदायिनी ॥ २,२८.२७ ॥

यया लब्धेदृशी धेनुः सर्वकामदुहां वरा ।
किं मे सकलराज्येन योगर्द्ध्या वाप्यनल्पया ॥ २,२८.२८ ॥

गोरत्नभूता यदियं धेनुर्मुनिवरे स्थिता ।
अनयोत्पादिता नूनं संपत्स्वर्गसदामपि ॥ २,२८.२९ ॥

ऋद्धमैन्द्रमपि व्यक्तं पदं त्रैलोक्यपूजितम् ।
अस्या धेनोरहं मन्ये कलां नार्हति षोडशीम् ॥ २,२८.३० ॥

इत्येवं चिन्तयानं तं पश्चादभ्येत्य पार्थिवम् ।
चन्द्रगुप्तोऽब्रवीन्मन्त्री कृताञ्जलि पुटस्तदा ॥ २,२८.३१ ॥

किमर्थं राजशार्दूल पुरीं प्रतिगमिष्यसि ।
रक्षितेन च राज्येन पुर्या वा किं फलं तव ॥ २,२८.३२ ॥

गोरत्नभूता नृपतेर्यावर्धेनुर्न चालये ।
वर्त्तते नार्द्धमपि ते राज्यं शून्यं तव प्रभो ॥ २,२८.३३ ॥

अन्यच्च दृष्टमाश्चर्यं मया राजञ्छृणुष्व तत् ।
भवनानि मनोज्ञानि मनोज्ञाश्च तथा स्त्रियः ॥ २,२८.३४ ॥

प्रासादा विविधाकारा धनं चादृष्टसंक्षयम् ।
धेनो तस्यां क्षणेनैव विलीनं पश्यतो मम ॥ २,२८.३५ ॥

तत्तपोवनमेवासीदिदानीं राजसत्तम ।
एवंप्रभावा सा यस्य तस्य किं दुर्लं भवेत् ॥ २,२८.३६ ॥

तस्माद्रत्नार्हसत्त्वेन स्वीकर्त्तव्या हि गौस्त्वया ।
यदि तेऽनुमतं कृत्यमाख्येयमनुजीविभिः ॥ २,२८.३७ ॥

राजोवाच ।
एवमेवाहमप्येनां न जानामीत्यसांप्रतम् ।
ब्रह्मस्वं नापहर्तव्यमिति मे शङ्कते मनः ॥ २,२८.३८ ॥

एवं ब्रुवन्तं राजानमिदमाह पुरोहितः ।
गर्गो मतिमतां श्रेष्ठो गर्हयन्निव भूपते ॥ २,२८.३९ ॥

ब्रह्मस्वं नापहर्त्तव्यमापद्यपि कथञ्चन ।
ब्रह्मस्वसदृशं लोके दुर्जरं नेह विद्यते ॥ २,२८.४० ॥

विषं हन्त्युपयोक्तारं लक्ष्यभूतं तु हैहय ।
कुलं समूलं दहति ब्रह्मस्वारणिपावकः ॥ २,२८.४१ ॥

अनिवार्यमिदं लोके ब्रह्मस्वन्दुर्जरं विषम् ।
पुत्रपौत्रान्तफलदं विपाककटु पार्थिव ॥ २,२८.४२ ॥

एश्वर्यमूढं हि मनः प्रभूममसदात्मनाम् ।
किन्नामासन्न कुरुते नेत्रास द्विप्रलोभितम् ॥ २,२८.४३ ॥

वेदान्यस्त्वामृते कोऽन्यो विना दानान्नृपोत्तम ।
आदानं चिन्तयानो हि बाह्मणेष्वभिवाञ्छति ॥ २,२८.४४ ॥

ईदृशस्त्वं महाबाहो कर्म सज्जननिन्दितम् ।
मा कृथास्तद्धि लोकेषु यशोहानिकरं तव ॥ २,२८.४५ ॥

वंशे महति जातस्त्वं वदान्यानां प्रहीभुजाम् ।
यशांशि कर्मणानेन संप्रतं माव्यनीवशः ॥ २,२८.४६ ॥

अहोऽनुजीविनः किञ्चिद्भर्तारं व्यसनार्णवे ।
तत्प्रसादसमुन्नद्धा मज्जयं त्यनयोन्मुखाः ॥ २,२८.४७ ॥

श्रिया विकुर्वन्पुरुषकृत्यचिन्त्ये विचेतनः ।
तन्मतानुप्रवृत्तिश्च राजा सद्यो विषीदति ॥ २,२८.४८ ॥

अज्ञातमुनयो मन्त्री राजानमनयांबुधौ ।
आत्मना सह दुर्बुद्धिर्लोहनौरिव मज्जयेत् ॥ २,२८.४९ ॥

तस्मात्त्वं राजशार्दूल मूढस्य नयवर्त्मनि ।
मतमस्य सुदुर्बुद्धेर्नानुवर्त्तितुमर्हसि ॥ २,२८.५० ॥

एवं हि वदतस्तस्य स्वामिश्रेयस्करं वचः ।
आक्षिप्य मन्त्री राजानमिदं भूयो ह्यभाषत ॥ २,२८.५१ ॥

ब्राह्मणोऽयं स्वजातीयहितमेव समीक्षते ।
महान्ति राजकार्याणि द्विजैर्वेत्तुं न शक्यते ॥ २,२८.५२ ॥

राज्ञैव राजकार्याणि वेद्यानि स्वमनीषया ।
विना वै भोजनादाने कार्यं विप्रो न विन्दति ॥ २,२८.५३ ॥

ब्राह्मणो नावमन्तव्यो वन्दनीयश्च नित्यशः ।
प्रतिसंग्राहयणीयश्च नाधिकं साधितं क्वचित् ॥ २,२८.५४ ॥

तस्मात्स्वीकृत्य तां धेनुं प्रयाहि स्वपुरं नृप ।
नोचेद्राज्यं परित्यज्य गच्छस्वतपसे वनम् ॥ २,२८.५५ ॥

क्षमावत्त्वं ब्राह्मणानां दण्डः क्षत्रस्य पार्थिव ।
प्रसह्य हरणे वापि नाधर्मस्ते भविष्यति ॥ २,२८.५६ ॥

प्रसह्य हरणे दोषं यदि संपश्यसे नृप ।
दत्त्वा मूल्यं गवाश्वाद्यमृषेर्थेनुः प्रगृह्यताम् ॥ २,२८.५७ ॥

स्वीकर्तव्या हि सा धेनुस्त्वया त्वं रत्नभागयतः ।
तपोधनानां हि कुतो रत्नसंग्रहणादरः ॥ २,२८.५८ ॥

तपोधन बलः शान्तः प्रीतिमान्स नृप त्वयि ।
तस्मात्ते सर्वथा धेनुं याचितः संप्रदास्यति ॥ २,२८.५९ ॥

अथ वा गोहिरण्यद्यं यदन्यदभिवाञ्छितम् ।
संगृह्य वित्तं विपुलं धेनुं तां प्रतिदास्यति ॥ २,२८.६० ॥

अनुपेक्ष्यं महद्रत्नं राज्ञा वै भूतिमिच्छता ।
इति मे वर्त्तते बुद्धिः कथं वा मन्यते भवान् ॥ २,२८.६१ ॥

राजोवाच ।
गत्वा त्वमेव तं विप्रं प्रसाद्य च विशेषतः ।
दत्त्वा चाभीप्सितं तस्मै तां गामानय मन्त्रिक ॥ २,२८.६२ ॥

वसिष्ठ उवाच
एवमुक्तस्ततोराज्ञा स मन्त्री विधिचोदितः ।
निवृत्य प्रययौ शीघ्रं जमदग्नेरथाश्रमम् ॥ २,२८.६३ ॥

गते तु नृपतौ तस्मिन्नकृतव्रणसंयुतः ।
समिदानयनार्थाय रामोऽपि प्रययौ वनम् ॥ २,२८.६४ ॥

ततः स मन्त्री सबलः समासाद्य तदाश्रमम् ।
प्रणम्य मुनिशार्दूलमिदं वचनमब्रवीत् ॥ २,२८.६५ ॥

चन्द्रगुप्त उवाच
ब्रह्मन्नृपतिनाज्ञप्तं राजा तु भुवि रत्नभाक् ।
रत्नभूता च धेनुः सा भुवि दोग्ध्रीष्वनुत्तमा ॥ २,२८.६६ ॥

तस्माद्रत्नंसुवर्णं वा मूल्यमुक्त्वा यथोचितम् ।
आदाय गोरत्नभूतां धेनुं मे दातुमर्हसि ॥ २,२८.६७ ॥

जमदग्निरुवाच
होमधेनुरियं मह्यं न दातव्या हि कस्यचित् ।
राजा वदान्यः स कथं ब्रह्मस्वमभिवाञ्छति ॥ २,२८.६८ ॥

मन्त्र्युवाच
रत्नभाक्त्वंन नृपतिर्द्धेनुं ते प्रतिकाङ्क्षति ।
गवायुतेन तस्मात्त्वं तस्मै तां दातुमर्हसि ॥ २,२८.६९ ॥

जमदग्निरुवाच
क्रयविक्रययोर्नाहं कर्त्ता जातु कथञ्चन ।
हविर्धानीं च वै तस्मान्नोत्सहे दातुमञ्जसा ॥ २,२८.७० ॥

मन्त्र्युवाच
राज्यार्धेनाथ वा ब्रह्मन्सकलेनापि भूभृतः ।
देहि धेनुमिमामेकां तत्ते श्रेयो भविष्यति ॥ २,२८.७१ ॥

जमदग्निरुवाच
जीवन्नाहं तु दास्यामि वासवस्यापि दुर्मते ।
गुरुणा याचितं किं ते वचसा नृपतेः पुनः ॥ २,२८.७२ ॥

मन्त्र्युवाच
त्वमेव स्वेच्छया राज्ञे देहि धेनुं सुहृत्तया ।
यथा बलेन नीतायां तस्यां त्वं किं करिष्यसि ॥ २,२८.७३ ॥

जमदग्निरुवाच
दाता द्विजानां नृपतिः स यद्यप्याहरिष्यति ।
विप्रोऽहं किं करिष्यामि स्वेच्छावितरणं विना ॥ २,२८.७४ ॥

वसिष्ठ उवाच
इत्येवमुक्तः संक्रुद्धः स मन्त्री पापचेतनः ।
प्रसह्य नेतुमारेभे मुनेस्तस्य पयस्विनीम् ॥ २,२८.७५ ॥

इति श्रीब्रह्माण्डे महापुराणे वोयुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादेऽष्टाविंशतितमोऽध्यायः ॥ २८॥