ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
ब्रह्माण्डपुराणम्
अध्यायः १
[[लेखकः :|]]
मध्यभागः, अध्यायः २ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

श्रीगणेशाय नमः
अथ ब्रह्माण्डमहापुराणमध्यभागप्रारम्भः ।
शांशपायन उवाच
पादः शेक्तो द्वितीयस्तु अनुषङ्गेन नस्त्वया ।
तृतीयं विस्तरात्पादं सोपोद्धातं प्रवर्त्तय ॥ २,१.१ ॥

सूत उवाच
कीर्त्तयिष्ये तृतीयं वः सोपोद्धातं सविस्तरम् ।
पादं समुच्चयाद्विप्रा गदतो मे निबोधत ॥ २,१.२ ॥

मनोर्वैवस्वतस्येमं सांप्रतं तु महात्मनः ।
विस्तरेणानुपूर्व्या च निसर्गं शृणुत द्विजाः ॥ २,१.३ ॥

चतुर्युगैकस प्तत्या संख्यातं पूर्वमेव तु ।
मह देवगणैश्चैव ऋषिभिर्दानवैस्सह ॥ २,१.४ ॥

पितृगन्धर्वयक्षैश्च रक्षोभूतमहोरगैः ।
मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह ॥ २,१.५ ॥

मन्वादिकं भविष्यान्तमाख्यानैर्बहुभिर्युतम् ।
वक्ष्ये वैवस्वतं सर्गं नमस्कृत्य विवस्वते ॥ २,१.६ ॥

आद्ये मन्वन्तरेऽतीताः सर्गप्रावर्त्तकास्तु ये ।
स्वायंभुवेंऽतरे पूर्वं सप्तासन्ये महर्षयः ॥ २,१.७ ॥

चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ।
दक्षस्य च ऋषीणां च भृग्वादीनां महौजसाम् ॥ २,१.८ ॥

शापान्महेश्वरस्यासीत्प्रादुर्भावो महात्मनाम् ।
भूयः सप्तर्षयस्त्वेवमुत्पन्नाः सप्त मानसाः ॥ २,१.९ ॥

पुत्रत्वे कल्पिताश्चैव स्वयमेव स्वयंभुवा ।
प्रजासंतानकृद्भिस्तैरुत्पदद्भिर्महात्मभिः ॥ २,१.१० ॥

पुनः प्रवर्त्तितः सर्गो यथापूर्वं यथाक्रमम् ।
तेषां प्रसूतिं वक्ष्यामि विशुद्धज्ञानकर्मणाम् ॥ २,१.११ ॥

समासव्यासयोगाभ्यां यथावदनुपूर्वशः ।
येषामन्वयसंभूतैलरेकोऽयं सचराचरः ।
पुनरापूरितः सर्वो ग्रहनक्षत्रमण्डितः ॥ २,१.१२ ॥

ऋषय ऊचुः
कथं सप्तर्षयः पूर्वमुत्पन्नाः सप्त मनसाः ।
पुत्रत्वे कल्पिताश्चैव तन्नो निगद सत्तम ॥ २,१.१३ ॥

सूत उवाच
पूर्वं सप्तर्षयः प्रोक्ता ये वै स्वायंभुवेंऽतरे ।
मनोरन्तरमासाद्य पुनर्वैवस्वतं किल ॥ २,१.१४ ॥

भवाभिशाप संविद्धा अप्राप्तास्ते तदा तपः ।
उपपन्ना जने लोके सकृदागमनास्तु त ॥ २,१.१५ ॥

ऊचुः सर्वे सदान्योन्यं जनलोके महार्षयः ।
एत एव महाभागा वरुणे विततेऽध्वरे ॥ २,१.१६ ॥

सर्वे वयं प्रसूयामश्चाक्षुषस्यान्तरे मनोः ।
पितामहात्मजाः सर्वे तन्नः श्रेयो भविष्यति ॥ २,१.१७ ॥

एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
स्वायंभुवेन्तरे प्राप्ताः सृष्ट्यर्थं ते भवेन तु ॥ २,१.१८ ॥

जज्ञिरे ह पुनस्ते वै जनलोकादिहागताः ।
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ २,१.१९ ॥

ब्रह्मणो जुह्वतः शुक्रमग्रौ पूर्वं प्रजेप्सया ।
ऋषयो जज्ञिरे दीर्घे द्वितीयमिति नः श्रुतम् ॥ २,१.२० ॥

भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ।
अत्रिश्चैव वसिष्ठश्च ह्यष्टौ ते ब्रह्मणः सुताः ॥ २,१.२१ ॥

तथास्य वितते यज्ञे देवाः सर्वे समागताः ।
यज्ञाङ्गानि च सर्वाणि वषठ्कारश्च मूर्त्तिमान् ॥ २,१.२२ ॥

मूर्त्तिमन्ति च सामानि यजूंषि च सहस्रशः ।
ऋग्वेदश्चाभवत्तत्र यश्च क्रमविभूषितः ॥ २,१.२३ ॥

यजुर्वेदश्च वृत्ताढ्य ओङ्कारवदनोज्ज्वलः ।
स्थितो यज्ञार्थसंपृक्तः सूक्तब्राह्मणमन्त्रवान् ॥ २,१.२४ ॥

सामवेदश्च वृत्ताढ्यः सर्वगेयपुरः सरः ।
विश्वावस्वादिभिः सार्द्धं गन्धर्वैः संभृतोऽभवत् ॥ २,१.२५ ॥

ब्रह्मवेदस्तथा घोरैः कृत्वा विधिभिरन्वितः ।
प्रत्यङ्गिरसयोगैश्च द्विशरीरशिरोऽभवत् ॥ २,१.२६ ॥

लक्षणा विस्तराः स्तोभा निरुक्तस्वर भक्तयः ।
आश्रयस्तु वषट्कारो निग्रहप्रग्रहावपि ॥ २,१.२७ ॥

दीप्तिमूर्त्तिरिलादेवी दिशश्चसदिगीश्वराः ।
देवकन्याश्च पत्न्यश्च तथा मातर एव च ॥ २,१.२८ ॥

आययुः सर्व एवैते देवस्य यजतो मखे ।
मूर्तिमन्तः सुरूपाख्या वरुणस्य वपुर्भृतः ॥ २,१.२९ ॥

स्वयंभु वस्तु ता दृष्ट्वा रेतः समपतद्भुवि ।
ब्रह्मर्षिभाविनोर्ऽथस्य विधानाच्च न संशयः ॥ २,१.३० ॥

धृत्वा जुहाव हस्ताभ्यां स्रुवेण परिगृह्य च ।
आस्रवज्जुहुयां चक्रे मन्त्रवच्च पितामहः ॥ २,१.३१ ॥

ततः स जनयामास भूतग्रामं प्रजापतिः ।
तस्यार्वाक्तेजसश्चैव जज्ञे लोकेषु तैजसम् ॥ २,१.३२ ॥

तमसा भावि याप्यत्वं यथा सत्त्वं तथा रजः ।
आज्यस्थाल्यामुपादाय स्वशुक्रं हुतवांश्च ह ॥ २,१.३३ ॥

शुक्रे हु तेऽथ तस्मिंस्तु प्रादुर्भूता महर्षयः ।
ज्वलन्तो वपुषा युक्ताः सप्रभावैः स्वकैर्गुणैः ॥ २,१.३४ ॥

हुते चाग्नौ सकृच्छुक्रे ज्वालाया निसृतः कविः ।
हिरण्यगर्भस्तं दृष्ट्वा ज्वालां भित्त्वा विनिर्गतम् ॥ २,१.३५ ॥

भृगुस्त्वमिति चोवाच यस्मात्तस्मात्स वै भृगुः ।
महादेवस्तथोद्भूतो दृष्ट्वा ब्रह्माणमब्रवीत् ॥ २,१.३६ ॥

ममैष पुत्रकामस्य दीक्षितस्य त्वया प्रभो ।
विजज्ञे प्रथमं देव मम पुत्रो भवत्वयम् ॥ २,१.३७ ॥

तथेति समनुज्ञातो महादेवः स्वयंभुवा ।
पुत्रत्वे कल्पयामास महादेव स्तदा भृगुम् ॥ २,१.३८ ॥

वारुणा भृगवस्तस्मात्तदपत्यं च स प्रभुः ।
द्वितीयं च ततः शुक्रमङ्गारेष्वजुहोत्प्रभुः ॥ २,१.३९ ॥

अङ्गारेष्वङ्गिरोऽङ्गानि संहतानि ततोङ्गिराः ।
संभूतिं तस्य तां दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत् ॥ २,१.४० ॥

रेतोधास्तुभ्यमेवाहं द्वितीयोऽयं ममास्त्विति ।
एवमस्त्विति सोऽप्युक्तो ब्रह्मणा सदसस्पतिः ॥ २,१.४१ ॥

जग्रा हाग्निस्त्वङ्गिरस आग्नेया इति नः श्रुतम् ।
षट्कृत्वा तु पुनः शुक्रे ब्रह्मणा लोककारिणा ॥ २,१.४२ ॥

हुते समभवंस्तस्मिन्यद्ब्रह्माण इति श्रुतिः ।
मरीचिः प्रथमं तत्र मरीचिभ्यः समुत्थितः ॥ २,१.४३ ॥

क्रतौ तस्मिन्क्रतुर्जज्ञे यतस्तस्मात्स वै क्रतुः ।
अहं तृतीय इत्यत्रिस्तस्मादत्रिः स कीर्त्यते ॥ २,१.४४ ॥

केशैस्तु निचितैर्भूतः पुलस्त्यस्तेन स स्मृतः ।
केशैर्लंबैः समुद्भूतस्तस्मात्स पुलहः स्मृतः ॥ २,१.४५ ॥

वसुमध्यात्समुत्पन्नो वशी च वसुमान् स्वयम् ।
वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते ब्रह्मवादिभिः ॥ २,१.४६ ॥

इत्येते ब्रह्मणः पुत्रा मानसाः षण्महर्षयः ।
लोकस्य सन्तानकरा यैरिमा वर्द्धिताः प्रजाः ॥ २,१.४७ ॥

प्रजापतय इत्येवं पठ्यन्ते ब्रह्मणःसुताः ।
अपरे पितरो नाम एतैरेव महर्षिभिः ॥ २,१.४८ ॥

उत्पादिता देवगणाः सप्त लोकेषु विश्रुताः ।
अजेयाश्च गणाः सप्त सप्तलोकेषु विश्रुताः ॥ २,१.४९ ॥

मारीया भार्गवाश्चैव तथैवाङ्गिरसोऽपरे ।
पौलस्त्याः पौलहाश्चैव वासिष्ठाश्चैव विश्रुताः ॥ २,१.५० ॥

आत्रेयाश्च गणाः प्रोक्ता पितॄणां लोकवर्द्धनाः ।
एते समासतः ख्याताः पुनरन्ये गणास्त्रयः ॥ २,१.५१ ॥

अमर्त्ताश्चाप्रकाशाश्च ज्योतिष्मन्तश्च विश्रुताः ।
तेषां राजायमो देवो यमैर्विहतकल्मषः ॥ २,१.५२ ॥

अपरं प्रजानां यतयस्ताञ्छृमुध्वमतन्द्रिताः ।
कश्यपः कर्दमः शेषो विक्रान्तः सुश्रवास्तथा ॥ २,१.५३ ॥

बहुपुत्रः कुमारश्च विवस्वान्स शुचिव्रतः ।
प्रचेतसोरिष्टनेमिर्बहुलश्च प्रजापतिः ॥ २,१.५४ ॥

इत्येवमादयोऽन्येऽपि बहवो वै प्रजेश्वराः ।
कुशोच्चया वालखिल्याः सभूताः परमर्षयः ॥ २,१.५५ ॥

मनोजवाः सर्वगताः सर्वभोगाश्च तेऽभवन् ।
जाताश्च भस्मनो ह्यन्ये ब्रह्मर्षिगणसंमताः ॥ २,१.५६ ॥

वैखानसा मुनिगणास्तपः श्रुतपरायणाः ।
नस्तो द्वावस्य चोत्पन्नावश्विनौ रूपसंमतौ ॥ २,१.५७ ॥

विदुर्जन्मर्क्षरजसो तथा तन्नेत्रसंचरात् ।
अन्ये प्रजानां पतयः श्रोतोभ्यस्तस्य जज्ञिरे ॥ २,१.५८ ॥

ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवाः ।
अयने ऋतवो मासर्द्धमासाः पक्षसंधयः ॥ २,१.५९ ॥

वत्सरा ये त्वहोरात्राः पित्तं ज्योतिश्च दारुणम् ।
रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम् ॥ २,१.६० ॥

तत्तैजसमिति प्रोक्तं धूमाश्च पशवः स्मृताः ।
येऽर्चिषस्तस्य ते रुद्रास्तथादित्याः समृद्गताः ॥ २,१.६१ ॥

अङ्गारेभ्यः समुत्पन्ना अर्चिषो दिव्यमानुषाः ।
आदिभूतोऽस्य लोकस्य ब्रह्मा त्वं ब्रह्मसंभवः ॥ २,१.६२ ॥

सर्वकामदमित्याहुस्तथा वाक्यमुदाहरन् ।
ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसादितः ॥ २,१.६३ ॥

इमेवै जनयिष्यन्ति प्रजाः सर्वाः प्रचेश्वराः ।
सर्वे प्रजानां पतयः सर्वे चापि तपस्विनः ॥ २,१.६४ ॥

त्वत्प्रसादादिमांल्लोकान्धारयेयुरिमाः क्रियाः ।
त्वद्वंशवर्द्धनाः शश्वत्तव तेजोविवर्द्धनाः ॥ २,१.६५ ॥

भवेयुर्वेदविद्वांसः सर्वे वाक्पतयस्तथा ।
वेदमन्त्रधराः सर्वे प्रजापतिसमुद्भवाः ॥ २,१.६६ ॥

श्रयन्तु ब्रह्मसत्यं तु तपश्च परमं भुवि ।
सर्वे हि वयमेते च तवैव प्रसवः प्रभो ॥ २,१.६७ ॥

ब्रह्म च ब्रह्माणाश्चैव लोकश्चैव चराचराः ।
मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह ॥ २,१.६८ ॥

अपत्यानीति संचिन्त्य तेऽपत्ये कामयामहे ।
तस्मिन् यज्ञे महाभागा देवाश्च ऋषयश्च ये ॥ २,१.६९ ॥

एते त्वद्वंशसंभूताः स्थानकालाभिमानिनः ।
तव तेनैव रूपेण स्थापयेयुरिमाः प्रजाः ॥ २,१.७० ॥

युगादिनिधनाश्चापि स्थापयन्तु इति द्विजाः ।
ततोऽब्रवील्लोकगुरुः परमित्यभिधार यन् ॥ २,१.७१ ॥

एतदेव विनिश्चित्य मया सृष्टा न संशयः ।
भवतां वंशसंभूताः पुनरेते महर्षयः ॥ २,१.७२ ॥

तेषां भृगोः कीर्त्तयिष्ये वंशं पूर्वं महात्मनः ।
विस्तरेणानुपूर्व्या च प्रथमस्य प्रजापतेः ॥ २,१.७३ ॥

भार्ये भृगोरप्रतिमे उत्तमाभिजने शुभे ।
हिरण्यकशिपो कन्या दिव्या नाम परिश्रुता ॥ २,१.७४ ॥

पुलोम्नश्चव पौलोमी दुहिता वरवर्णिनी ।
भृगोस्त्वजनयद्दिव्या पुत्रं ब्रह्मविदां वरम् ॥ २,१.७५ ॥

देवासुराणामाचार्यं शुक्रं कविवरं ग्रहम् ।
शुक्र एवोशना नित्यमतः काव्योऽपि नामतः ॥ २,१.७६ ॥

पितॄणां मानसी कन्या सोमपानां यशस्विनी ।
शुक्रस्य भार्या गौर्नाम विजज्ञे चतुरः सुतान् ॥ २,१.७७ ॥

त्वष्टा चैव वरत्री च शण्डामकारै च तावुभौ ।
तेजसादित्यसंकाशा ब्रह्मकल्पाः प्रभावतः ॥ २,१.७८ ॥

रजतः पृथुरश्मिश्च विद्वान्यश्च बृहङ्गिराः ।
वरत्रिणः सुता ह्येते ब्रह्मिष्ठा दैत्ययाजकाः ॥ २,१.७९ ॥

इज्याधर्मविनाशार्थं मनुमेत्याभ्ययाजयन् ।
निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमाब्रवीत् ॥ २,१.८० ॥

एतैरेव तु कामं त्वां प्रापयिष्यामि याजनम् ।
श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद्देशादपाक्रमन् ॥ २,१.८१ ॥

तिरोभूतेषु तेष्विन्द्रो मनुपत्नीमचेतनाम् ।
ग्रहेण मोचयित्वा च ततश्चानुससार ताम् ॥ २,१.८२ ॥

तत इन्द्रविनाशाय यतमानान्मुनींस्तु तान् ।
तानागतान्पुनर्दृष्ट्वा दुष्टानिन्द्रो विहस्य तु ॥ २,१.८३ ॥

ततस्ता नदहत्क्रुद्धो वेद्यर्द्धे दक्षिणे ततः ।
तेषां तु धृष्यमाणानां तत्र शालावृकैः सह ॥ २,१.८४ ॥

शीर्षाणि न्यपतंस्तानि खर्जूरा ह्यभवंस्ततः ।
एवं वरत्रिणः पुत्रा इन्द्रेण निहताः पुरा ॥ २,१.८५ ॥

जयन्त्यां देवयानी तु शुक्रस्य दुहिताभवत् ।
त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रोऽभवन्महान् ॥ २,१.८६ ॥

यशोधरायामुत्पन्नो वैरोचन्यां महायशाः ।
विश्वरूपानुजश्चैव विश्वकर्मा च यः स्मृतः ॥ २,१.८७ ॥

भृगोस्तु भृगवो देवा जज्ञिरे द्वादशात्मजाः ।
दिव्यानुसुषुवे कन्या काव्यस्यैवानुजा प्रभोः ॥ २,१.८८ ॥

भुवनोभावनश्चैव अन्त्यश्चान्त्यायनस्तथा ।
क्रतुः शुचिः स्वमूर्द्धा च व्याजश्च वसुदश्च यः ॥ २,१.८९ ॥

प्रभवश्चाव्ययश्चैव द्वादशोऽधिपतिः स्मृतः ।
इत्येते भृगवो देवाः स्मृता द्वादश यज्ञियाः ॥ २,१.९० ॥

पौलोम्यजनयत्पुत्रं ब्रह्मिष्ठं वशिनं द्विजम् ।
व्यादितः सोऽष्टमे मासिगर्भः क्रूरेण रक्षसा ॥ २,१.९१ ॥

च्यवनाच्च्यवनः सोऽथ चेतनात्तु प्रचेतनः ।
प्रचेताः श्च्यवनः क्रोधाद्दग्धवान्पुरुषादकान् ॥ २,१.९२ ॥

जनयामास पुत्रौ द्वौ सुकन्यायां सभार्गवः ।
आप्रवानं दधीचं च तावुभौ साधुसंमतौ ॥ २,१.९३ ॥

सारस्वतः सरस्वत्यां दधीचस्योदपद्यत ।
ऋची पत्नी महाभागा अप्रवानस्य नाहुषी ॥ २,१.९४ ॥

तस्यामौर्व ऋषिर्जज्ञे ऊरुं भित्तवा महायशाः ।
और्वस्यासीदृचीकस्तु दीप्तोऽग्निसमतेजसा ॥ २,१.९५ ॥

जमदग्निरृचीकस्य सत्यवत्यामजायत ।
भृगोश्चरुविपर्यासे रौद्रवैष्णवयौः पुरा ॥ २,१.९६ ॥

जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ।
रेणुकाजमदग्नेश्च शक्रतुल्यपराक्रमम् ॥ २,१.९७ ॥

ब्रह्मक्षत्रमयं रामं सुषुवेऽमिततेजसम् ।
ओर्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् ॥ २,१.९८ ॥

तेषां पुत्र सहस्राणि भार्गवाणां परस्परात् ।
ऋष्यतरेषु वै बाह्या बहवो भार्गवाः स्मृताः ॥ २,१.९९ ॥

वत्सा विदा आर्ष्टिषेणा यस्का वैन्याश्च शौनकाः ।
मित्रेयुः सप्तमा ह्येते पक्षा ज्ञेयास्तु भार्गवाः ॥ २,१.१०० ॥

शृणुताङ्गिरसो वंशमग्नेः पुत्रस्य धीमतः ।
यस्यान्ववाये संभूता भारद्वाजाः सगौतमाः ॥ २,१.१०१ ॥

देवाश्चाङ्गिरसो मुख्यास्त्त्विषिमन्तो महौजसः ।
सुरूपा चैव मारीची कार्दमी च तथा स्वराट् ॥ २,१.१०२ ॥

पथ्या च मानवी कन्या तिस्रो भार्या ह्यथर्वणः ।
अथर्वणस्तु दायादास्तासु जाताः कुलोद्वहाः ॥ २,१.१०३ ॥

उत्पन्ना महता चैव तपसा भावितात्मनः ।
बृहस्पतिं सुरूपायां गौतमं सुषुवे स्वराट् ॥ २,१.१०४ ॥

अयास्यं वामदेवं च उतथ्यमुशितिं तथा ।
धृष्णिः पुत्रस्तु पथ्यायाः संवर्त्तश्चैव मानसः ॥ २,१.१०५ ॥

कितवश्चाप्ययास्यस्य शरद्वांश्चप्युतथ्यजः ।
अथोशिजो दीर्घतमा बृहदुक्थो वामदेवजः ॥ २,१.१०६ ॥

धृष्णेः पुत्रः सुधन्वा तु ऋषभश्च सुधन्वनः ।
रथकाराः स्मृता देवा ऋभवो ये परिश्रुताः ॥ २,१.१०७ ॥

बृहस्पतेर्भरद्वाजो विश्रुतः सुमहायशाः ।
बृहस्पतिं सुरूपायां गौतमं सुषुवे स्वराट् ॥ २,१.१०८ ॥

औरसांगिरसः पुत्राः सुरूपायां विजज्ञिरे ।
आधार्यायुर्द्दनुर्दक्षो दमः प्राणस्त थैव च ॥ २,१.१०९ ॥

हविष्यांश्च हविष्णुश्च ऋतः सत्यश्च ते दश ।
अयास्याश्चप्युतथ्याश्च वामदेवास्तथौशिजाः ॥ २,१.११० ॥

भारद्वाजाः सांकृतयो गर्गाः कण्वरथीतराः ।
मुद्गला विष्णुवृद्धाश्च हरिताः कपयस्तथा ॥ २,१.१११ ॥

तथा रूक्षभरद्वाजा आर्षभाः कितवस्तथा ।
एते चाङ्गिरसां पक्षा विज्ञेया दश पञ्च च ॥ २,१.११२ ॥

ऋष्यन्तरेषु वै बाह्या बहवोङ्गिरसः स्मृताः ।
मरीचेरपि वक्ष्यामि भेद मुत्तमपूरुषम् ॥ २,१.११३ ॥

यस्यान्ववाये संभूतं जगत्स्थावरजङ्गमम् ।
मरीचिरापश्चकमे नाभिध्यायन्प्रजेप्सया ॥ २,१.११४ ॥

पुत्रः सर्वगुणोपेतः प्रजावान्प्रभवेदिति ।
संयुज्यात्मानमेवन्तु तपसा भावितः प्रभुः ॥ २,१.११५ ॥

आहताश्च ततः सर्वा आपः समभवंस्तदा ।
तासु प्रणिहितात्मानमेकं सोऽजनयत्प्रभुः ॥ २,१.११६ ॥

पुत्रमप्रतिमं नाम्नारिष्टनेमिं प्रजापतिम् ।
पुत्रं मरीचिस्तपसि निरतः सोऽप्स्वतीतपत् ॥ २,१.११७ ॥

प्रध्याय हि सतीं वाचं पुत्रार्थी सरिरे स्थितः ।
सप्तवर्षसहस्राणि ततः सोऽप्रतिमोऽभवत् ॥ २,१.११८ ॥

कश्यपः सवितुर्विद्वांस्तेजसा ब्रह्मणा समः ।
मन्वन्तरेषु सर्वेषु ब्रह्मणोंऽशेन जायते ॥ २,१.११९ ॥

कन्यानिमित्तमत्युक्तो दक्षेण कुपितः प्रभुः ।
अपिबत्स तदा कश्यं कश्यं मद्यमिहोच्यते ॥ २,१.१२० ॥

हास्ये कशिर्हि विज्ञेयो वाङ्मनः कश्यमुच्यते ।
कश्यं मद्यं स्मृतं विप्रैः कश्यपानां तु कश्यपः ॥ २,१.१२१ ॥

कशेति नाम यद्वाचो वाचा क्रूरमुदात्दृतम् ।
दक्षाभिशप्तः कुपितः कश्यपस्तेन सोऽभवत् ॥ २,१.१२२ ॥

तस्माच्च कश्यपायोक्तो ब्रह्मणा परमेष्ठिना ।
तस्मै प्राचेतसो दक्षः कन्यास्ताः प्रत्यपादयत् ॥ २,१.१२३ ॥

सर्वाश्च ब्रह्मवादिन्यः सर्वा वै लोकमातरः ।
इत्येतमृषिसर्गं तु पुण्यं यो वेद वारुणम् ॥ २,१.१२४ ॥

आयुष्मान्पुण्यवाञ्छुद्धः सुखमाप्नोति शाश्वतम् ।
धारणाच्छ्रवणाद्वापि सर्वपापैः प्रमुच्यते ॥ २,१.१२५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे ऋषिसर्गवर्णनं नाम प्रथमोऽध्यायः