ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६३

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ६२ ब्रह्माण्डपुराणम्
अध्यायः ६३
[[लेखकः :|]]
मध्यभागः, अध्यायः ६४ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


सूत उवाच
कुकुद्मिननस्तु तं लोकं रैवतस्य गतस्य ह ।
त्दृता पुण्यजनैः सर्वा राक्षसैः साकुशस्थली ॥ २,६३.१ ॥

तद्वै भ्रातृशतं तस्य धार्मिकस्य महात्मनः ।
निबध्यमानं नाराचैर्विदिशः प्राद्रवद्भयात् ॥ २,६३.२ ॥

तेषां तु तद्भयक्रान्तक्षत्रियाणां च विद्रुताम् ।
अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः ॥ २,६३.३ ॥

शार्याता इति विख्याता दिक्षु सर्वासु धर्मिकाः ।
धृष्टस्य धर्ष्टिकं सर्वं रणधृष्टं बभूव ह ॥ २,६३.४ ॥

त्रिसाहस्रं तु स गणः क्षत्रियाणां महात्मनाम् ।
नभगस्य च दायादो नाभादो नाम वीर्यवान् ॥ २,६३.५ ॥

अंबरीषस्तु नाभागिर्विरूपस्तस्य चात्मजः ।
पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ॥ २,६३.६ ॥

एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसः स्मृताः ।
रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः ॥ २,६३.७ ॥

क्षुवतस्तु मनोः पूर्वमिक्ष्वाकुरभिनिःसृतः ।
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिमम् ॥ २,६३.८ ॥

तेषां श्रेष्ठो विकुक्षिस्तु निमिर्दण्डश्च ते त्रयः ।
शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशतस्तु ते ॥ २,६३.९ ॥

उत्तरापथदेशस्य रक्षितारो महीक्षितः ।
चत्वारिंशत्तथाष्टौ च दक्षिणस्यां तु वै दिशि ॥ २,६३.१० ॥

विराटप्रमुखास्ते च दक्षिणापथरक्षिणः ।
इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथा दिशत् ॥ २,६३.११ ॥

राजोवाच ।
मांसमानय श्राद्धे त्वं मृगान्हत्वा महाबल ।
श्राद्धं मम तु कर्त्तव्यमष्टकानां न संशयः ॥ २,६३.१२ ॥

स गतो मृगयां चैव वचनात्तस्य धीमतः ।
मृगान्सहस्रकान्हत्वा परिश्रान्तश्च वीर्यवान् ॥ २,६३.१३ ॥

भक्षयच्छशकं तत्र विकुक्षिर्मृगयां गतः ।
आगते हि विकुक्षै तु समांसे महसैनिके ॥ २,६३.१४ ॥

वसिष्ठं चोदयामास मांस प्रोक्षयतामिति ।
तथेति चोदितो राज्ञा विधिवत्तदुपस्थितम् ॥ २,६३.१५ ॥

स दृष्ट्वोपहतं मांसं क्रुद्धो राजानमब्रवीत् ।
अनेनोपहतं मांसं पुत्रेण तव पार्थिव ॥ २,६३.१६ ॥

शशभक्षाददुष्टं वै नैव मांसं महाद्युते ।
शशो दुरात्मना पूर्वममना भक्षितोऽनघ ॥ २,६३.१७ ॥

तेन मांसमिदं दुष्टं पितॄणां नृपसत्तम ।
इक्ष्वाकुस्तु ततः क्रुद्धो विकुक्षिमिदमब्रवीत् ॥ २,६३.१८ ॥

पितृकर्मणि निर्दिष्टो मया च मृगयां गतः ।
शशं भक्षयसेऽरण्ये निर्घृणः पूर्वमद्य तु ॥ २,६३.१९ ॥

तस्मात्परित्यजामि त्वां गच्छ त्वं स्वेन कर्मणा ।
एवमिक्ष्वाकुणा त्यक्तो वसिष्ठवचनात्सुतः ॥ २,६३.२० ॥

इक्ष्वाकौसंस्थिते तस्मिञ्छशादः पृथिवीमिमाम् ।
प्राप्तः परगधर्मात्मा स चायोध्याधिपोऽभवत् ॥ २,६३.२१ ॥

तदाकरोत्स राज्यं वै वसिष्ठपरिनोदितः ।
ततस्तेनैनसा पूर्णो राज्यावस्थो महीपतिः ॥ २,६३.२२ ॥

कालेन गतवान्सोऽथ शकृन्मूत्रतरङ्गितम् ।
ज्ञात्वैवमेतदाख्यानं ना विधिर्भक्षयेद्बुधः ॥ २,६३.२३ ॥

मांसभक्षयितामुत्र यस्य मांसमिहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ २,६३.२४ ॥

शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ।
इन्द्रस्य वृषभूतस्य ककुत्स्थो जयते पुरा ॥ २,६३.२५ ॥

पूर्वमाडीबके युद्धे ककुत्स्थस्तेन संस्मृतः ।
अनेनास्तु ककुत्स्थस्य पृथुश्चानेन स स्मृतः ॥ २,६३.२६ ॥

दृषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्यवान् ।
अन्ध्रात्तु युवनाश्वस्तु शावस्तस्तस्य चात्मजः ॥ २,६३.२७ ॥

जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ २,६३.२८ ॥

बृहदश्वसुतश्चापि कुवलाश्व इति श्रुतः ।
यस्तु धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥ २,६३.२९ ॥

ऋषय ऊचुः
धुन्धोर्वधं महाप्राज्ञ घोतुमिच्छाम विस्तरात् ।
यदर्थं कुवलाश्वस्य धुन्धुमारत्वमागतम् ॥ २,६३.३० ॥

सूत उवाच
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः ।
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ २,६३.३१ ॥

बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः ।
कुवलाश्वं महावीर्यं शूरमुत्तमधार्मिकम् ॥ २,६३.३२ ॥

बृहदश्वो ह्यभ्यषिञ्चत्तस्मिन्राज्ये नराधिपः ।
पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ॥ २,६३.३३ ॥

बृहदश्वं महाराजं शूरमुत्तमधार्मिकम् ।
प्रयास्यन्तमुतङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत् ॥ २,६३.३४ ॥

उत्तङ्क उवाच
भवता रक्षणं कार्यं तत्तावत्कर्त्तुमर्हति ।
निरुद्विग्नस्तपस्छर्तुं न हि शक्रोऽपि पार्थिव ॥ २,६३.३५ ॥

ममाश्रमसमीपेषु मेरोर्हि परितस्तु वै ।
समुद्रो वालुकापूर्णस्तत्र तिष्ठति भूपते ॥ २,६३.३६ ॥

देवतानामवध्यस्तु महाकायो महाबलः ।
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ २,६३.३७ ॥

राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः ।
शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ २,६३.३८ ॥

संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति ।
यदा तदा मही तत्र चलति स्म सकानना ॥ २,६३.३९ ॥

तस्य निश्वासवातेन रज उद्धूयते महत् ।
आदित्यपथमावृत्य सप्ताहं भूमिकंपनम् ॥ २,६३.४० ॥

सविस्फुलिङ्गं सज्वारं सधूममतिदारुणम् ।
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे ॥ २,६३.४१ ॥

तं वारय महाबाहो लोकानां हितकाम्यया ।
तेजस्ते सुमहद्विष्मुस्तेजसाप्याययिष्यति ॥ २,६३.४२ ॥

लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहते सुरे ।
त्वं हि तस्य वधार्थाय समर्थः पृथिवीपते ॥ २,६३.४३ ॥

विष्णुना च वरो दत्तो मम पूर्व यतोऽनघ ।
न हि धुन्धुर्महावीर्यस्तेजसाल्पेन शाक्यते ॥ २,६३.४४ ॥

निर्दग्धुं पृथिवीपालैरपि वर्षशतैरपि ।
वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम् ॥ २,६३.४५ ॥

एवमुक्तस्तु राजर्षिरुत्तङ्केन महात्मना ।
कुवलाश्वं तु तं प्रादात्तस्मिन् धुन्धुनिवारणे ॥ २,६३.४६ ॥

भगवन्न्यस्तशस्भोऽहमयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ २,६३.४७ ॥

स तमादिश्य तनयं धुन्धुमाग्णमच्युतम् ।
जगाम स वनायैव तपसे शंसितव्रतः ॥ २,६३.४८ ॥

कुवलाश्वस्तु धर्मात्मा पितुर्वचनमाश्रितः ।
सहक्रैरेकविंशत्या पुत्राणां सह पार्थिवः ॥ २,६३.४९ ॥

प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवारणे ।
तमाविशत्ततो विष्णुर्भगवान्स्वेन तेजसा ॥ २,६३.५० ॥

उत्तङ्कस्य नियोगात्तु लोकानां हितकाम्यया ।
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ॥ २,६३.५१ ॥

अद्य प्रभृत्येष नृपो धुन्धुमारो भविष्यति ।
दिव्यैः पुष्पैश्च तं देवाः संमतात्समवाकिरन् ॥ २,६३.५२ ॥

देवदुन्दुभयश्चैव प्रणेदुर्हि तदा भृशम् ।
स गत्वा पुरुषव्याघ्रस्तनयैः सह वीर्यवान् ॥ २,६३.५३ ॥

समुद्रं खानयामास वालुकापूर्णमव्ययम् ।
तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा ॥ २,६३.५४ ॥

धुन्धुरासादितस्तत्र दिशमाश्रित्य पश्चिमाम् ।
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ॥ २,६३.५५ ॥

वारि सुस्राव चोगेन महोदधिरिवोदये ।
सोमस्य सोऽसुरश्रेष्ठो धारोर्मिकलिलो महान् ॥ २,६३.५६ ॥

तस्य पुत्रास्तु निर्दग्धास्त्रय उर्वरिता मृधे ।
ततः स राजातिबलो राक्षसं तं महाबलम् ॥ २,६३.५७ ॥

आससाद महातेजा धुन्धुं बन्धुनिबर्हणम् ।
तस्य वारिमयं वेगमपि वत्स नराधिपः ॥ २,६३.५८ ॥

योगी योगेन वह्निं च शमयामास वारिणा ।
निरस्यन्तं महाकायं बलेनोदकराक्षसम् ॥ २,६३.५९ ॥

उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ।
उत्तङ्कश्च वरं प्रादात्तस्मै राज्ञे महात्मने ॥ २,६३.६० ॥

ददतश्चाक्षयं वित्तं शत्रुभिश्चाप्य धुष्यताम् ।
धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् ॥ २,६३.६१ ॥

पुत्राणां चाक्षयांल्लोकान्स्वर्गे ये रक्षसा हताः ।
तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ॥ २,६३.६२ ॥

भद्राश्वः कपिलाश्वश्च कनीयांसौ तु तौ स्मृतौ ।
धैन्धुमारिर्दृढाश्वश्च हर्यश्वस्तस्य चात्मजः ॥ २,६३.६३ ॥

हर्यश्वस्य निकुंभोऽभूत्क्षात्रधर्मरतः सदा ।
संहताश्वो निकुंभस्य सुतो रणविशारदः ॥ २,६३.६४ ॥

कृशाश्वश्चाकृताश्वश्च संहताश्वसुतावुभौ ।
तस्य पत्नी हैमवती सती माता दृषद्वती ॥ २,६३.६५ ॥

विख्याता त्रिषु लोकेषु पुत्रश्चास्य प्रसेनजित् ।
युवनाश्वसुतस्तस्य त्रिषु लोकेषु विश्रुतः ॥ २,६३.६६ ॥

अत्यन्तधार्मिका गौरी तस्य पत्नी पतिव्रता ।
अभिशस्ता तु सा भर्त्रा नदी सा बाहुदा कृता ॥ २,६३.६७ ॥

तस्यास्तु गौरिकः पुत्रश्चक्रवर्ती बभूव ह ।
मान्धाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः ॥ २,६३.६८ ॥

अत्राप्युदाहरन्तीमं श्लोकं पौराणिका द्विजाः ।
यावत्सूर्य उदयते यावच्च प्रतितिष्ठति ॥ २,६३.६९ ॥

सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ।
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् ॥ २,६३.७० ॥

साध्वी बिन्दुमती नाम रूपेणाप्रतिमा भुवि ।
पतिव्रता च ज्येष्ठा च भातॄणामयुतस्य सा ॥ २,६३.७१ ॥

तस्यामुत्पादयामास मान्धाता त्रीन्सुतन्प्रभुः ।
पुरुकुत्समंबरीषं मुचुकुन्दं च विश्रुतम् ॥ २,६३.७२ ॥

अंबरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ।
नर्मदायां समुत्पन्नः संभूतस्तस्य चात्मजः ॥ २,६३.७३ ॥

संभूतस्यात्मजः पुत्रो ङ्यनरण्यः प्रतापवान् ।
रावणेन हतो येन त्रैलोक्यं विजितं पुरा ॥ २,६३.७४ ॥

तेन दृश्योनरण्यस्य हर्यश्वस्तस्य चात्मजः ।
हर्यश्वात्तु दृषद्वत्यां जज्ञे च सुमतिर्नृपः ॥ २,६३.७५ ॥

तस्य पुत्रोऽभवद्राजा त्रिधन्वा नाम धार्मिकः ।
आसीत्त्रिधन्वनश्चापि विद्वांस्त्रय्यारुणिः प्रभुः ॥ २,६३.७६ ॥

तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ।
तेन भार्या विदर्भस्य त्दृता हत्वा दिवौकसः ॥ २,६३.७७ ॥

पाणिग्रहणमन्त्रेषु निष्टानं प्रापितेष्विह ।
कामाद्बलाच्च मोहाच्च संहर्षेण बलेन च ॥ २,६३.७८ ॥

भाविनोर्ऽथस्य च बलात्तत्कृतं तेन धीमता ।
तमधर्मेण संयुक्तं पिता भय्यारुणोऽत्यजत् ॥ २,६३.७९ ॥

अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः ।
पितरं सोऽब्रवीदेकः क्व गच्छामीति वै मुहुः ॥ २,६३.८० ॥

पिता चैनमथोवाच श्वपाकैः सह वर्त्तय ।
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ॥ २,६३.८१ ॥

इत्युक्तः स निराक्रामन्नगराद्वचना द्विभोः ।
न चैनं वारयामास वसिष्ठो भगवानृषिः ॥ २,६३.८२ ॥

स तु सत्यव्रतो धीमाञ्श्वपाकावसथान्तिके ।
पित्रा त्यक्तोऽवसद्धीरः पिता चास्य वनं ययौ ॥ २,६३.८३ ॥

तस्मिंस्तु विषये तस्य नावर्षत्पाकशासनः ।
समा द्वादश संपूर्मास्तेनाधर्मेण वै तदा ॥ २,६३.८४ ॥

दारांस्तु तस्य विषये विश्वामित्रो महातपाः ।
संन्यस्य सागरानूपे चचार विपुलं तपः ॥ २,६३.८५ ॥

तस्य पत्नी गले बद्ध्वा मध्यमंपुत्रमौरसम् ।
शिष्टानां भरणार्थाय व्यक्रीणाद्गोशतेन वै ॥ २,६३.८६ ॥

तं तु बद्धं गले दृष्टवा विक्रयार्थं नरोत्तमः ।
महर्षिपुत्रं धर्मात्मा मोक्षयामास सुव्रतः ॥ २,६३.८७ ॥

सत्यव्रतो महाबुद्धिर्भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थमनुकंपार्थमेव च ॥ २,६३.८८ ॥

सोऽभवद्गालवो नाम गले बद्धो महातपाः ।
महर्षिः कौशिकस्तात तेन वीरेण मोक्षितः ॥ २,६३.८९ ॥

तस्य व्रतेन भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं च बभार विनये स्थितः ॥ २,६३.९० ॥

हत्वा मृगान्वराहांश्च महिषांश्च जलेचरान् ।
विश्वामित्राश्रमाभ्यासे तन्मांसमनयत्ततः ॥ २,६३.९१ ॥

उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् ।
पितुर्नियोगादभजन्नृपे तु वनमास्थिते ॥ २,६३.९२ ॥

अयोध्यां चैव राष्ट्रं च तथैवान्तः पुरं पुनिः ।
याज्योत्थान्यायसंयोगाद्वसिष्ठः पर्यरक्षत ॥ २,६३.९३ ॥

सत्यव्रतः सुबाल्यात्तु भाविनोर्ऽथस्य वै बलात् ।
वसिष्ठेऽभ्यधिकं मन्युं धारयामास मन्युना ॥ २,६३.९४ ॥

पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् ।
न वारयामास मुनिर्वसिष्ठः कारणेन वै ॥ २,६३.९५ ॥

पाणिग्रहममन्त्राणां निष्ठा स्यात्सप्तमे पदे ।
एवं सत्यव्रतस्तां वै हृतवान्सप्तमे पदे ॥ २,६३.९६ ॥

जानन्धर्मान्वसिष्ठस्तु नवमन्त्रानिहेच्छति ।
इति सत्यव्रतो रोषं वसिष्ठे मनसाकरोत् ॥ २,६३.९७ ॥

गुणबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तपः ।
न तु सत्यव्रतोऽबुध्यदुपांशुव्रतमस्य वै ॥ २,६३.९८ ॥

तस्मिंस्तु परमो रोषः पितुरासीन्महात्मनः ।
तेन द्वादश वर्षाणि नावर्षत्पाकशासनः ॥ २,६३.९९ ॥

तेन त्विदानीं वहता दीक्षां तां दुर्वहां भुवि ।
कुलस्य निष्कृतिः स्वस्य सृतेयं च भवेदिति ॥ २,६३.१०० ॥

ततो वसिष्ठो भगवान्पित्रा त्यक्तं न वारयत् ।
अभिषेक्ष्याम्यहं नष्टे पश्चादेनमिति प्रभुः ॥ २,६३.१०१ ॥

स तु द्वादशवर्षाणि दीक्षां तामुद्वहन्बली ।
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ २,६३.१०२ ॥

सर्वकामदुघां धेनुं स ददर्श नृपात्मजः ।
तां वै क्रोधाच्च मोहाच्च श्रमच्चैव क्षुधान्वितः ॥ २,६३.१०३ ॥

दस्युधर्मगतो दृष्ट्वा जघान बलिनां वरः ।
सतु मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ २,६३.१०४ ॥

भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदात्यजत् ।
प्रोवाच चैव भगवान्वसिष्ठस्तं नृपात्मजम् ॥ २,६३.१०५ ॥

पातयेयमहं क्रूर तव शङ्कुम पोह्य वै ।
यदि ते त्रीणि शङ्कूनि न स्युर्हि पुरुषाधम ॥ २,६३.१०६ ॥

पितुश्चापारितोषेण गुरोर्देगध्रीवधेन च ।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ २,६३.१०७ ॥

एवं स त्रीणि शङ्कूनि दृष्ट्वा तस्य महातपाः ।
त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥ २,६३.१०८ ॥

विश्वामित्रस्तु दाराणामागतो भरणे कृते ।
ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे ॥ २,६३.१०९ ॥

छन्द्यमानो वरेणाथ गुरुं वव्रेनृपात्मजः ।
सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥ २,६३.११० ॥

अनावृष्टिभये तस्मिञ्जाते द्वादशवार्षिके ।
अभिषिच्य राज्ये पित्र्ये योजयामास तं मुनिः ॥ २,६३.१११ ॥

मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
सशरीरं तदा तं वै दिवमारोपयत्प्रभुः ॥ २,६३.११२ ॥

मिषतस्तु वसिष्ठस्य तदद्भुतमिवाभवत् ।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ॥ २,६३.११३ ॥

विश्वामित्रप्रसादेन त्रिशङ्कुर्दिविराजते ।
देवैः सार्द्धं महातेजानुग्रहात्तस्य धीमतः ॥ २,६३.११४ ॥

तस्य सत्यरता नाम भार्या कैकयवंशजा ।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ २,६३.११५ ॥

स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः ।
अहर्ता राजसूयस्य सम्रडिति परिश्रुतः ॥ २,६३.११६ ॥

हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्यवान् ।
हरितो रोहितस्याथ चञ्चुर्हरीत उच्यते ॥ २,६३.११७ ॥

विनयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः ।
चैता सर्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ॥ २,६३.११८ ॥

रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः ।
रुरुकात्तु वृकः पुत्रस्तस्माद्बाहुर्विजज्ञिवान् ॥ २,६३.११९ ॥

हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः ।
शकैर्यवनकांबोजैः पारदैः पह्लवैस्तथा ॥ २,६३.१२० ॥

नात्यर्थं धार्मिकोऽभूत्स धर्म्ये सति युगे तथा ।
सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै ॥ २,६३.१२१ ॥

भृगोराश्रममासाद्य ह्यौर्वैण परिरक्षितः ।
अग्नेयमस्त्रं लब्ध्वा तु भार्गवात्सगरो नृपः ॥ २,६३.१२२ ॥

जघान पृथिवीं गत्वा तालजङ्घान्सहैहयान् ।
शकानां पह्लवानां च धर्मं निरसदच्युतः ॥ २,६३.१२३ ॥

क्षत्रियाणां तथा तेषां पारदानां च धर्मवित् ।
ऋषय ऊचुः
कथं स सगरो राजा गरेण सह जज्ञिवान् ॥ २,६३.१२४ ॥

किमर्थं वा शकादीनां क्षत्रियाणां महौजसाम् ।
धर्मान्कुलोचितान्क्रुद्धो राजा निरसदच्युतः ॥ २,६३.१२५ ॥

सुत उवाच
बाहोर्व्यसनिनस्तस्य त्दृतं राज्यं पुरा किल ।
हैहयैस्तालजङ्घैश्च शकैः सार्द्धं समागतैः ॥ २,६३.१२६ ॥

यवनाः पारदाश्चैव कांबोजाः पह्लवास्तथा ।
हैहयार्थं पराक्रान्ता एते पञ्च गणास्तदा ॥ २,६३.१२७ ॥

त्दृतराज्यस्तदाबाहुः संन्यस्य स तदा गृहम् ।
वनं प्रविश्य धर्मात्मा सह पत्न्या तपोऽचरत् ॥ २,६३.१२८ ॥

कदाचिदप्यकल्पः स तोयार्थं प्रस्थितो नृपः ।
वृद्धत्वाद्दुर्बलत्वाच्च ह्यन्तरा स ममार च ॥ २,६३.१२९ ॥

पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽप्यगात् ।
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ॥ २,६३.१३० ॥

सा तु भर्तुश्चितां कृत्वा वह्निं तं समारोहयत् ।
और्वस्तं भार्गवो दृष्ट्वा कारुण्याद्धि न्यवर्त्तयत् ॥ २,६३.१३१ ॥

तस्याश्रमे तु गर्भं सा गरेण च तदा सह ।
व्यजायत महाबाहुं सगरं नाम धर्मिकम् ॥ २,६३.१३२ ॥

और्वस्तु जातकर्मादीन्कृत्वा तस्य महात्मनः ।
अध्याप्य वेदाञ्छास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ २,६३.१३३ ॥

ततः शकान्स यवनान्कांबोजान्पारदांस्तथा ।
पह्लवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः ॥ २,६३.१३४ ॥

ते हन्यमाना वीरेण सगरेण महात्मना ।
वसिष्ठं शरणं सर्वे संप्राप्ताः शरणैषिणः ॥ २,६३.१३५ ॥

वसिष्ठो वीक्ष्य तान्युक्तान्विनयोन महामुनिः ।
सगरं वारयामास तेषां दत्त्वाभयं तथा ॥ २,६३.१३६ ॥

सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च ।
जघान धर्मं वै तेषां वेषान्यत्वं चकार ह ॥ २,६३.१३७ ॥

अर्द्धं शाकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।
यवनानां शिरः सर्वं कांबोजानां तथैव च ॥ २,६३.१३८ ॥

पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ २,६३.१३९ ॥

शका यवन कांबोजाः पह्लवाः पारदैः सह ।
कलिस्पर्शा महिषिका दार्वस्छोलाः खशास्तथा ॥ २,६३.१४० ॥

सर्वे ते क्षत्रियगणा धर्मस्तेषां निराकृतः ।
वसिष्ठवचनात्पूर्वं सगरेण महात्मना ॥ २,६३.१४१ ॥

स धर्मविजयी राजा विजित्येमां वसुन्धराम् ।
अश्वं वै चारयामास वाजिमेधाय दीक्षितः ॥ २,६३.१४२ ॥

तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे ।
वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ २,६३.१४३ ॥

स तं देशं सुतैः सर्वैः खानयामास पार्थिवः ।
आसेदुश्च ततस्तस्मिन्खनन्तस्ते महार्मवे ॥ २,६३.१४४ ॥

तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् ।
विष्णुं कपिलरूपेण हंसं नारायणं प्रभुम् ॥ २,६३.१४५ ॥

तस्य चक्षुः समासाद्य तेजस्तत्प्रतिपद्यते ।
दग्धाः पुत्रास्तदा सर्वेचत्वारस्त्ववशेषिताः ॥ २,६३.१४६ ॥

बर्हिकेतुः सुकेतुश्च तथा धर्मरथश्च यः ।
शूरः पञ्चजनश्चैव तस्य वंशकराः प्रभोः ॥ २,६३.१४७ ॥

प्रादाच्च तस्य भगवान्हरिर्नारायणो वरान् ।
अक्षयत्वं स्ववंशस्य वाजिमेधशतं तथा ॥ २,६३.१४८ ॥

विभुः पुत्रं समुद्रं च स्वर्गे वासं तथाक्षयम् ।
तं समुद्रोऽश्वमादाय ववन्दे सरितांपतिः ॥ २,६३.१४९ ॥

सागरत्वं च लेभे स कर्मणा तेन तस्य वै ।
तं चाश्वमेधिकं सोऽश्वं समुद्रात्प्राप्य पार्थिवः ॥ २,६३.१५० ॥

आजहाराश्वमेधानां शतं चैव पुनः पुनः ।
षष्टिं पुत्रसहस्राणि दग्धान्यस्य रुषा विभो ॥ २,६३.१५१ ॥

तेषां नारायणं तेजः प्रविष्टानि महात्मनाम् ।
पुत्राणां तु सहस्राणि षष्टिस्तु इति नः श्रुतम् ॥ २,६३.१५२ ॥

ऋषय ऊचुः
सगरस्यात्मजा नाना कथं जाता महाबलाः ।
विक्रान्ताः षष्टिसाहस्रा विधिना केन वा वद ॥ २,६३.१५३ ॥

सुत उवाच
द्वेपत्न्यौ सगरस्यास्तां तपसा दगधकिल्बिषे ।
ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥ २,६३.१५४ ॥

कनीयसी तु या तस्यपत्नी परमधर्मिणी ।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ २,६३.१५५ ॥

और्वस्ताभ्यां वरं प्रादात्तपसाराधितः प्रभुः ।
एका जनिष्यते पुत्रं वंशकर्त्तारमीप्सितम् ॥ २,६३.१५६ ॥

षष्टिं पुत्रसहस्राणि द्वितीया जनयिष्यति ।
मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेककम् ॥ २,६३.१५७ ॥

वंशस्य कारणं श्रेष्ठं जग्राह नृप संसदि ।
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तथा ॥ २,६३.१५८ ॥

महाभागा प्रमुदिता जग्राह सुमतिस्तथा ।
अथ काले गते ज्येष्ठा ज्येष्ठं पुत्रं व्यजायत ॥ २,६३.१५९ ॥

असमञ्ज इति ख्यातं काकुत्स्थं सगरात्मजम् ।
सुमतिस्त्वपि जज्ञे वै गर्भतुंबं यशस्विनी ॥ २,६३.१६० ॥

षष्टिः पुत्रसहस्राणां तुंबमध्याद्विनिस्सृताः ।
घृतपूर्णेषु कुंभेषु तान्गर्भान्यदधात्ततः ॥ २,६३.१६१ ॥

धात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृपः ।
ततो नवसु मासेषु समुत्तस्थुर्यथासुखम् ॥ २,६३.१६२ ॥

कुमारास्ते महाभागाः सगरप्रीतिवर्द्धनाः ।
कालेन महाता चैव यैवनं समुपाश्रिताः ॥ २,६३.१६३ ॥

केशिन्यास्तनयो योऽन्यः सगरस्यात्मसंभवः ।
असमञ्ज इति ख्यातो वर्हिकेतुर्महाबलः ॥ २,६३.१६४ ॥

पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् ।
तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ॥ २,६३.१६५ ॥

तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः ।
दिलीपात्तु महातेजा वीरो जातो भगीरथः ॥ २,६३.१६६ ॥

येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता ।
इहानीता सुरेशाद्वै दुहितृत्वे च कल्पिता ॥ २,६३.१६७ ॥

अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ।
भगीरथस्तु तां गङ्गामानयामास कर्मभिः ॥ २,६३.१६८ ॥

तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ।
भगीरथसुतश्चापि श्रुतो नाम बभूवह ॥ २,६३.१६९ ॥

नाभागस्तस्य दायादो नित्यं धर्मपरायणः ।
अम्बरीषः सुतस्तस्य सिंधुद्वीपस्ततोऽभवत् ॥ २,६३.१७० ॥

पूर्वे वंशपुराणज्ञा गायन्तीति परिश्रुतम् ।
नाभागेरंबरीषस्य भुजाभ्यां परिपालिता ॥ २,६३.१७१ ॥

बभूव वसुधात्यर्थं तापत्रयविवर्जिता ।
अयुतायुः सुतस्तस्य सिंधुद्वीपस्य वीर्यवान् ॥ २,६३.१७२ ॥

अयुतायोस्तु दायाद ऋतुपर्णो महायशाः ।
दिव्याक्षहृदयज्ञोऽसौ राजा नलसखो बली ॥ २,६३.१७३ ॥

नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ ।
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ २,६३.१७४ ॥

ऋतुपर्णस्य पुत्रोऽभूत्सर्वकामो जनेश्वरः ।
सुदासस्तस्य तनयो राजा इन्द्रसखोऽभवत् ॥ २,६३.१७५ ॥

सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ।
ख्यातः कल्माषपादो वै नाम्ना सित्रसहश्च सः ॥ २,६३.१७६ ॥

वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ।
अश्मकं जनयामास त्विक्ष्वाकुकुलवृद्धये ॥ २,६३.१७७ ॥

अश्मकस्यौरसो यस्तु मूलकस्तत्सुतोऽभवत् ।
अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति ॥ २,६३.१७८ ॥

स हि रामभयाद्राजा स्त्रीभिः परिवृतोऽवसत् ।
विवस्त्रस्त्राणमिच्छन्वै नारीकवच ईश्वरः ॥ २,६३.१७९ ॥

मूलकस्यापि धर्मात्मा राजा शतरथः स्मृतः ।
तस्माच्छतरथाज्जज्ञे राजा त्विडविडो बली ॥ २,६३.१८० ॥

आसीत्त्वैडविडः श्रीमान्कृशशर्मा प्रतापवान् ।
पुत्रो विश्वसहस्रस्य पुत्रीकस्यां व्यजायत ॥ २,६३.१८१ ॥

दिलीपस्तस्य पुत्रोऽभूत्खट्वाङ्ग इति विश्रुतः ।
येन स्वर्गादिहागत्य मुहूर्त्तं प्राप्य जीवितम् ॥ २,६३.१८२ ॥

त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ।
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥ २,६३.१८३ ॥

अजः पुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान् ।
राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः ॥ २,६३.१८४ ॥

रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः ।
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ॥ २,६३.१८५ ॥

माधवं लवणं हत्वा गत्वा मधुवनं च तत् ।
शत्रुघ्रेन पुरी तत्र मथुरा विनिवेशिता ॥ २,६३.१८६ ॥

सुबाहुः शूरसे नश्च शत्रुघ्नस्य सुतावुभौ ।
पालयामासतुस्तौ तु वैदेह्यौ मथुरां पुरीम् ॥ २,६३.१८७ ॥

अङ्गदश्चन्द्रकेतुश्च लक्ष्मणस्यात्मजावुभौ ।
हिमवत्पर्वतस्यान्ते स्फीतौ जनपदौ तयोः ॥ २,६३.१८८ ॥

अङ्गदस्याङ्गदाख्याता देशे कारयते पुरी ।
चन्द्रकेतोस्तु विख्याता चन्द्रचक्रा पुरी शुभा ॥ २,६३.१८९ ॥

भरतस्यात्मजौ वीरौ तक्षः पुष्कर एव च ।
गान्धारविषये सिद्धे तयोः पुर्यो महात्मनोः ॥ २,६३.१९० ॥

तक्षस्य दिक्षु विख्याता नाम्ना तक्षशिला पुरी ।
पुष्करस्यापि वीरस्य विख्याता पुष्करावती ॥ २,६३.१९१ ॥

गाथां चैवात्र गायन्ति ये पुराण विदो जनाः ।
रामेण बद्धां सत्यार्थां महात्म्यात्तस्य धीमतः ॥ २,६३.१९२ ॥

श्यामो युवा लोहिताक्षो दीप्तास्यो मीतभाषितः ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ २,६३.१९३ ॥

दशवर्षसहस्राणि रामो राज्यमकारयत् ।
ऋक्सामयजुषां घोषो यो घोषश्च महास्वनः ॥ २,६३.१९४ ॥

अव्युच्छिन्नोऽभवद्राज्ये दीयतां भुज्यतामिति ।
जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ॥ २,६३.१९५ ॥

तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः ।
सीतायाः पदमन्विच्छन्निजघान महायशाः ॥ २,६३.१९६ ॥

सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा ।
अतिसूर्यं च वह्निं च रामो दाशरथिर्बभौ ॥ २,६३.१९७ ॥

एवमेष महाबाहोस्तस्य पुत्रौ बभूवतुः ।
कुशो लव इति ख्यातो तयोर्देशौ निबोधत ॥ २,६३.१९८ ॥

कुशस्य कोशला राज्यं पुरी चापि कुशस्थली ।
रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु ॥ २,६३.१९९ ॥

उत्तराकोशले राज्य लवस्य च महात्मनः ।
श्रावस्तिर्लोकविख्याता कुशवंशं निबोधत ॥ २,६३.२०० ॥

कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः ।
अतिथेरपि विख्यातो निषधो नाम पार्थिवः ॥ २,६३.२०१ ॥

निषधस्य नलः पुत्रो नलस्य तु नाभाः सुतः ।
नभसः पुण्डरीकस्तु क्षेम धन्वा ततः स्मृतः ॥ २,६३.२०२ ॥

क्षेमधन्वसुतो राजा देवानीकः प्रतापवान् ।
आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ २,६३.२०३ ॥

अहीन गोस्तु दायादः पारियात्रो महायशाः ।
दलस्तस्यात्मजश्चापि तस्माज्जज्ञे बलो नृपः ॥ २,६३.२०४ ॥

उलूको नाम धर्मात्मा बलपुत्रो बभूव ह ।
वज्रनाभः सुतस्तस्य शङ्खणस्तस्य चात्मजः ॥ २,६३.२०५ ॥

शङ्खणस्य सुतो विद्वान् व्युषिताश्व इति श्रुतः ।
व्युषिताश्वसुतश्चापि राजा विश्वसहः किल ॥ २,६३.२०६ ॥

हिरण्यनाभः कौशल्यो वरिष्ठस्तत्सुतोऽभवत् ।
पौष्यञ्जेश्च स वै शिष्यः स्मृतः प्राच्येषु सामसु ॥ २,६३.२०७ ॥

शतानि संहितानां तु पञ्च योऽधीतवांस्ततः ।
तस्मादधिगतो योगो याज्ञवल्क्येन धीमता ॥ २,६३.२०८ ॥

पुष्पस्तस्य सुतो विद्वान्ध्रुवसंधिश्च तत्सुतः ।
सुदर्शनस्तस्य सुतो ह्यग्निवर्मः सुदर्शनात् ॥ २,६३.२०९ ॥

अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मरुः स्मृतः ।
मरुस्तु योगमास्थाय कलापग्राममास्थितः ॥ २,६३.२१० ॥

एकोनविंशप्रयुगे क्षत्रप्रावर्त्तकः प्रभुः ।
प्रभुसुतो मरोः पुत्रः सुसंधिस्तस्य चात्मजः ॥ २,६३.२११ ॥

सुसंधेश्च तथा मर्षः सहस्वान्नाम नामतः ।
आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति ॥ २,६३.२१२ ॥

तस्यासीद्विश्रुतवतः पुत्रो राजा बृहद्बलः ।
एते हीक्ष्वाकुदायादा राजानः शतशः स्मृताः ॥ २,६३.२१३ ॥

वंशे प्रधाना ये तस्मिन्प्राधान्येन तु कीर्त्तिताः ।
पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ॥ २,६३.२१४ ॥

प्रजावानेति सायुज्यं मनोर्वेवस्वतस्य सः ।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ २,६३.२१५ ॥

विपाप्मा विरजाश्चैव आयुष्माञ्जायतेऽच्युतः ॥ २,६३.२१६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धात पादे भार्गवचरिते इक्ष्वाकुवंशकीर्त्तनं नाम त्रिषष्टितमोऽध्यायः ॥ ६३॥