ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ४४

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ४३ ब्रह्माण्डपुराणम्
अध्यायः ४४
[[लेखकः :|]]
मध्यभागः, अध्यायः ४५ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
राजन्नेवं भृगुर्विद्वान्पश्यञ्जनपदान्बहून् ।
समाजगाम धर्मात्माकृतव्रणसमन्वितः ॥ २,४४.१ ॥

निलिल्युः क्षत्त्रियाः सर्वे यत्र तत्र निरीक्ष्य तम् ।
व्रजन्तं भार्गवं मार्गे प्राणरक्षणतत्पराः ॥ २,४४.२ ॥

अथाससाद राजेन्द्र रामः स्वपितुराश्रमम् ।
शान्तसत्त्वसमाकीर्णं वेदध्त्रनिनिनादितम् ॥ २,४४.३ ॥

यत्र सिंहा मृगा गावो नागमार्ज्जारमूषकाः ।
समं च रन्ति संहृष्टा भयं त्यक्त्वा सुदूरतः ॥ २,४४.४ ॥

यत्र धूमं समीक्ष्यैव ह्यग्निहोत्रसमुद्भवम् ।
उन्नदन्ति मयूराश्च नृत्यन्ति च महीपने ॥ २,४४.५ ॥

यत्र सायन्तने काले सूर्यस्याभिमुखं द्विजैः ।
जलाञ्जलीन्प्रक्षिपद्भिः क्रियते भूर्चलाविला ॥ २,४४.६ ॥

यत्रान्तेवासिभिर्नित्यं वेदाः शास्त्राणि संहिताः ।
अभ्यस्यन्ते मुदा युक्तैर्ब्रह्मचर्यव्रते स्थितैः ॥ २,४४.७ ॥

अथ रामः प्रसन्नात्मा पश्यन्नाश्रमसंपदम् ।
प्रविवेश शनै राजन्नकृतव्रणसंयुतः ॥ २,४४.८ ॥

जयशब्दं नमःशब्दं प्रोच्चरद्भिर्द्विजात्मजैः ।
द्विजैश्च सत्कृतो रामः परं हर्षमुपागतः ॥ २,४४.९ ॥

आश्रमाभ्यन्तरे तत्र संप्रविश्य निजं गृहम् ।
ददर्श पितरं रामो जमदग्निं तपोनिधिम् ॥ २,४४.१० ॥

साक्षाद्भृगुमिवासीनं निग्रहानुग्रहक्षमम् ।
पपात चरणोपान्ते ह्यष्टाङ्गालिङ्गितावनिः ॥ २,४४.११ ॥

रामोऽहं तवा दासोऽस्मि प्रोच्चरन्निति भूपते ।
जग्राह चरणौ चापि विधिवत्सज्जनाग्रणीः ॥ २,४४.१२ ॥

अथ मातुश्च चरणवभिवाद्य कृताञ्जलिः ।
उवाच प्रणतो वाक्यं तयोः संहर्षकारणम् ॥ २,४४.१३ ॥

राम उवाच
पितस्तव प्रभावेण तपसोऽतिदुरासदः ।
कार्त्तवीर्यो हतो युद्धे समुत्रबलवाहनः ॥ २,४४.१४ ॥

यस्तेऽपराधं कृतवान्दुष्टमन्त्रिप्रचोदितः ।
तस्य दण्डो मया दत्तः प्रसह्य मुनिपुङ्गव ॥ २,४४.१५ ॥

भवन्तं तु नमस्कृत्य गतोऽहं ब्रह्मणोंऽतिकम् ।
तं नमस्कृत्य विधिवत्स्वकार्यं प्रत्यवेदयम् ॥ २,४४.१६ ॥

समामुवाच भगवाञ्छ्रुत्वा वृत्तान्तमादितः ।
व्रज स्वकार्यसिद्ध्यर्थं शिवलोकं सनातनम् ॥ २,४४.१७ ॥

श्रुत्वाहं तद्वयस्तात नमस्कृत्य पिता महम् ।
गतवाञ्छिवलोकं वै हरदर्शनकाङ्क्षया ॥ २,४४.१८ ॥

प्रविश्य तत्र भगवन्नुमया सहितः शिवः ।
नमस्कृतो मया देवो वाञ्छितार्थ प्रदायकः ॥ २,४४.१९ ॥

तदग्रे निखिलः स्वीयो वृत्तान्तो विनिवेदितः ।
मया समाहितधिया स सर्वं श्रुतवानपि ॥ २,४४.२० ॥

श्रुत्वा विचार्य त त्सर्वं ददौ मह्यं कृपान्वितः ।
त्रैलोक्यविजयं नाम कवचं सर्वसिद्धिदम् ॥ २,४४.२१ ॥

तल्लब्ध्वा तं नमस्कृत्य पुष्करं समुपागतः ।
तत्राहं साधयित्वा तु कवचं हृष्टमानसः ॥ २,४४.२२ ॥

कार्त्तवीर्यं निहत्याजौ शिवलोकं पुनर्गतः ।
तत्र तौ तु मया दृष्टौ द्वारे स्कन्दविनायकौ ॥ २,४४.२३ ॥

तौनमस्कृत्य धर्मज्ञ प्रवेष्टुं चोद्यतोऽभवम् ।
स मामवेक्ष्य गामपो विशन्तं त्वरयान्वितम् ॥ २,४४.२४ ॥

वारयामास सहसा नाद्यावसर इत्यथ ।
मम तेन पितस्तत्र वाग्युद्धं हस्तकर्षणम् ॥ २,४४.२५ ॥

सञ्जातपरशुक्षेममतोऽभूद्भृगुनन्दन ।
स तज्ज्ञात्वा समुद्गृह्य मामधश्चोर्द्ध्वमेव च ॥ २,४४.२६ ॥

करेण भ्रामयामास पुनश्चानीतवांस्ततः ।
तं दृष्ट्वातिक्रुधा क्षिप्तः कुठारो हि मया ततः ॥ २,४४.२७ ॥

दन्तो निपति,स्तस्य ततो देव उपागतः ।
पार्वती तत्र रुष्टाभूत्तदा कृष्णः समागतः ॥ २,४४.२८ ॥

राधया सहितस्तेन सानुनीता वरं ददौ ।
मह्यं कृष्मो जगामाथ तेन मैत्रीं विधाय च ॥ २,४४.२९ ॥

ततः प्रणम्य देवेशौ पार्वतीपरमेश्वरौ ।
आगतस्तव सान्निध्यमकृतव्रणसंयुतः ॥ २,४४.३० ॥

वसिष्ठ उवाच
इत्यक्त्वा भार्गवो रामो विरराम च भूपते ।
जमदग्निरुवाचेदं रामं शत्रुनिबर्हणम् ॥ २,४४.३१ ॥

जमदग्निरुवाच
क्षत्रहत्याभिभूतस्त्वं तावद्दोषोपशान्तये ।
प्रयश्चित्तं ततस्तावद्यथावत्कर्तुमर्हसि ॥ २,४४.३२ ॥

इत्युक्तः प्राह पितरं रामो मतिमतां वरः ।
प्रायश्चित्तं तु तद्योग्यं त्वं मे निर्देष्टुमर्हसि ॥ २,४४.३३ ॥

जमदग्निरुवाच
व्रतैश्च नियमैश्चैव कर्षयन्देहमात्मनः ।
शाकमूलफलाहारो द्वादशाब्दं तपश्चर ॥ २,४४.३४ ॥

वसिष्ठ उवाच
इत्युक्तः प्रणिपत्यैनं मातरं च भृगूद्वहः ।
प्रययौ तपसे राजन्नकृतव्रणसंयुतः ॥ २,४४.३५ ॥

स गत्वा पर्वत वरं महेन्द्रमरिकर्षणः ।
कृत्वाऽश्रमपदं तस्मिंस्तपस्तेपे सुदुश्चरम् ॥ २,४४.३६ ॥

व्रतैस्तपोभिर्नियमैर्देवताराधनैरपि ।
निन्ये वर्षाणि कति चिद्रामस्तस्मिन्महामनाः ॥ २,४४.३७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे
सगरोपाख्याने भार्गवचरिते चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४॥