ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ४६

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ४५ ब्रह्माण्डपुराणम्
अध्यायः ४६
[[लेखकः :|]]
मध्यभागः, अध्यायः ४७ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
सगच्छन्पथि शुश्राव मुनिभ्यस्त त्त्वमादितः ।
राजपुत्रव्यवसितं पित्रौः स्वर्गतिमेव च ॥ २,४६.१ ॥

पितुस्तु जीवहरणं शिरोहरणमेव च ।
तन्मृतेरेव मरणं श्रुत्वा मातुश्च केवलम् ॥ २,४६.२ ॥

विललाप महाबाहुर्दुःखशोकसमन्वितः ।
तमथाश्वासयामास तुल्यदुःखोऽकृतव्रणः ॥ २,४६.३ ॥

हेतुभिः शास्त्रनिर्दिष्टैर्वीर्यसामर्थ्यसूचकैः ।
युक्तिलौकिकदृष्टान्तैस्तच्छोकं संव्यशामयत् ॥ २,४६.४ ॥

सांत्वितस्तेन मैधावी धृतिमालंब्य भार्गवः ।
प्रययौ सहितः सख्या भ्रातॄणां तु दिदृक्षया ॥ २,४६.५ ॥

स तान्दृष्ट्वाभिवाद्यैतान्दुःखितान्दुःखकर्शितः ।
शोकामषयुतस्तैश्च सह त्स्थौ दिनत्रयम् ॥ २,४६.६ ॥

ततोऽस्य सुमाहान्क्रोधः स्मरतो निधनं पितुः ।
बभूव सहसा सर्वलोकसंहरणक्षमः ॥ २,४६.७ ॥

मातुरर्थे कृतां पूर्वं प्रतिज्ञां सत्यसंगरः ।
दृढीचकार हृदये सर्वक्षत्रवधोद्यतः ॥ २,४६.८ ॥

क्षत्रवंश्यानशेषेण हत्वा तद्देहलोहितैः ।
करिष्ये तर्पणं पित्रोरिति निश्चित्य भार्गवः ॥ २,४६.९ ॥

भ्रातॄणां चैव सर्वेषामाख्यायात्मसमीहितम् ।
प्रययौ तदनुज्ञातः कृत्वा संस्थांपितुः क्रियाम् ॥ २,४६.१० ॥

अकृतव्रणसंयुक्तः प्राप्य माहिष्मतीं ततः ।
तद्बाह्योपवने स्थित्वा सस्मार स महोदरम् ॥ २,४६.११ ॥

स तस्मै रथचापाद्यं सहसाश्वसमन्वितम् ।
प्रेषयामास रामाय सर्वसंहननानि च ॥ २,४६.१२ ॥

रामोऽपि रथमारुह्य सन्नद्धः सशरं धनुः ।
गृहीत्वापूरयच्छङ्खं रुद्रदत्तममित्रजित् ॥ २,४६.१३ ॥

ज्याघोषं च चकारोच्चै रोदसी कंपयन्निव ।
सहसाहोथ सारथ्यं चक्रे सारथिनां वरः ॥ २,४६.१४ ॥

रथज्याशङ्खनादैस्तु वधात्पित्रोरमर्षिणः ।
तस्याभून्नगरी सर्वा संक्षुब्धाश्च नरद्विपाः ॥ २,४६.१५ ॥

रामं त्वागतमाज्ञाय सर्वक्षत्रकुलान्तकम् ।
संक्षुब्धाश्चक्रुरुद्योगं संग्रामाय नृपात्मजाः ॥ २,४६.१६ ॥

अथ पञ्चरथाः शुराः शूरसेनादयो नृप ।
रामेण योद्धुं सहिता राजभिश्च क्रुरुद्यमम् ॥ २,४६.१७ ॥

चतुरङ्गवलोपेतास्ततस्ते क्षत्रियर्षभाः ।
राममासादयामासुः पतङ्गा इव पावकम् ॥ २,४६.१८ ॥

निवार्य तानापततो रथेनैकेन भार्गवः ।
युयुधे पार्थिवैः सर्वैः समरेऽमितविक्रमः ॥ २,४६.१९ ॥

ततः पुनरभूद्युद्धं रामस्य सह राजभिः ।
जघान यत्र संक्रुद्धो राज्ञां शतमुदारधीः ॥ २,४६.२० ॥

ततः स शूरसेनादीन्हत्वा सबलवाहनान् ।
त्रणेन पातयामास क्षितौ क्षत्रियमण्डलम् ॥ २,४६.२१ ॥

ततस्ते भग्नसंकल्पा हतस्वबलवाहनाः ।
हतशिष्टा नृपतयो दुद्रुवुः सर्वतोदिशम् ॥ २,४६.२२ ॥

एवं विद्राव्य सैन्यानि हत्वा जित्वाथ संयुगे ।
जघान शतशो राज्ञः शूराञ्छरवराग्निना ॥ २,४६.२३ ॥

ततः क्रोधपरीतात्मा दग्धुकामोऽखिलां पुरीम् ।
उदैरयद्भार्गवोऽस्त्रं कालाग्निसदृशप्रभम् ॥ २,४६.२४ ॥

ज्वालाकवलिताशेषपुरप्राकारमालिनीम् ।
पुरीं सहस्त्यश्वनरां स ददाहास्त्रपावकः ॥ २,४६.२५ ॥

दह्यमानां पुरीं दृष्ट्वा प्राणत्राणपरायणः ।
जीवनाय जगामाशु वीतिहोत्रो भयातुरः ॥ २,४६.२६ ॥

अस्त्राग्निना पुरीं सर्वां दग्ध्वा हत्वा च शात्रवान् ।
प्राशयानोऽखिलान् लोकान् साक्षात्काल इवान्तकः ॥ २,४६.२७ ॥

अकृतव्रणसंयुक्तः सहसाहेन चान्वितः ।
जगामरथघोषेण कंपयन्निव मेदिनीम् ॥ २,४६.२८ ॥

विनिघ्नन् क्षत्रियान्सर्वान् संशाम्य पृथिवीतले ।
महेन्द्राद्रिं ययौ रामस्तपसे धतमानसः ॥ २,४६.२९ ॥

तस्मिन्नष्टचतुष्कं च यावत्क्षत्रसमुद्गमम् ।
प्रत्येत्य भूयस्तद्धत्यै बद्धदीक्षो धृतव्रतः ॥ २,४६.३० ॥

क्षत्रक्षेत्रेषु भूयश्च क्षत्रमुत्पादितं द्विजैः ।
निजघान पुनर्भूमौ राज्ञ शतसहस्रशः ॥ २,४६.३१ ॥

वर्षद्वयेन भूयोऽपि कृत्वा निःक्षत्रियां महीम् ।
षट्चतुष्टयवर्षान्तं तपस्तेपे पुनश्च सः ॥ २,४६.३२ ॥

भूयोऽपि राजन् संबुद्धं क्षत्रमुत्पादितं द्विजैः ।
जघान भूमौ निःशेषं साक्षात्काल इवान्तकः ॥ २,४६.३३ ॥

कालेन तावता भूयः समुत्पन्नं नृपात्त्वयम् ।
निघ्नंश्चचार पृथिवीं वर्षद्वयमनारतम् ॥ २,४६.३४ ॥

अलं रामेण राजेन्द्र स्मरता निधनं पितुः ।
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ २,४६.३५ ॥

त्रिःसप्तकृत्वस्तन्माता यदुरः स्वमताडयत् ।
तावद्रामेण तस्मात्तु क्षत्रमुत्सादितं भुवि ॥ २,४६.३६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते षट्चत्वारिंशत्त मोऽध्यायः ॥ ४६॥