ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः २१

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः २० ब्रह्माण्डपुराणम्
अध्यायः २१
[[लेखकः :|]]
मध्यभागः, अध्यायः २२ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

समाप्तश्चायं श्राद्धकल्पः ।
वसिष्ठ उवाच
इत्थं प्रवर्त्तमानस्य जमदग्नेर्महात्मनः ।
वर्षाणि कतिचिद्राजन्व्यतीयुरमितौजसः ॥ २,२१.१ ॥

रामोऽपि नृपशार्दूल सर्वधर्मभृतां वरः ।
वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ २,२१.२ ॥

पित्रोश्चकार शुश्रूषां विनीतात्मा महामतिः ।
प्रीतिं च निजचेष्टाभिरन्वहं पर्यवर्त्तयत् ॥ २,२१.३ ॥

इत्थं प्रवर्त्तमानस्य वर्षाणि कतिचिन्नृप ।
पित्रोः शुश्रूषयानैषीद्रामो मतिमतां वरः ॥ २,२१.४ ॥

स कदाचिन्महातेजाः पितामह गुहं प्रति ।
गन्तुं व्यवसितो राजन्दैवेन च नियोजितः ॥ २,२१.५ ॥

निपीड्य शिरसा पित्रोश्चरणौ भृगुपुङ्गवः ।
उवाच प्राञ्जलिर्भूतवा सप्रश्रयमिदं वचः ॥ २,२१.६ ॥

कञ्चिदर्थमहं तात मातरं त्वां च साम्प्रतम् ।
विज्ञापयितुमिच्छामि मम तच्छ्रोतुमर्हथः ॥ २,२१.७ ॥

पितामहमहं द्रष्टुमुत्कण्ठितमनाश्चिरम् ।
तस्मात्तत्पार्श्वमधुना गमिष्ये वामनुज्ञया ॥ २,२१.८ ॥

आहूतश्चासकृत्तात सोत्कण्ठं प्रीयमाणया ।
पितामह्या बहुमुखैरिच्छन्त्या मम दर्शनम् ॥ २,२१.९ ॥

पितॄन्पितामहस्यापि प्रियमेव प्रदर्शनम् ।
सदीयं तेन तत्पार्श्वं गन्तुं मामनुजानत ॥ २,२१.१० ॥

वसिष्ठ उवाच
इति तस्य वचः श्रुत्वा संभ्रान्तं समुदीरितम् ।
हर्षेण महता युक्तौ साश्रुनेत्रौ बभूवतुः ॥ २,२१.११ ॥

तमालिङ्ग्य महाभागं मूर्ध्न्युपाघ्राय सादरम् ।
अभिनन्द्याशिषा तात ह्युभौ ताविदमाहतुः ॥ २,२१.१२ ॥

पितामहगृहं तात प्रयाहि त्वं यथासुखम् ।
पितामहपितामह्योः प्रीतये दर्शनाय च ॥ २,२१.१३ ॥

तत्र गत्वा यथान्यायं तं शुश्रूषा परायणः ।
कञ्चित्कालं तयोर्वत्स प्रीतये वस तद्गृहे ॥ २,२१.१४ ॥

स्थित्वा नातिचिरं कालं तयोर्भूयोऽप्यनुशय ।
अत्रागच्छ महाभाग क्षेमेणास्मद्दिदृक्षया ॥ २,२१.१५ ॥

क्षणार्द्धमपि शक्ताः स्थो न विना पुत्रदर्शनम् ।
तस्मात्पितामह गृहे न चिरात्स्थातुमर्हसि ॥ २,२१.१६ ॥

तदाज्ञयाथ वा पुत्र प्रपितामहसन्निधिम् ।
गतोऽपि शीघ्रमागच्छ क्रमेण तदनुज्ञया ॥ २,२१.१७ ॥

वसिष्ठ उवाच
इत्युक्तस्तौ परिक्रम्य प्रणम्य च महामतिः ।
पितरावप्यनुज्ञाप्य पितामहगृहं ततः ॥ २,२१.१८ ॥

स गत्वा भृगुवर्यस्य ऋचीकस्य महात्मनः ।
प्रविवेशाश्रमं रामो मुनिशिष्योपशोभितम् ॥ २,२१.१९ ॥

स्वाध्यायघोषैर्विपुलैः सर्वतः प्रतिनादितम् ।
प्रशान्तवैर सत्त्वाढ्यं सर्वसत्त्वमनोहरम् ॥ २,२१.२० ॥

स प्रविश्यश्रमं रम्यमृचीकं स्थितमासने ।
ददर्श रामो राजेन्द्र स पितामहमग्रतः ॥ २,२१.२१ ॥

जाज्वल्यमानं तपसा धिष्ण्यस्थमिव पावकम् ।
उपासितं सत्यवत्या यथा दक्षिणायऽध्वरम् ॥ २,२१.२२ ॥

स्वसमीपमुपायान्तं राममालोक्य तौ नृप ।
सुचिरं तं विमर्शेतां समाज्ञापूर्वदर्शनौ ॥ २,२१.२३ ॥

कोऽयमेष तपोराशिः सर्वलत्रणपूजितः ।
बालोऽयं बलवान्भातिगांभीर्यात्प्रश्रयेण च ॥ २,२१.२४ ॥

एवं तयोश्चिन्तयतोः सहर्षं हृदि कौतुकात् ।
आससाद शनै रामः समीपे विनयान्वितः ॥ २,२१.२५ ॥

स्वनामगोत्रे मतिमानुक्त्वा पित्रोर्मुदान्वितः ।
संस्पृशंश्चरणौ मूर्ध्ना हस्ताभ्यां चाभ्यवादयत् ॥ २,२१.२६ ॥

ततस्तौ प्रीतमनसौ समुथाप्य च सत्तमम् ।
आशीर्भिरभिनन्देतां पृथक्पृथगुभावपि ॥ २,२१.२७ ॥

तमाश्लिष्याङ्कमारोप्य हर्णाश्रुप्लुतलोचनौ ।
वीक्षन्तौ तन्मुखांभोजं परं हर्षमवापतुः ॥ २,२१.२८ ॥

ततः सुखोपविष्टं तमात्मवंशसमुद्वहम् ।
अनामयमपृच्छेतां तावुभौ दंपती तदा ॥ २,२१.२९ ॥

पितरौ ते कुशलिनो वत्स किंभ्रातरस्तथा ।
अनायासेन ते वृत्तिर्वर्तते चाथ कर्हिचित् ॥ २,२१.३० ॥

समस्ताभ्यां ततो राजन्नाचचक्षे यथोदितः ।
तथा स्वानुगतं पित्रोर्भ्रातॄणां चैव चेष्टितम् ॥ २,२१.३१ ॥

एवं तयोर्महाराज सत्प्रीतिजनितैगुणैः ।
प्रीयमाणोऽवसद्रामः पितुः पित्रोर्न्निवेशने ॥ २,२१.३२ ॥

स तस्मिन्सर्वभूतानां मनोनयननन्दनः ।
उवास कतिचिन्मासांस्तच्छुश्रूषापरायणः ॥ २,२१.३३ ॥

अथानुज्ञाप्य तौ राजन्भृगुवर्यो महामनाः ।
पितामहगुरोर्गन्तुमियेषाश्रयमाश्रमम् ॥ २,२१.३४ ॥

स ताभ्यां प्रीतियुक्ताभ्यामाशीर्भिरभिनन्दितः ।
यथा चाभ्यां प्रदिष्टेन यया वौर्वाश्रमं प्रति ॥ २,२१.३५ ॥

तं नमस्कृत्य विधिवच्च्यवनं च महातपाः ।
सप्रहर्षं तदाज्ञातः प्रययावाश्रमं भृगोः ॥ २,२१.३६ ॥

स गत्वामुनिमुख्यस्य भृगोराश्रममण्डलम् ।
ददर्श शान्तचेतोभिर्मुनिभिः सर्वतो वृतम् ॥ २,२१.३७ ॥

सुस्निग्धशीतलच्छायैः सर्वर्तुकगुणान्वितैः ।
तरुभिः संवृतं प्रीतः फलपुष्पोत्तरान्वितैः ॥ २,२१.३८ ॥

नानाखगकुलारावैर्मनःश्रोत्रसुखावहैः ।
ब्रह्मघोषैश्च विविधैः सर्वतः प्रतिनादितम् ॥ २,२१.३९ ॥

समन्त्राहुतिहोमोत्थधूमगन्धेन सर्वतः ।
निरस्तनिखिलाघौघं वनान्तरविसर्पिणा ॥ २,२१.४० ॥

समित्कुशाहरैर्दण्डमेखलाजिनमण्डितैः ।
अभितः शोभितं राजन्रम्यैर्मुनिकुमारकैः ॥ २,२१.४१ ॥

प्रसूनजलसंपूर्मपात्रहस्ताभिरन्तरा ।
शोभितं मुनिकल्याभिश्चरन्तीभिरितस्ततः ॥ २,२१.४२ ॥

सपोतहरिणीयूथैर्विस्रंभादविशङ्किभिः ।
उटजाङ्गणपर्यन्ततरुच्छायास्वधिष्ठितम् ॥ २,२१.४३ ॥

रोमन्थतः परामृष्टियूथ साक्षिकमुत्प्रदैः ।
प्रारब्धताण्डवं केकीमयूरैर्मधुरस्वरैः ॥ २,२१.४४ ॥

प्रविकीर्णकणोद्देशं मृगशब्दैः समीपगैः ।
अनालीढातपच्छायाशुष्यन्नीवारराशिभिः ॥ २,२१.४५ ॥

हूयमानानलं काले पूज्यमानातिथिव्रजम् ।
अभ्यस्यमानच्छन्दौघं चिन्त्यमानगमोदितम् ॥ २,२१.४६ ॥

पठ्यमानाखिलस्मार्त्तं श्रौतार्थप्रविचारणम् ।
प्रारब्धपितृदेवेज्यं सर्वभूतमनोहरम् ॥ २,२१.४७ ॥

तपस्विजनभूयिष्ठमाकापुरुषसेवितम् ।
तपोवृद्धिकरं पुण्यं सर्वसत्त्वसुखास्पदम् ॥ २,२१.४८ ॥

तपोधनानन्दकरं ब्रह्मलोकमिवापरम् ।
प्रसूनसौरभभ्राम्यन्मधुपारावनादितम् ॥ २,२१.४९ ॥

सर्वतो वीज्यमानेन विविधेन नभस्वता ।
एवंविधगुणोपेतं पश्यन्नाश्रममुत्तमम् ॥ २,२१.५० ॥

प्रविवेश विनीतात्मा सुकृतीवामरालयम् ।
संप्रविश्यश्रमोपान्तं रामः स्वप्रपितामहम् ॥ २,२१.५१ ॥

ददर्श परितो राजन्मुनिशिष्यशतावृतम् ।
व्याख्यानवेदिकामध्ये निविष्टं कुशविष्टरे ।
सितश्मश्रुजटाकूर्चब्रह्मसूत्रोपशोभितम् ॥ २,२१.५२ ॥

वामेतरोरुमध्यास्त वामजङ्घेन जानुना ॥ २,२१.५३ ॥

योगपट्टेन संवीतस्वदेहमृषिपुङ्गवम् ।
व्याख्यानमुद्राविलसत्सव्यपाणितलांबुजम् ॥ २,२१.५४ ॥

योगपट्टोपरिन्यस्तविभ्राजद्वामपाणिकम् ।
सम्यगारण्यवाक्यानां सूक्ष्मतत्त्वार्थसंहतिम् ॥ २,२१.५५ ॥

विवृत्य मुनिमुख्येभ्यः श्रावयन्तं तपोनिधिम् ।
पितुः पितामहं द्दष्ट्वा रामस्तस्य महात्मनः ॥ २,२१.५६ ॥

शनैरिवमहाराज समीपं समुपागमत् ।
तमागतमुपालक्ष्य तत्प्रभावप्रधर्षिताः ॥ २,२१.५७ ॥

शङ्कामवापुर्मुनयो दूरादेवाखिला नृप ।
तावदूभृगुरमेयात्मा तदागमनतोषितः ॥ २,२१.५८ ॥

निवृत्तान्यकथालापस्तं पश्यन्नास पार्थिव ।
रामोऽपि तमुपागम्य विनयावनताननः ॥ २,२१.५९ ॥

अवन्दत यथान्ययमुपेन्द्र इव वेधसम् ।
अभिवाद्य यथान्यायं ख्यातिं च विनयान्वितः ॥ २,२१.६० ॥

तांश्च संभावयामास मुनीन्रामोयथावयः ।
तैश्च सर्वैर्मुदोपेतैराशीर्भिरभिवर्द्धितः ॥ २,२१.६१ ॥

उपाविवेश मेधावी भूमौ तेषामनुज्ञया ।
उपविष्टं ततो राममाशीर्भिरभिनन्दितम् ॥ २,२१.६२ ॥

पप्रच्छकुशलप्रश्नं तमालोक्य भृगुस्तदा ।
कुशलं खलु ते वत्स पित्रोश्च किमनामयम् ॥ २,२१.६३ ॥

भ्रातॄणां चैव भवतःपितुः पित्रोस्तथैव च ।
किमर्थमागतोऽत्र त्वमधुनामम सन्निधिम् ॥ २,२१.६४ ॥

केनापि वा त्वमादिष्टः स्वयमेवाथवागतः ।
ततोरामो यथान्यायं तस्मै सर्वमशेषतः ॥ २,२१.६५ ॥

कथयामास यत्पृष्टं तदा तेन महात्मना ।
पितुर्मातुश्च वृत्तान्त भ्रातॄणां च महात्मनाम् ॥ २,२१.६६ ॥

पितुः प्रित्रोश्चकौशल्य दर्शनं च तयोर्नृप ।
एतदन्यच्च सकलं भृगोः सप्रश्रयं मुदा ॥ २,२१.६७ ॥

न्यवेदयद्यथान्यायमात्मनश्च समीहितम् ।
श्रुत्वैतदखिलं राजन्रामेण समुदीरितम् ॥ २,२१.६८ ॥

तं च दृष्ट्वा विशेषेण भृगुः प्रीतोऽभ्यनन्दत ।
एवं तस्य प्रियं कुर्वन्नुत्कृष्टैरात्मकर्मभिः ॥ २,२१.६९ ॥

तत्राश्रमेऽवसद्रामो दिनानि कतिचिन्नृप ।
ततः कदाचिदेकान्ते रामं मुनिवरोत्तमः ॥ २,२१.७० ॥

वत्सागच्छेति तं राजन्नुपाह्वयदुपह्वरे ।
सोऽभिगम्य तमासीनमभिवाद्य कृताञ्जलिः ॥ २,२१.७१ ॥

तस्थौ तत्पुरतो रामः सुप्रीतेनान्तरात्मना ।
आशीर्भिरभिनन्द्याथ भृगुस्तं प्रीत मानसः ॥ २,२१.७२ ॥

प्राह नाधिगताशङ्कं राममालोक्य सादरम् ।
श्रुणु वत्स वचो मह्य यत्त्वां वक्ष्यामि सांप्रतम् ॥ २,२१.७३ ॥

हितार्थं सर्वलोकानां तव चास्माकमेव च ।
गच्छ पुत्र ममादेशाद्धिमवन्तं महागिरिम् ॥ २,२१.७४ ॥

अधुनैवाश्रमादस्मात्तपसे धृतमानसः ।
तत्रगत्वा महाभाग कृत्वाश्रमापदं शुभम् ॥ २,२१.७५ ॥

आराधय महादेवं तपसा नियमेन च ।
प्रीतिमुत्पाद्य तस्य त्वं भक्त्यानन्यगया चिरात् ॥ २,२१.७६ ॥

श्रेयो महदवाप्नोषि नात्र कार्या विजारणा ।
तरसा तव भक्त्या च प्रीतो भवति शङ्करः ॥ २,२१.७७ ॥

करिष्यति च ते सर्वं मनसा यद्यदिच्छसि ।
तुष्टे तस्मिञ्जगन्नाथे शङ्करे भक्तवत्सले ॥ २,२१.७८ ॥

अस्त्रग्राममशेषं त्वं वणु पुत्र यथेप्सितम् ।
त्वया हितार्थं देवानां करणीयं सुदुष्करम् ॥ २,२१.७९ ॥

विद्यतेऽभ्यधिकं कर्म शस्त्रसाध्यमनेकशः ।
तस्मात्त्वं देवदेवेशं समाराधय शङ्करम् ॥ २,२१.८० ॥

भक्त्या परमया युक्तस्ततोऽभीष्टमवाप्स्यसि ॥ २,२१.८१ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे एकविंशति तमौध्यायः ॥ २१॥