ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ५४

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ५३ ब्रह्माण्डपुराणम्
अध्यायः ५४
[[लेखकः :|]]
मध्यभागः, अध्यायः ५५ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

जैमिनिरुवाच
क्रोधाग्निमेनं विप्रेन्द्र सद्यः संहर्त्तुमर्हसि ।
नो चेदकाले लोकोऽयं सकलस्तेन दह्यते ॥ २,५४.१ ॥

दृष्टस्ते महिमानेन व्याप्तमासीच्चराचरम् ।
क्षमस्व संहर क्रोधं नमस्ते विप्रपुङ्गव ॥ २,५४.२ ॥

एवं संस्तूयमानस्तु भगवान्कपिलो मुनिः ।
तूर्णमेव क्षयं निन्ये क्रोधाग्निमतिभैरवम् ॥ २,५४.३ ॥

ततः प्रशान्तमभवज्जगत्सर्वं चराचरम् ।
देवास्तपस्विनश्चैव बभूवुर्विगतज्वराः ॥ २,५४.४ ॥

एतस्मिन्नेव काले तु भगवान्नारदो मुनिः ।
अयोध्या मगमद्राजन्देवलोकाद्यदृच्छया ॥ २,५४.५ ॥

तमागतमभिप्रेक्ष्य नारदं सगरस्तदा ।
अर्घ्यपाद्यादिभिः सम्यक्पूजयामास शास्त्रतः ॥ २,५४.६ ॥

परिगृह्य च तत्पूजामासीनः परमासने ।
नारदो राजशार्दूलमिदं वचनमब्रवीत् ॥ २,५४.७ ॥

नारद उवाच
हयसंचारणार्थाय संप्रयातास्तवात्मजाः ।
ब्रह्मदण्डहताः सर्वे विनष्टा नृपसत्तम ॥ २,५४.८ ॥

संरक्ष्यमाणस्तैः सर्वैर्हयस्ते यज्ञियो नृप ।
केनाप्य लक्षितः क्वापि नीतो विधिवशाद्दिवि ॥ २,५४.९ ॥

ततो विनष्टं तुरगं विचिन्वन्तो महीतले ।
प्रालभन्त न ते क्वापि तत्प्रवृत्तिं चिरान्नृप ॥ २,५४.१० ॥

ततोऽवनेरधस्तेऽश्वं विचेतुं कृतनिश्चयाः ।
सागरास्ते समारभ्य प्रचख्नुर्वसुधातलम् ॥ २,५४.११ ॥

खनन्तो वसुधा मश्वं पाताले ददृशुर्नृप ।
समीपे तस्य योगीन्द्रं कपिलं चमहामुनिम् ॥ २,५४.१२ ॥

तं दृष्ट्वा पापकर्माणस्ते सर्वे कालचोदिताः ।
कपिलं कोपयामासुरश्वहर्त्तायमित्यलम् ॥ २,५४.१३ ॥

ततस्तत्क्रोधसंभूतनेत्राग्नेर्दहतो दिशः ।
इन्धनीभूतदेहास्ते पुत्राः संक्षयमागताः ॥ २,५४.१४ ॥

क्रूराः पापसमाचाराः सर्वलोकोपरोधकाः ।
यतस्ते तेन राजेन्द्र न शोकं कर्तुमर्हसि ॥ २,५४.१५ ॥

स त्वं धैर्यधनो भूत्वा भवित व्यतयात्मनः ।
नष्टं मृतमतीतं च नानुशोचन्ति पण्डिताः ॥ २,५४.१६ ॥

तस्मात्पौत्रमिमं बालमंशुमन्तं महामतिम् ।
तुरगानयनार्थाय नियुङ्क्ष्व नृपसत्तम ॥ २,५४.१७ ॥

इत्यक्त्वा राजशार्दूलं सदस्यर्त्विक्समन्वितम् ।
क्षणेन पश्यतां तेषां नारदोऽन्तर्दधे मुनिः ॥ २,५४.१८ ॥

तच्छ्रत्वा वचन तस्य नारदस्य नृपोत्तमः ।
दुःखशोकपरातात्मा दध्यौ चिरमुदारधीः ॥ २,५४.१९ ॥

तं ध्यानयुक्तं सदसि समासीनमवाङ्मुखम् ।
वसिष्ठः प्राह राजानं सांत्वयन्देशकालवित् ॥ २,५४.२० ॥

किमिदं धैर्यसाराणामवकाशं भवदृशाम् ।
लभते हृदि चेच्छोकः प्राप्तं धीर तया फलम् ॥ २,५४.२१ ॥

दौर्मनस्यं शिथिलयन्सर्वं दिष्टवशानुगम् ।
मन्वानोऽनन्तरं कृत्यं कर्तुमर्हस्यसंशयम् ॥ २,५४.२२ ॥

वसिष्ठेनैवमुक्तस्तु राजा कार्यार्थतत्त्ववित् ।
धृतिं सत्त्वं समालंब्य तथेति प्रत्यभाषत ॥ २,५४.२३ ॥

अंशुमन्तं समाहूय पौत्रं विनयशालिनम् ।
ब्रह्मक्षत्त्रसभामध्ये शनैरिदमभाषत ॥ २,५४.२४ ॥

ब्रह्मदण्डहताः सर्वे पितरस्तव पुत्रक ।
पतिताः पापकर्माणो निरये शाश्वतीः समाः ॥ २,५४.२५ ॥

त्वमेव संततिर्मह्यं राज्यस्यास्य च रक्षिता ।
त्वदायत्तमशेषं मे श्रेयोऽमुत्र परत्र च ॥ २,५४.२६ ॥

स त्वं गच्छ ममादेशात्पाताले कपिलान्तिकम् ।
तुरगानयनार्थाय यत्नेन महातान्वितः ॥ २,५४.२७ ॥

तं प्रार्थयित्वा विधिवत्प्रसाद्य च विशेषतः ।
आदाय तुरगं वत्स शीघ्रमागन्तुमर्हसि ॥ २,५४.२८ ॥

जैमिनिरुवाच
एवमुक्तोंऽशुमांस्तेन प्रणम्य पितरं पितुः ।
तथेत्युक्त्वा महाबुद्धिः प्रययौ कपिलान्तिकम् ॥ २,५४.२९ ॥

तमुपागम्य विधिवन्नमस्कृत्य यथामति ।
प्रश्रयावनतो भूत्वा शनैरिदमुवाच ह ॥ २,५४.३० ॥

प्रसीद विप्रशार्दूल त्वामहं शरणं गतः ।
कोपं च संहर क्षिप्रं लोकप्रक्षयकारकम् ॥ २,५४.३१ ॥

त्वयि क्रुद्धे जगत्सर्वं प्रणाशमुपयास्यति ।
प्रशान्तिमुपयाह्याशुलोकाः संतु गतव्यथाः ॥ २,५४.३२ ॥

प्रसन्नोऽस्मान्महाभाग पश्य सौम्येन चक्षुषा ।
ये त्वत्क्रोधाग्निनिर्दग्धास्तत्संततिमवेहि माम् ॥ २,५४.३३ ॥

नाम्नांशुमन्तं नप्तारं सगरस्य महीपतेः ।
सोऽहं तस्य नियोगेन त्वत्प्रसादाभिकाङ्क्षया ॥ २,५४.३४ ॥

प्राप्तो दास्यसि चेद्ब्रह्मंस्तुरगानयनाय च ।
जैमिनिरुवाच
इति तद्वचनं श्रुत्वा योगीन्द्रप्रवरो मुनिः ॥ २,५४.३५ ॥

अंशुमन्तं समालोक्य प्रसन्न इदमब्रवीत् ।
स्वागतं भवतो वत्स दिष्ट्या च त्वमिहागतः ॥ २,५४.३६ ॥

गच्छ शीघ्रं हयश्चायं नीयतां सगरान्तिकम् ।
अधिक्षिप्तोऽस्य यज्ञोऽपि प्रागतः संप्रवर्त्तताम् ॥ २,५४.३७ ॥

व्रियतां च वरो मत्तस्त्वया यस्ते मनोगतः ।
दास्ये सुदुर्लभमपि त्वद्भक्तिपरितोषितः ॥ २,५४.३८ ॥

एषां तु संप्रमाशं हि गत्वा वद पितामहम् ।
पापानां मरणं त्वेषां न च शोचितुमर्हसि ॥ २,५४.३९ ॥

ततः प्रणाम्य चोगीन्द्रमंशुमानिदमब्रवीत् ।
वरं ददासि चेन्मह्यं वरये त्वां महामुने ॥ २,५४.४० ॥

वरमर्हामि चेत्त्वत्तः प्रसन्नो दातुमर्हसि ।
त्वद्रोषपावकप्लुष्टाः पितरो ये ममाखिलाः ॥ २,५४.४१ ॥

संप्रयास्यन्ति ते ब्रह्मन्निरयं शास्वतीः समाः ।
ब्रह्मदण्डहतानां तु न हि पिण्डोदकक्रियाः ॥ २,५४.४२ ॥

पिण्डोदकविहीनानामिह लोके महामुने ।
विद्यते पितृसालोक्यं न खलु श्रुतिचोदितम् ॥ २,५४.४३ ॥

अक्षयः स्वर्गवासोऽस्तु तेषां तु त्वत्प्रसादतः ।
वरेणानेन भगवन्कृतकृत्यो भावाम्यहम् ॥ २,५४.४४ ॥

तत्प्रसीद त्वमेवैषां स्वर्गतेर्वद कारणम् ।
येनोद्धारणमेतेषां वह्नेः कोपस्य वै भवेत् ॥ २,५४.४५ ॥

ततस्तमाह योगीन्द्रःसुप्रसन्नेन चेतसा ।
निरयोद्धारणं तेषां त्वया वत्स न शक्यते ॥ २,५४.४६ ॥

तैश्चापि नरके तावद्वस्तव्यं पापकर्मभिः ।
कालः प्रतीक्ष्यतां तावद्यावत्त्वत्पौत्रसंभवः ॥ २,५४.४७ ॥

कालान्ते भविता वत्स पौत्रस्तव महामतिः ।
राजा भगीरथो नाम सर्वधर्मार्थतत्त्ववित् ॥ २,५४.४८ ॥

स तु यत्नेन महता पितृगौरवयन्त्रितः ।
आनेष्यति दिवो गङ्गां तपस्तप्त्वा महाद्ध्रुवम् ॥ २,५४.४९ ॥

तदंभसा पावितेषु तेषां गात्रास्थिभस्मसु ।
प्राप्नुवन्ति गतिं स्वर्गे भवतः पितरोऽखिलाः ॥ २,५४.५० ॥

तथेति तस्या माहात्म्यं गङ्गाया नृपनन्दन ।
भागीरथीति लोकेऽस्मिन्सा विख्यातिमुपैष्यति ॥ २,५४.५१ ॥

यत्तोयप्लावितेष्वस्थिभस्मलोमनखेष्वपि ।
निरयादपि संयाति देही स्वर्लोकमक्षयम् ॥ २,५४.५२ ॥

तस्मात्त्वं गच्छ भद्रं ते नशोकं कर्त्तुमर्हसि ।
पितामहाय चैवैनमश्वं संप्रतिपादय ॥ २,५४.५३ ॥

जैमिनिरुवाच
ततः प्रणम्य तं भक्त्या तथेत्युक्त्वा महामतिः ।
ययौ तेनाभ्यनुज्ञातः साकेतनगरं प्रति ॥ २,५४.५४ ॥

सगरं स समासाद्य तं प्रणम्य यथाक्रमम् ।
न्यवेदयच्च वृत्तान्तं मुनेस्तेषां तथान्मनः ॥ २,५४.५५ ॥

प्रददौतुरगं चापि समानीतं प्रयत्नतः ।
अतः परमनुष्ठेयमब्रवीत्किं मयेति च ॥ २,५४.५६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे कपिलाश्रमस्थाश्वानयनं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४॥