ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः १९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः १८ ब्रह्माण्डपुराणम्
अध्यायः १९
[[लेखकः :|]]
मध्यभागः, अध्यायः २० →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


शंयुरुवाच
किं स्विद्दत्तं पितॄणां तु तृप्तिदं वदतां वर ।
किंस्वित्स्याच्चिररात्राय किं वानन्त्याय कल्पते ॥ २,१९.१ ॥
बृहस्पतिरुवाच
हवीषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः ।
तानि मे शृणु सर्वाणि फलं चैषां यथातथम् ॥ २,१९.२ ॥
तिलैर्व्रीहियवैमाषैरद्भिर्मूलफलैस्तथा ।
दत्तेन मासं प्रीयन्ते श्राद्धेन हि पितामहाः ॥ २,१९.३ ॥
मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु ।
शाशेन चतुरो मासान्पञ्च प्रीणाति शाकुनैः ॥ २,१९.४ ॥
वाराहेण तु षण्मासाञ्छागलं सप्तमासिकम् ।
अष्टमासिकमित्युक्तं यच्च पार्वतकं भवेत् ॥ २,१९.५ ॥
रौरवेण तु प्रीयन्ते नव मासान्पितामहाः ।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥ २,१९.६ ॥
औरभ्रेण च मांसेन मासानेकादशैव तु ।
श्राद्धे च तृप्तिदं गव्यं पयः संवत्सरं द्विजाः ॥ २,१९.७ ॥
आनन्त्याय भवेत्तद्वत्खड्गमांसं पितृक्षये ।
पायसं मधुसर्पिर्भ्यां छायायां कुञ्जरस्य च ॥ २,१९.८ ॥
कृष्णच्छागस्य मासेन तृप्तिर्भवति शाश्वती ।
अत्र गाथाः पितृगीताः कीर्तयन्ति पुराविदः ॥ २,१९.९ ॥
तास्तेऽहं कीर्त्तयिष्यामि यथावत्सन्निबोध मे ।
अपि नः स कुले यायाद्यो नो दद्यात्त्रयोदशीम् ॥ २,१९.१० ॥
आजेन सर्वलोहेन वर्षासु च मघासु च ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
गौरीं वाप्युद्वहेद्भार्यां नालं वा वृषमुत्सृजेत् ॥ २,१९.११ ॥
शंयुरुवाच
गयादीनां फलं तात ब्रूहि मे परिपृच्छतः ।
दातॄणां चैव यत्पुण्यं निखिलेन प्रवीहि मे ॥ २,१९.१२ ॥
बृहस्पतिरुवाच
गयायामक्षयं श्राद्धञ्जपहोमतपांसि च ।
पितृक्षये हि तत्पुत्र तस्मात्तत्राक्षयं स्मृतम् ॥ २,१९.१३ ॥
पूर्णायामेकविंशं तु गौर्यामुत्पादितः सुतः ।
महामहांश्च जुहुयादिति तस्य फलं स्मृतम् ।
फलं वृषस्य वक्ष्यामि गदतो मे निबोधत ॥ २,१९.१४ ॥
वृषोत्स्रष्टा पुनात्येव दशातीतान्दशावरान् ॥ २,१९.१५ ॥
यत्किञ्चित्स्पृशते तोयमवतीर्णो नदीजले ।
वृषोत्सर्ग्गत्पितॄणां तु ह्यक्षयं समुदाहृतम् ॥ २,१९.१६ ॥
येनयेन स्पृशेत्तोयं लाङ्गूलादिभिरङ्गशः ।
सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः ॥ २,१९.१७ ॥
शृङ्गैः खुरैर्वा भूमिं यामुल्लिखत्यनिशं वृषः ।
मधुकुल्याः पितॄंस्तस्य ह्यक्षयाश्च भवन्ति वै ॥ २,१९.१८ ॥
सहस्रनल्वमात्रेण तडागेन यथास्रुतिः ।
तृप्तिस्तु या पितॄणां वै सा वृषेणेह कल्पते ॥ २,१९.१९ ॥
यो ददाति गुडोन्मिश्रतिलानि श्राद्धकर्मणि ।
मधु वामधुमिश्रं वा सर्वमेवाक्षयं भवेत् ॥ २,१९.२० ॥
न ब्राह्मणं परिक्षेत सदा देयं हि मानवैः ।
दैवेकर्मणि पित्र्ये च श्रूयते वै परीक्षणम् ॥ २,१९.२१ ॥
सर्ववेदव्रतस्नाताः पङ्क्तीनां पावना द्विजाः ।
ये च भाषाविदः केचिद्ये च व्याकरणे रताः ॥ २,१९.२२ ॥
अधीयते पुराणं वै धर्मशास्त्रमथापि च ।
त्रिणाचिकेतः पञ्चाग्निः स सौपर्णः षडङ्गवित् ॥ २,१९.२३ ॥
ब्रह्मदेवसुतश्चैव च्छन्दोगो ज्येष्ठसामगः ।
पुण्येषु यश्च तीर्थेषु कृतस्नानः कृतव्रतः ॥ २,१९.२४ ॥
मखेषु ये च सर्वेषु भवन्त्यवभृथाप्लुताः ।
ये च सत्यव्रता नित्यं स्वधर्मनिरताश्च ये ॥ २,१९.२५ ॥
अक्रोधना लोभपरास्ताञ्छ्राद्धेषु निमन्त्रयेत् ।
एतेभ्यो दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ॥ २,१९.२६ ॥
श्राद्धीया ब्रह्मणा ये तु योगव्रतसुनिष्ठिताः ।
त्रयोऽपि पूजितास्तेन ब्रह्मविष्णुमहेश्वराः ॥ २,१९.२७ ॥
पितृभिः सह लोकाश्च यो ह्येतान्पूजयेन्नरः ।
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ॥ २,१९.२८ ॥
प्रथमः सर्वधर्माणां योगधर्मो निगद्यते ।
अपाङ्क्तेयान्प्रवक्ष्यमि गदतो मे निबोधत ॥ २,१९.२९ ॥
कितवो मद्यपो यश्च पशुपालो निराकृतः ।
ग्रामप्रेष्यो वार्धुषिको ह्यापणो वणिजस्तथा ॥ २,१९.३० ॥
अगार दाही गरदो वृषलो ग्रामयाजकः ।
काण्डपृष्ठोऽथ कुण्डाशी मधुपः सोमविक्रयी ॥ २,१९.३१ ॥
समुद्रान्तरितो भृत्यः पिशुनः कूटसाक्षिकः ।
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे ॥ २,१९.३२ ॥
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ।
स्तवकः सूपकारश्च यश्च मित्राणि निन्दति ॥ २,१९.३३ ॥
काणश्च खञ्जकश्चैव नास्तिको वेदवर्जितः ।
उन्मत्तोऽप्यथ षण्ढश्च भ्रूणहा गुरुतल्पगः ॥ २,१९.३४ ॥
भिषग्जीवी प्राशनिकः परस्त्रीं यश्च सेवते ।
विक्रीणाति च यो ब्रह्मव्रतानि नियमांस्तथा ॥ २,१९.३५ ॥
नष्टं स्यान्नास्तिके दत्तं व्रतघ्ने चापवर्जितम् ।
यच्चवाणिजके दत्तं नेह नामुत्र संभवेत् ॥ २,१९.३६ ॥
निक्षेपहारके चैव कृतघ्ने विदवर्जिते ।
तथा पाणविके वै च कारुके धर्मवर्जिते ॥ २,१९.३७ ॥
क्रीणाति यो ह्यपण्यानि विक्रीणाति प्रशंसति ।
अन्यत्रास्य समाधानं न वणिकूछ्राद्धमर्हति ॥ २,१९.३८ ॥
भस्मनीव हुतं हव्यं दत्तं पौनर्भवे द्विजः ।
षष्टिं काणः शतं षण्ढः श्वित्री पञ्चशतान्यपि ॥ २,१९.३९ ॥
पापरोगी सहस्रं वै दातुर्नाशयते फलम् ।
भ्रश्येद्धि स फलात्तस्मात्प्रदाता यस्तु बालिशः ॥ २,१९.४० ॥
यद्विष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश्च यद्भुङ्क्ते यच्च दत्तमसत्कृतम् ॥ २,१९.४१ ॥
सर्वं तदसुरेद्राय ब्रह्मा भागमकल्पयत् ।
श्वा चैव ब्रह्महा चैव नावेक्षेत कथञ्चन ॥ २,१९.४२ ॥
तस्मात्परिवृतैर्दद्यात्तिलैश्चान्नं विकीर्य च ।
राक्षसानां तिलाः प्रोक्ताः शुनां परिवृतास्तथा ॥ २,१९.४३ ॥
दर्शनात्सूकरो हन्ति पक्षवातेन कुक्कुटः ।
रजस्वलायाः स्पर्शेन क्रुद्धोयश्च प्रयच्छति ॥ २,१९.४४ ॥
नदीतीरेषु रम्येषु सरित्सु च सरस्सु च ।
विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः ॥ २,१९.४५ ॥
नासव्यंपातयेज्जानु न युक्तो वाचमीरयेत् ।
तस्मात्परिवृतेनेह विधिवद्दर्भपाणिना ॥ २,१९.४६ ॥
पित्रोराराधनं कार्यमेवं प्रीणयते पितॄन् ।
अनुमान्य द्विजान्पूर्वमर्गौं कुर्याद्यथाविधि ॥ २,१९.४७ ॥
पितॄणां निर्वपेद्भूमौ सूर्ये वा दर्भसंस्तरे ।
शुक्लपक्षे च पूर्वाङ्णे श्राद्धं कुर्याद्यथाविधि ॥ २,१९.४८ ॥
कृष्णपक्षेऽपरङ्णे तु रौहिणं वै न लङ्घयेत् ।
एवमेते महात्मानो महायोगा महौजसः ॥ २,१९.४९ ॥
सदा वै पितरः पूज्याः सं प्राप्तौ देशकालयोः ।
पितृभक्त्यैव तु नरो योगं प्राप्नोति दुर्ल्लभम् ॥ २,१९.५० ॥
ध्यानेन मोक्षं गच्छेद्धि हित्वा कर्म शुभाशुभम् ।
यज्ञहेतोस्तदुद्धृत्य मोहयित्वा जगत्तथा ॥ २,१९.५१ ॥
गुहायां निहितं ब्रह्म कश्यपेन महात्मना ।
अमृतं गुह्यमुद्धृत्य योगे योगविदां वराः ॥ २,१९.५२ ॥
प्रोक्तः सनत्कुमारेण महातो ब्रह्मणः पदम् ।
देवानां परमं गुह्यमृषीणां च परायणम् ॥ २,१९.५३ ॥
पितृभक्त्या प्रयत्नेन प्राप्य ते तन्मनीषिभिः ।
पितृभक्तः समासेन पितृपूर्वपरश्च यः ॥ २,१९.५४ ॥
अयत्नात्प्राप्नुयादेव सर्वमेतन्न संशयः ॥ २,१९.५५ ॥
बृहस्पतिरुवाच
यस्मैश्राद्धानि देयानि यच्च दत्तं महत्फलम् ।
येषु चाप्यक्षयं श्राद्धं तीर्थेषु च गुहासु च ॥ २,१९.५६ ॥
येषु स्वर्गमवाप्नोति तत्ते प्रोक्तं ससंग्रहम् ।
श्रुत्वेमं श्राद्धकल्पं च न कुर्याद्यस्तु मानवः ॥ २,१९.५७ ॥
स मज्जेन्नरके घोरे नास्तिकस्तमसावृते ।
परिवादो न कर्त्तव्यो योगिनां तु विशेषतः ॥ २,१९.५८ ॥
परिवादात्क्रिमिर्भूत्वा तत्रैव परिवर्त्तते ।
योगान्परिवदेद्यस्तु ध्यानिनो मोक्षकाङ्क्षिणः ॥ २,१९.५९ ॥
स गच्छेन्नरकं घोरं श्रोताप्यस्य न संशयः ।
आवृतं तमसः सर्वं नरकं घोरदर्शनम् ।
योगीश्वरपरीवादान्न स्वर्गं याति मानवः ॥ २,१९.६० ॥
योगेश्वराणामा क्रोशं शृणुयाद्यो यतात्मनाम् ।
सहि कालं चिरं मज्जेन्नरके नात्र संशयः ।
कुंभीपाकेषु पच्यन्ते जिह्वाच्छेदे पुनः पुनः ॥ २,१९.६१ ॥
समुद्रे च यथा लोषटस्तद्बत्सीदन्ति ते नराः ।
मनसा कर्मणा वाचा द्वेषं योगेषु वर्जयेत् ।
प्रोत्यानन्तं फलं भुङ्क्त इह वापि न संशयः ॥ २,१९.६२ ॥
न पारगो विन्दति परमात्मनस्त्रिलोकमध्ये चरति स्वकर्ममिः ।
ऋचो यजुः साम तदङ्गपारगेऽविकारमेतं ह्यनवाप्य सीदति ॥ २,१९.६३ ॥
विकारपारं प्रकृतेश्च पारगस्त्रयीगुणाना त्रिगुणस्य पारगः ।
यः स्याच्चतुर्विशतितत्त्वपारगः स पारगो नाध्ययनस्य पारगः ॥ २,१९.६४ ॥
कृत्स्नं यथावत्समुपैति तत्परस्तथैव भूयः प्रलयत्वमात्मनः ।
प्रत्याहरेद्योगपथं न यो द्विजो न सर्वपार क्रमपारगोचरः ॥ २,१९.६५ ॥
वेदस्य वेदितव्यं च वेद्यं विन्दति योगवित् ।
तं वै वेदविदः प्राहुस्तमाहुर्वेदपारगम् ॥ २,१९.६६ ॥
वेदं च वेदितव्यं च विदित्वा वै यथास्थितः ।
एवं वेदविदः प्राहुरन्यं वै वेदपारगम् ॥ २,१९.६७ ॥
यज्ञान्वेदांस्तथा कामांस्तपांसि विविधानि च ।
प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो न सशयः ॥ २,१९.६८ ॥
श्रद्धया श्राद्धकल्पं तु यस्त्विमं नियतः पठेत् ।
सर्वाण्येतानि वाप्नोति तीर्थदानफलानि च ॥ २,१९.६९ ॥
स पङ्क्तिपावनश्चैव द्विजानामग्रभुग्भवेत् ।
आश्राव्य च द्विजान्सोऽथ सर्वकामानवाप्नुयात् ॥ २,१९.७० ॥
यश्चैतच्छृणुयान्नित्यम न्यांश्च श्रावयेद्द्विजः ।
अनसूयुर्जितक्रोधो लोभमोहविवर्जितः ॥ २,१९.७१ ॥
तीर्थादीनां फलं प्राप्य दानादीनां च सर्वशः ।
मोक्षोपायं लभेच्छ्रेष्ठं स्वर्गोपायं न संशयः ।
इह चापि परा पुष्ठिस्तस्मात्कुर्वीत नित्यशः ॥ २,१९.७२ ॥
इमं विधिं यो हि पठेदतन्द्रितः समाहितः संसदि पर्वसंधिषु ।
अपत्यभागी च परेण तेजसा दिवौकसां स व्रजते सलोकताम् ॥ २,१९.७३ ॥
येन प्रोक्तस्त्वयं कल्पो नमस्तस्मै स्वयंभुवे ।
महायोगेश्वरेभ्यश्च सदा च प्रणतोऽस्म्यहम् ॥ २,१९.७४ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
श्राद्धकल्पे ब्रह्मणपरीक्षा नाम एकोनविंशोऽध्यायः ॥ १९॥