ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ४८

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ४७ ब्रह्माण्डपुराणम्
अध्यायः ४८
[[लेखकः :|]]
मध्यभागः, अध्यायः ४९ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

जैमिनिरुवाच
गते तस्मिन्मुनिवरे सगरो राजसत्तमः ।
अयोध्यायामधिवस्न्पालयामास मेदिनीम् ॥ २,४८.१ ॥

सर्वसंपद्गणोपेतः सर्वधर्मार्थतत्त्ववित् ।
वयसैव स बालोऽभूत्कर्मणा वृद्धसंमतः ॥ २,४८.२ ॥

तथापि न दिवा भुक्तें शेते वा निशि संस्मरन् ।
सुदीर्घं निःश्वसित्युष्णमुद्विग्नहृदयोऽनिशम् ॥ २,४८.३ ॥

श्रुत्वा राजा स्वराज्यं निजगुरुमवजित्यारिभिः संगृहीतं मात्रा सार्द्धं प्रयान्तं वनमतिगहनंस्वर्गतं तं च तस्मिन् ।
शोकाविष्टः सरोषं सकलरिपुकुलोच्छित्तये सत्प्रतिज्ञश्चके सद्यः प्रतिज्ञां परिभवमनलं सोढुमिक्ष्वाकुवंश्यः ॥ २,४८.४ ॥

स कदाचिन्महीपालः कृतकौतुकमङ्गलः ।
रिपुं जेतुं मनश्चक्रे दिशश्च सकलाः क्रमात् ॥ २,४८.५ ॥

अनेकरथसाहस्रैर्गजाश्वरथसैनिकैः ।
सर्वतः संवृतो राजा निश्चक्राम पुरोत्तमात् ॥ २,४८.६ ॥

शत्रून्हन्तुं प्रतस्थे निजबलनिवहेनोत्पतद्भिस्तुरङ्गैर्नासत्त्वोर्मिजालाकुलजलनिधिनिभेनाथ षाडङ्गिकेन ।
मत्तैर्मातङ्गयूथैः सकुलगिरिकुलेनैव भूमण्डलेन श्वेतच्छत्रध्वजौघैरपि शशिसुकराभातखेनैव सार्द्धम् ॥ २,४८.७ ॥

तस्याग्रेसरसैन्ययूथचरणप्रक्षुण्णशैलोच्चयक्षोदापूरितनिम्नभागमवनीपालस्य संयास्यतः ।
प्रत्येकं चतुरङ्गसैन्यनिकरप्रक्षोदसंभूतभूरेणुप्रावृतिरुत्स्थली समभवद्भूमिस्तु तत्रानिशम् ॥ २,४८.८ ॥

निघ्नन्दृप्ताननेकान्द्विपतुरगरथव्यूहसंभिन्नवीरान्सद्यः शोभां दधानोऽसुरनिकरचमूर्निघ्नतश्चन्द्रमौलिः ।
दूरादेवाभिशंसन्नरिनगरनिरोधेषु कर्माभिषङ्गे तेषां शीघ्रापयानक्षणमभिदिशति प्राणिधैर्यं विधत्ते ॥ २,४८.९ ॥

विजिगीषुर्दिशो राजा राज्ञो यस्याभियास्यति ॥ २,४८.१० ॥

विषयं स नृपस्तस्य सद्यः प्रणतिमेष्यति ।
विजित्य नृपतीन्सर्वान्कृत्वा च स्वपदानुगान् ॥ २,४८.११ ॥

संकेत गामिनः कांश्चित्कृत्वा राज्ये न्यवर्त्तत ।
एवं स विसरन्दिक्षु दक्षिणाभिमुखो नृपः ॥ २,४८.१२ ॥

स्मरन्पूर्वकृतं वैरं हैहयानभ्यवर्त्तत ।
ततस्तस्य नृपैः सार्द्धं समग्ररथकुञ्जरैः ॥ २,४८.१३ ॥

बभूव हैहयैर्वीरैः संग्रामो रोमहर्षणः ।
राज्ञां यत्र सहस्राणि स बलानि महाहवे ॥ २,४८.१४ ॥

निजघान महाबाहुः संक्रुद्धः कोसलेश्वरः ।
जित्वा हैहयभूपालान्भङ्क्त्वा दग्ध्वा च तत्पुरीम् ॥ २,४८.१५ ॥

निःशेषशून्या मकरोद्वैरान्तकरणो नृपः ।
समग्रबलसंमर्द्दप्रमृष्टाशेषभूतलः ॥ २,४८.१६ ॥

हैहयानामशेषं तु चक्रे राज्यं रजःसमम् ।
राज्यं पुरीं चापहाय भ्रष्टैश्वर्या हतत्विषः ॥ २,४८.१७ ॥

राजानो हतभूयिष्ठा व्यद्रवन्त समन्ततः ।
अभिद्रुत्य नृपांस्तांस्तु द्रवमाणान्महीपतिः ॥ २,४८.१८ ॥

जघान सानुगान्मत्तः प्रजाः क्रुद्ध इवान्तकः ।
ततस्तान्प्रति सक्रोधः सगरः समरेऽरिहा ॥ २,४८.१९ ॥

मुमोचास्त्रं महारौद्रं भार्गवं रीपुभीषणम् ।
तेनोत्सृष्टातिरौद्रत्रिभुवनभयदप्रस्फुरद्भार्गवास्त्रज्वालादन्दह्यमानावशतनुततयस्ते नृपाः साद्य एव ।
वाय्वस्त्रावृत्तधूमोद्गमपटलतमोमुष्टदृष्टिप्रसारा भ्रेमुर्भूपृष्टलोठद्बहुलतमरजोगूढमात्रा मुहूर्त्तम् ॥ २,४८.२० ॥

आगनेयास्त्रप्रतापप्रतिहतगतयोऽदृष्टमार्गाः समन्ता द्भूपाला नष्टसंघाः परवशतनवो व्याकुलीभूतचित्ताः ।
भीताः संत्युक्तवस्त्रायुधकवचविभूषादिका मुक्तकेशा विस्पष्टोन्मत्तभावान्भृश तरमनुकुर्वन्त्यग्रतः शात्रवाणाम् ॥ २,४८.२१ ॥

विजित्य हैहयान्सर्वान्समरे सगरो बली ।
संक्षुब्धसागराकारः कांबोजानभ्यवर्त्तत ॥ २,४८.२२ ॥

नानावादित्रघोषाहतपटहरवाकर्णनध्वस्तधैर्याः सद्यः संत्यक्तराज्यस्वबलपुरपुरन्ध्रीसमूहा विमूढाः ।
कांबोजास्तालजङ्घाः शकयवनकिरातादयः साकमेते भ्रेमुर्भूर्यस्त्रभीत्या दिशि दिशि रिपवो यस्य पूर्वापराधाः ॥ २,४८.२३ ॥

भीतास्तस्य नरेश्वरस्य रिपवः केचित्प्रता पानलज्वालामुष्टदृशो विसृज्य वसतिं राज्यं च पुत्रादिभिः ।
द्विट्सैन्यैः समभिद्रुता वनभुवं संप्राप्य तत्रापि तेऽस्तैमित्यं समुपागता गिरिगुहासुप्तोत्थितेन द्विषः ॥ २,४८.२४ ॥

तालजङ्घान्निहत्याजौ राजा स बलवाहनान् ।
क्रमेण नाशयामास तद्राज्यमरिकर्षणः ॥ २,४८.२५ ॥

ततो यवनकांबोजकिरातादीननेकशः ।
निजघान रुषाविष्टः पल्हवान्पारदानपि ॥ २,४८.२६ ॥

हन्यमानास्तु ते सर्वे राजानस्तेन संयुगे ।
दुद्रुवुः संघशो भीता हतशिष्टाः समन्ततः ॥ २,४८.२७ ॥

युष्माभिर्यस्य राज्यं बहुभिरपत्दृतं तस्य पुत्रोऽधुनाहं हन्तुं वः सप्रतिज्ञं प्रसभमुपगतो वैरनिर्यातनैषी ।
इत्युच्चैः श्रावयाणो युधि निजचरितं वैरिभिर्नागवीर्यः क्षत्रैर्विध्वंसितेजाः सगरनरपतिः स्मारयामास भूपः ॥ २,४८.२८ ॥

तं दृष्ट्वा राजवर्यं सकलरिपुकुलप्रक्षयोपात्तदीक्षं भीताः स्त्रीबालपूर्वं शरणमभिययुः स्वासुसरक्षणाय ।
इक्ष्वाकूणां वसिष्ठं कुलगुरुमभितः सप्त राज्ञां कलेषु प्रख्याताः संप्रसूता नृपवररिपवः पारदाः पल्हवाद्याः ॥ २,४८.२९ ॥

वसिष्ठमाश्रमोपान्ते वसंतमृषिभिर्वृतम् ।
उपगम्याब्रुवन्सर्वे कृताञ्जलिपुटा नृपाः ॥ २,४८.३० ॥

शरणं भंव नो ब्रह्मन्नार्त्तानामभयैषिणाम् ।
सगरास्त्राग्निनिर्दग्धशरीराणां मुमूर्षताम् ॥ २,४८.३१ ॥

स हन्त्यसमानशेषेण वैरान्तकरणोन्मुखः ।
तस्माद्भयाद्धि निष्क्रान्ता वयं जीवितकाङ्क्षिणः ॥ २,४८.३२ ॥

विभिन्नराज्यभोगर्द्धिस्वदारापत्यबान्धवाः ।
केवलं प्राणरक्षार्थं त्वां त्वयं शरणं गतः ॥ २,४८.३३ ॥

न ह्यन्योऽस्ति पुमांल्लोके सौहृदेन बलेन वा ।
यस्तं निवर्त्तयित्वास्मान्पालयेन्महतो भयात् ॥ २,४८.३४ ॥

त्वं किलार्कान्वयभुवां राज्ञां कुलगुरुर्वृतः ।
तद्वंशपूर्वजैर्भूपैस्त्वतप्रभावश्च तादृशः ॥ २,४८.३५ ॥

तेनायं सगरोऽप्यद्य गुरुगौरवयन्त्रितः ।
भवन्निदेशं नात्येति वेलामिव महोदधिः ॥ २,४८.३६ ॥

त्वं नः सुहृत्पिता माता लोकानां च गुरुर्विभो ।
तस्मादस्मान्महाभाग परित्रातुं त्वमर्हसि ॥ २,४८.३७ ॥

जैमिनिरुवाच
इति तेषां वचः श्रुत्वा वसिष्ठो भगवानृषिः ।
शनैर्विलोकयामास शरणं समुपागतान् ॥ २,४८.३८ ॥

वृद्धस्त्रीबालभूयिष्ठान्हतशेषान्नृपान्वयान् ।
दृष्ट्वा त्वतप्यद्भगवान्सर्वभूतानुकंपकः ॥ २,४८.३९ ॥

चिरं निरूप्य मनसा तान्विलोक्य च सादरम् ।
उज्जीवयञ्छनैर्वाचा मा भैष्टेति महामतिः ॥ २,४८.४० ॥

अथावोचन्महाभागः कृपया परयान्वितः ।
समये स्थापयामास राज्ञस्ताञ्जीवितार्थिनः ॥ २,४८.४१ ॥

भूपव्या कोपदग्धं नृपकुलविहिताशेषधर्मादपेतं कृत्वा तेषां वसिष्ठः समयमवनिपालप्रतिज्ञानिवृत्त्यै ।
गत्वा तं राजवर्यं स्वयमथ शनकैः सांत्वयित्वा यथावत्सप्राणानामरीणामपगमनविधावभ्यनुज्ञां ययाचे ॥ २,४८.४२ ॥

सक्रोधोऽपि महीपतिर्गुरुवचः संभावयंस्तानरीन्धर्मस्य स्वकुलोचितस्य च तथा वेषस्य संत्यागतः ।
श्रौतस्मार्त्तविभिन्नकर्मनिरतान्विप्रैश्च दूरोञ्झितान्सासून्केवलमत्यजन्मृतसमानेकैकशः पार्थिवान् ॥ २,४८.४३ ॥

अर्द्धमुण्डाञ्छकांश्चक्रे पल्हवान् श्मश्रुधारिणः ।
यवनान्विगतश्मश्रून्कांबोजांश्चबुकान्वितान् ॥ २,४८.४४ ॥

एवं विरूपानन्यांश्च स चकार नृपान्वयान् ।
वेदोक्तकर्मनिर्मुक्तान्विप्रैश्च परिवर्जितान् ॥ २,४८.४५ ॥

कृत्वा संस्थाप्य समये जीवतस्तान्व्य सर्जयत् ।
ततस्ते रिपवस्तस्य त्यक्तस्वाचारलक्षणाः ॥ २,४८.४६ ॥

व्रात्यतां समनुप्राप्ताः सर्ववर्णविनिन्तिताः ।
धिक्कृता सततं सर्वेनृशंसा निरपत्रपाः ॥ २,४८.४७ ॥

क्रूराश्च संघशो लोके बभूवुर्म्लेछजातयः ॥ २,४८.४८ ॥

मुक्तास्तेनाथ राज्ञा शकयवनकिरातादयः सद्य एव त्यक्तस्वाचारवेषा गिरिगहनगुहाद्याशयाः संबभूवुः ।
एता अद्यापि सद्भिः सततमवमता जातयोऽसत्प्रवृत्त्या वर्त्तन्ते दुष्टचेष्टा जगति नरपतेः पालयन्तः प्रतिज्ञाम् ॥ २,४८.४९ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरोपाख्याने सगरप्रतिज्ञापालनं नामाष्टाचत्वारिंशत्तमोऽध्यायः ॥ ४८॥