ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ५६

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ५५ ब्रह्माण्डपुराणम्
अध्यायः ५६
[[लेखकः :|]]
मध्यभागः, अध्यायः ५७ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


जैमिनिरुवाच
एतत्ते चरितं सर्वं सगरस्य महात्मनः ।
संक्षेपविस्तराभ्यां तु कथितं पापनाशनम् ॥ २,५६.१ ॥

खण्डोंऽयं भारतो नाम दक्षिणोत्तरमायतः ।
नवयोजनसाहस्रं विस्तारपरिमण्डलम् ॥ २,५६.२ ॥

पुत्रैस्तस्य नरेद्रस्य मृगयद्भिस्तुरङ्गमम् ।
योजनानां सहस्रं तु खात्वाष्टौ विनिपातिताः ॥ २,५६.३ ॥

सागरस्य सुतैर्यस्माद्वर्द्धितो मकरालयः ।
ततः प्रभृति लोकेषु सागराख्यामवाप्तवान् ॥ २,५६.४ ॥

ब्रह्मपादावधि महीं सतीर्थक्षेत्रकाननाम् ।
अब्धिः संक्रमयामास परिक्षिप्य निजांभसा ॥ २,५६.५ ॥

ततस्तन्निलयाः सर्वे सदेवासुरमानवाः ।
इतस्ततश्च संजाता दुःखेन महतान्विताः ॥ २,५६.६ ॥

गोकर्णं नाम विख्यातं क्षेत्रं सर्वसुरार्चितम् ।
सार्द्धयोजनविस्तारं तीरे पश्चिम वारिधेः ॥ २,५६.७ ॥

तत्रासंख्यानि तीर्थानि मुनिदेवालयाश्च वै ।
वसंति सिद्धसंघाश्च क्षेत्रे तस्मिन्पुरा नृप ॥ २,५६.८ ॥

क्षेत्रं तल्लोकविख्यातं सर्वपापहरं शुभम् ।
तत्तीर्थमब्धेरपतद्भागे दक्षिणपश्चिमे ॥ २,५६.९ ॥

यत्र सर्वे तपस्तप्त्वा मुनयः संशितव्रताः ।
निर्वाणं परमं प्राप्ताः पुनरावृत्तिवर्जितम् ॥ २,५६.१० ॥

तत्त्रेत्रस्य प्रभावेण प्रीत्या भूतगणैः सह ।
देव्या च सकलैर्देवैर्नित्यं वसति शङ्करः ॥ २,५६.११ ॥

एनांसि यत्समुद्दिश्य तीर्थयात्रां प्रकुर्वताम् ।
नृणामाशु प्रणश्यन्ति प्रवाते शुष्कपर्णवत् ॥ २,५६.१२ ॥

तत्क्षेत्रसेवनरतिर्नैव जात्वभिजायते ।
समीपे वसमानोनामपि पुंसां दुरात्मनाम् ॥ २,५६.१३ ॥

महाता सुकृतेनैव तत्क्षेत्रगमने रतिः ।
नृणां संजायते राजन्नान्यथा तु कथञ्चन ॥ २,५६.१४ ॥

निर्बन्धेन तु ये तस्मिन्प्राणिनः स्थिरजङ्गमाः ।
म्रियन्ते नृप सद्यस्ते स्वर्गं प्राप्स्यन्ति शाश्वतम् ॥ २,५६.१५ ॥

स्मृत्यापि सकलैः पापैर्यस्य मुच्येत मानवः ।
क्षेत्राणामुत्तमं क्षेत्रं सर्वतीर्थनिकेतनम् ॥ २,५६.१६ ॥

स्नात्वा चैतेषु तीर्थेषु यजन्तश्च सदाशिवम् ।
सिद्धिकामा वसंति स्म मुनयस्तत्र केचन ॥ २,५६.१७ ॥

कामक्रोधविनिर्मुक्ता ये तस्मिन्वीतमत्सराः ।
निवसंत्यचिरेणैव तत्सिद्धिंप्राप्नुवन्ति हि ॥ २,५६.१८ ॥

जपहोमरताः शान्ता निपता ब्रह्मचारिणः ।
वसंति तस्मिन्ये ते हि सिद्धिं प्राप्स्यन्त्यभीप्सिताम् ॥ २,५६.१९ ॥

दानहोमजपाद्यं वै पितृदेवद्विजार्चनम् ।
अन्यस्मात्कोटिगुणितं भवेत्तस्मिन्फलं नृप ॥ २,५६.२० ॥

अंभोधिसलिले मग्न तस्मिन् क्षेत्रेऽतिपावने ।
महता तपसा युक्ता मुनयस्तन्निवासिनः ॥ २,५६.२१ ॥

सह्यं शिखरिणं श्रेष्ठं निलयार्थं समारुहन् ।
वसंतस्तत्र ते सर्वे संप्रधार्य परस्परम् ॥ २,५६.२२ ॥

सहेन्द्राद्रौ तपस्यन्तं रामं गन्तुं प्रचक्रमुः ।
राजोवाच ।
अगस्त्यपीततोयेऽब्धौ परितो राजनन्दनैः ॥ २,५६.२३ ॥

खात्वाधः पातिते क्षेत्रे सतीर्थाश्रमकानने ।
भूभागेषु तथान्येषु पुरग्रमाकरादिषु ॥ २,५६.२४ ॥

विनाशितेषु देशेषु समुद्रोपान्तवर्त्तिषु ।
किमकार्षुर्मुनिश्रेष्ठ जनास्तन्निलयास्ततः ॥ २,५६.२५ ॥

तत्रैव चावसन्कृच्छ्रात्प्रस्थितान्यत्र वा ततः ।
कियता चैव कालेन संपूर्णोऽभूदपांनिधिः ।
केन वापि प्रकारेण ब्रह्मन्नेतद्वदस्व मे ॥ २,५६.२६ ॥

जैमिनिरुवाच
अनूपेषु प्रदेशेषु नाशितेषु दुरात्मभिः ॥ २,५६.२७ ॥

जनास्तन्निलयाः सर्वे संप्रयाता इतस्ततः ।
तत्रैव चावसन्कृच्छ्रात्केचित्क्षेत्रनिवासिनः ॥ २,५६.२८ ॥

एतस्मिन्नेव काले तु राजन्नंशुमतः सुतः ।
बभूव भुविधर्मात्मा दिलीप इति विश्रुतः ॥ २,५६.२९ ॥

राज्येऽभिषिच्य तं सम्यग्भुक्तभोगोंऽशुमान्नृपः ।
वनं जगाम मेधावी तपसे धृतमानसः ॥ २,५६.३० ॥

दिलीपस्तु ततःश्रीमानशेषां पृथिवीमिमाम् ।
पालयामास धर्मेण विजित्य सकलानरीन् ॥ २,५६.३१ ॥

भगीरथो नाम सुतस्तस्यासील्लोकविश्रुतः ।
सर्वधर्मार्थकुशलः श्रीमानमितविक्रमः ॥ २,५६.३२ ॥

राज्येऽभिषिच्य तं राजा दिलीपोऽपि वनं ययौ ।
स चापि पालयन्नुर्वीं सम्यग्विहतकण्टकाम् ॥ २,५६.३३ ॥

मुमुदे विविधैर्भोगैर्दिवि देवपतिर्यथा ।
स शुश्रावात्मनः पूर्वं पूर्वजानां महीपतिः ॥ २,५६.३४ ॥

निरये पतनं घोरं विप्रकोपसमुद्भवम् ।
ब्रह्मदण्डहतान्सर्वान्पितञ्छ्रुत्वातिदुःखितः ॥ २,५६.३५ ॥

राज्ये बन्धुषु भोगे वा निर्वेदं परमं ययौ ।
स मन्त्रिप्रवरे राज्यं विन्यस्य तपसे वनम् ॥ २,५६.३६ ॥

प्रययौ स्वपितॄन्नाकं निनीषुर्नृपसत्तमः ।
तपसा महाता पूर्वमायुषे कमलोद्भवम् ॥ २,५६.३७ ॥

आराध्य तस्माल्लेभे च यावदायुर्निजेप्सितम् ।
ततो गङ्गां महाराज समाराध्य प्रसाद्य च ॥ २,५६.३८ ॥

वरमागमनं वव्रे दिवस्तस्या महींप्रति ।
ततस्तां शिरसा धर्त्तु तपसाऽराधयच्छिवम् ॥ २,५६.३९ ॥

स चापि तद्वरं तस्मै प्रददौ भक्तवत्सलः ।
मेरोर्मूर्ध्नस्ततो गङ्गां पतं ती शिरसात्मनः ॥ २,५६.४० ॥

सग्राहनक्रमकरां जग्राह जगतां पतिः ।
सा तच्छिरः समासाद्य महावेगप्रवाहिनी ॥ २,५६.४१ ॥

तज्जटामण्डले शुभ्रे विलिल्ये सातिगह्वरे ।
चुलकोदकवच्छंभोर्विलीनां शिरसि प्रभोः ॥ २,५६.४२ ॥

विलोक्य तत्प्रमोक्षाय पुनराराधयद्धरम् ।
स तां शर्वप्रसादेन लब्ध्वा तु भुवमागताम् ॥ २,५६.४३ ॥

आनिन्ये सागरा दग्धा यत्र तां वै दिशं प्रति ।
सऽनुव्रजन्ती राजानं राजर्षेर्यजतः पथि ॥ २,५६.४४ ॥

तद्यज्ञवाटमखिलं प्लावयामास सर्वतः ।
स तु राजऋषिः क्रुद्धो यज्ञवाटेऽखिले तया ॥ २,५६.४५ ॥

मग्ने गण्डूषजलवत्स पपौ तामशेषतः ।
अतन्द्रितो वर्षशतं शुश्रूषितवा स तं पुनः ॥ २,५६.४६ ॥

तस्मात्प्रसन्नान्नृपतिर्लेमे गङ्गां महात्मनः ।
उषित्वा सुचिरं तस्यनिसृता जठराद्यतः ॥ २,५६.४७ ॥

प्रथितं जाह्नवीत्यस्यास्ततो नामाभवद्भुवि ।
भगीरथानुगा भूत्वा तत्पितॄणामशेषतः ॥ २,५६.४८ ॥

निजांभसास्थिभस्मानि सिषेच सुरनिम्नगा ।
ततस्तदंभसा सिक्तेष्वस्थिभस्मसु तत्क्षणात् ॥ २,५६.४९ ॥

निरयात्सागराः सर्वे नष्टपापा दिवं ययुः ।
एवं सा सागरान्सर्वान्दिवं नीत्वा महान्दी ॥ २,५६.५० ॥

तेनैव मार्गेण जवात्प्रयाता पूर्वसागरम् ।
सेनोर्मूर्ध्नश्चतुर्भेदा भूत्वा याता चतुर्द्दिशम् ॥ २,५६.५१ ॥

चतुर्भेदतया चाभूत्तस्या नाम्नां चतुष्टयम् ।
सीता चालकनन्दा च सुचक्षुर्भद्रवत्यपि ॥ २,५६.५२ ॥

अगस्त्यपीतसलिलाच्चिरं शुष्कोदका अपि ।
गङ्गांभसा पुनः पूर्णाश्चत्वारोऽम्बुधयोऽभवन् ॥ २,५६.५३ ॥

पूर्वमाणे समुद्रे तु सागरैः परिवर्द्धिते ।
अन्तर्हिताभवन्देशा बहवस्तत्समीपगाः ॥ २,५६.५४ ॥

समुद्रोपान्तवर्त्तीनि क्षेत्राणि च समन्ततः ।
इतस्ततः प्रयाताश्च जनास्तन्निलया नृप ॥ २,५६.५५ ॥

गोकर्णमिति च क्षेत्रं पूर्वं प्रोक्तं तु यत्तव ।
अर्मवोपात्तवर्त्तित्वात्समुद्रेऽतर्द्धिमागमत् ॥ २,५६.५६ ॥

ततस्तन्निलयाः सर्वे तदुद्धाराभिकाङ्क्षिणः ।
सह्याद्रेर्भृगुशार्दूलं द्रष्टुकामा ययुर्नृप ॥ २,५६.५७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे गङ्गानयनं नाम षट्पञ्चशत्तमोऽध्यायः