ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ७२

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ७१ ब्रह्माण्डपुराणम्
अध्यायः ७२
[[लेखकः :|]]
मध्यभागः, अध्यायः ७३ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सूत उवाच
मनुष्यप्रकृतीन्देवान्कीर्त्यमानान्निबोधत।
संकर्षणो वासुदेवः प्रद्युम्नः सांब एव च॥२,७२.१॥
अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्त्तिताः।
सप्तर्ष्यः कुबेरश्च यज्ञे मणिवरस्तथा॥२,७२.२॥
शालूकिर्नारदश्चैव विद्वान्धन्वन्तरिश्तथा।
नन्दिनश्च महादेवः सालकायन एव च।
आदिदेव स्तदा विष्णुरेभिश्च सह दैवतैः॥२,७२.३॥
ऋषय ऊचुः
विष्णुः किमर्थं संभूतः स्मृताः संभूतयः कति।
भविष्याः कति चान्ये च प्रादुर्भावा महात्मनः॥२,७२.४॥
ब्रह्मक्षत्रेषु शस्तेषु किमर्थमिह जायते।
पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम्॥२,७२.५॥
विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः॥२,७२.६॥
श्रोतुमिच्छामहे सम्यग्वद कृष्णस्य धीमतः।
कर्मणामानुपूर्वीं च प्रादुर्भावाश्च ये प्रभो॥२,७२.७॥
या वास्य प्रकृतिस्तात तां चास्मान्वक्तुमर्हसि।
कथं स भगवान्विष्णुः सुरेष्वरिनिषूदनः॥२,७२.८॥
वसुदेवकुले धीमान्वासुदेवत्वमागतः।
अमरैरावृतं पुण्यं पुण्यकृद्भिरलङ्कृतम्॥२,७२.९॥
देवलोकं किमुत्सृज्य मर्त्यलोकमिहागतः।
देवमानुषयोर्नेता धातुर्यः प्रसवो हरिः॥२,७२.१०॥
किमर्थं दिव्यमात्मानं मानुष्ये समवेशयत्।
यश्चक्रं वर्त्तयत्येको मनुष्याणां मनोमयम्॥२,७२.११॥
मानुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः।
गोपायन यः कुरुते जगतः सर्वकालिकम्॥२,७२.१२॥
स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः।
महाभूतानि भूतात्मा यो दधार चकार ह॥२,७२.१३॥
श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया वृतः।
येन लोकान्क्रमैर्जित्वा सश्रीकास्त्रिदशाः कृताः॥२,७२.१४॥
स्थापिता जगतो मार्गास्त्रिक्रमं वपुराहृतम्।
ददौ जितां वसुमतीं सुराणां सुरसत्तमः॥२,७२.१५॥
येन सैंहं वपुः कृत्वा द्विधाकृत्वा च तत्पुनः।
पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः॥२,७२.१६॥
यः पुरा ह्यनलो भूत्वा त्वौर्वः संवर्त्तको विभुः।
पातालस्थोर्ऽणवगतः पपौ तोयमयं हविः॥२,७२.१७॥
सहस्रचरणं देवं सहस्रांशुं सहस्रशः।
सहस्रशिरसं देवं यमाहुर्वै युगे युगे॥२,७२.१८॥
नाभ्यरण्यां समुद्भूतं यस्य पैतामहं गृहम्।
एकार्णवगते लोके तत्पङ्कजमपङ्कजम्॥२,७२.१९॥
येन ते निहता दैत्याः संग्रामे तारकामये।
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः॥२,७२.२०॥
महाबलेन वोत्सिक्तः कालनेमिर्निपातितः।
उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः।
यः शेतेशश्वतं योगमाच्छाद्य तिमिरं महत्॥२,७२.२१॥
सुरारणीगर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरायम्।
शक्रं च यो दैत्यगणं च रूद्धं गर्भावमानेन भृशं चकार ह॥२,७२.२२॥
पदानि यो लोकपदानि कृत्वा चकार दैत्यान्सलिलेशयांस्तान्।
कृत्वा च देवांस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव॥२,७२.२३॥
गार्हपत्येन विधिना अन्वाहार्येण कर्मणा॥२,७२.२४॥
अग्निमाहवनीयं च वेदीं चैव कुशं स्रुवम्।
प्रोक्षणीयं श्रुतं चैव आवभृथ्यं तथैव च॥२,७२.२५॥
अथर्षींश्चैव यश्चक्रे हव्यभागप्रदान्मखे।
हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि।
भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि॥२,७२.२६॥
यूपान्समित्स्रुवं सोमं पवित्रं परिधीनपि।
यज्ञियानि च द्रव्याणि यज्ञियांश्च तथानलान्॥२,७२.२७॥
सदस्यान्यजमानांश्च ह्यश्वमेधान्क्रतुत्तमान्।
विचित्रान्राजसूयदीन्पारमेष्ठ्येन कर्मणा॥२,७२.२८॥
उद्गात्रादींश्च यः कृत्वा यज्ञांल्लोकाननुक्रमम्।
क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च॥२,७२.२९॥
मुहूर्त्तास्तिथयो मासा दिनं संवत्सरं तथा।
ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु॥२,७२.३०॥
आयुः क्षेत्राण्यथ बलं क्षणं यद्रूपसौष्ठवम्।
मेधावित्वं च शौर्यं च शास्त्रस्येव च पारणम्॥२,७२.३१॥
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः।
त्रैकाल्यं त्रीणि कर्माणि तिस्रो मात्रा गुणास्त्रयः॥२,७२.३२॥
सृष्टा लोकेश्वराश्चैव येन येन च कर्मणा।
सर्वभूतगणाः सृष्टाः सर्वभूतगणात्मना॥२,७२.३३॥
क्षणं संधाय पूर्वेण योगेन रमते च यः।
गतागतानां यो नेता सर्वत्र विविधेश्वरः॥२,७२.३४॥
यो गतिर्द्धर्मयुक्तानामगतिः पापकर्मणाम्।
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता॥२,७२.३५॥
चातुर्विद्यस्य यो वेत्ता चातुराशम्यसंश्रयः।
दिगन्तरं नभो भूमिरापो वायुर्विभावसुः॥२,७२.३६॥
चन्द्रसूर्यद्वयं ज्योतिर्युगेशाः क्षणदाचराः।
यः परं श्रुयते देवो यः परं श्रूयते तपः॥२,७२.३७॥
यः परं तमसः प्राहुर्यः परं परमात्मवान्।
आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः॥२,७२.३८॥
युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः।
सेतुर्यो लोकसेतूनां मेधो यो मध्यकर्मणाम्॥२,७२.३९॥
वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम्।
सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम्॥२,७२.४०॥
मनुष्याणां मनुर्भूतस्तपोभूतस्तपस्विनाम्।
विनयो नयतृप्तानां तेजस्तेजस्विनामपि॥२,७२.४१॥
विग्रहो विग्रहाणां यो गतिर्गतिमतामपि।
आकाशप्रभवो वायुर्वायुप्राणो हुताशनः॥२,७२.४२॥
देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः।
रसाच्छोणितसंभूतिः शोणितान्मासमुच्यते॥२,७२.४३॥
मांसात्त मेदसो जन्म मेदसोऽस्थि निरुच्यते।
अस्य्नो मज्जा समभवन्मज्जातः शुक्रसंभवः॥२,७२.४४॥
शुक्राद्गर्भः समाभव द्रसमूलेन कर्मणा।
तत्रापां प्रथमावापः स सौम्यो राशिरुच्यते॥२,७२.४५॥
गर्भोऽश्मसंभवो ज्ञेयो द्वितीयो राशिरुच्यते।
शुक्रं सोमात्मकं विद्यादार्त्तवं पावकात्मकम्॥२,७२.४६॥
भावौ रसानुगावेतौ वीर्ये च शशिपावकौ।
कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम्॥२,७२.४७॥
कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम्।
देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम्॥२,७२.४८॥
नाभिश्चोदर संस्था तु तत्र देवो हुताशनः।
मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते॥२,७२.४९॥
पित्तमग्निः स्मृतो ह्येतदग्नीषोमात्मकं जगत्।
एवं प्रवर्त्तिते गर्भे वृत्ते कर्कन्धुसंनिभे॥२,७२.५०॥
वायुः प्रवेशनं चक्रे संगतः परमात्मना।
स पञ्चधा शरीरस्थो विद्यते वर्द्धयेत्पुनः॥२,७२.५१॥
प्राणापानौ समानश्च ह्युदानो व्यान एव च।
प्राणोऽस्य परमात्मानं वर्द्धयन्परिवर्त्तते॥२,७२.५२॥
अपानः पश्चिमं कायमु दानोऽर्द्धं शरीरिणः।
व्यानो व्यानीयते येन समानः सर्वसंधिषु॥२,७२.५३॥
भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरा।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥२,७२.५४॥
सर्वेद्रियनिविष्टास्ते स्वस्वयोगं प्रचक्रिरे।
पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम्॥२,७२.५५॥
छिद्राण्याकाशयोनीनि जलात्स्रावः प्रवर्त्तते।
ज्योतिश्चक्षुषि कोष्ठोऽस्मात्तेषां यन्नामतः स्मृतम्॥२,७२.५६॥
संग्राह्य विषयांश्चैव यस्य वीर्यात्प्रवर्तिताः।
इत्येतान्पुरुषः सर्वान्सृजत्येकः सनातनः॥२,७२.५७॥
नैधनेऽस्मिन्कथं लोके नरत्वं विष्णुरागतः।
एष नः संशयो धीमन्नेष वै विस्मयो महान्॥२,७२.५८॥
कथं गतिर्गतिमतामापन्नो मानुषीं तनुम्।
श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम्॥२,७२.५९॥
आश्चर्यं परमं विष्णुर्वेदैर्देवश्चै कथ्यते।
विष्णोरुत्पत्तिमाश्चय कथयस्व महामते॥२,७२.६०॥
एतदाश्चर्यमाख्यातं कथ्यतां वै सुखावहम्।
प्रख्यातबलवीर्यस्य प्रादुर्भावन्महात्मनः।
कर्मणाश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यते॥२,७२.६१॥
सूत उवाच
अहं वः कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः॥२,७२.६२॥
यथा बभूव भगवान्मानुषेषु महातपाः।
भृगुस्त्रीवधदोषेण भृगुशापेन मानुषे॥२,७२.६३॥
जायते च युगान्तेषु देवकार्यार्थसिद्धये।
तस्य दिव्यां तनुं विष्णोर्गदतो मे निबोधत॥२,७२.६४॥
युगधर्मे परावृत्ते काले च शिथिले प्रभुः।
कर्त्तुं धर्मव्यवस्थानं जायते मानुषेष्विह।
भृगोः शापनिमित्तेन देवासुरकृतेन च॥२,७२.६५॥
ऋषय ऊचुः
कथं देवासुरकृते तद्व्याहारमवाप्तवान्।
एतद्वेदितुमिच्छामो वृत्तं देवासुरं कथम्॥२,७२.६६॥
सूत उवाच
देवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत॥२,७२.६७॥
हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक्प्रशासति।
बलिनाधिष्ठितं राज्यं पुनर्लोकत्रये क्रमात्॥२,७२.६८॥
सख्यमासीत्परं तेषां देवानामसुरैः सह।
युगाख्या दश संपूर्णा ह्यासीदव्याहतं जगत्॥२,७२.६९॥
निदेशस्थायिनश्चैव तयोर्देवासुराभवन्।
बद्धे बलौ विवादोऽथ संप्रवृत्तः सुदारुणः॥२,७२.७०॥
देवासुराणां च तदा घोरः क्षयकरो महान्।
तेषां द्वीपनिमित्तं वै संग्रामा बहवोऽभवेन्॥२,७२.७१॥
वराहेऽस्मिन्दश द्वौ च षण्डामर्कान्तगाः स्मृताः।
नामतस्तु समासेन शृणुध्वं तान्विवक्षतः॥२,७२.७२॥
प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः।
तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्थनः॥२,७२.७३॥
संग्रामः पञ्चमश्चैव सुघोरस्तारकामयः।
षष्ठो ह्याडीबकस्तेषां सप्तमस्त्रैपुरः स्मृतः॥२,७२.७४॥
अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः।
वार्त्रश्च दशमो घोरस्ततो हालाहलः स्मृतः॥२,७२.७५॥
स्मृतो द्वादशकस्तेषां घोरः कोलाहलोऽपरः।
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः॥२,७२.७६॥
वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे कृते।
हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे च दैवते॥२,७२.७७॥
महाबलो महासत्त्वः संग्रामेष्वपराजितः।
दंष्ट्रया तु वराहेण स दैत्यस्तु द्विधाकृतः॥२,७२.७८॥
प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने।
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः॥२,७२.७९॥
इन्द्रेणैव स विक्रम्य निहतस्तारकामये।
भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः॥२,७२.८०॥
स जंभो निहतः षष्ठे शक्राविष्टेन विष्णुना।
अशक्नुवत्सु देवेषु परं सोढुमदैवतम्॥२,७२.८१॥
निहता दानवाः सर्वे त्रिपुरे त्र्यंबकेण तु।
अथ दैत्याः सुराश्चैव राक्षसास्त्वन्धकारिके॥२,७२.८२॥
जिता देवमनुष्येस्ते पितृभिश्चैव संगताः।
सवृत्रान्दानवांश्चैव संगतान्कृत्स्नशश्च तान्॥२,७२.८३॥
जघ्ने विष्णुसहायेन महेन्द्रस्तेन वर्द्धितः।
हतो ध्वजे महेन्द्रेण मयाछत्रश्च योगवित्॥२,७२.८४॥
ध्वजलक्षं समाविश्य विप्रचित्तिः महानुजः।
दैत्यांश्च दानवांश्चैव संहतान्कृत्स्नशश्च तान्॥२,७२.८५॥
जयद्धालाहले सर्वैर्देवैः परिवृतो वृषा।
रजिः कोलाहले सर्वान्दैत्यान्परिवृतोऽजयत्॥२,७२.८६॥
यज्ञस्यावभृथे जित्वा षण्डामकारै तु दैवतैः।
एते देवासुरा वृत्ताः संग्रामा द्वादशैव तु॥२,७२.८७॥
सुरासुरक्षयकराः प्रजाना मशिवश्च ह।
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ॥२,७२.८८॥
तथा शतसहस्राणि ह्यधिकानि द्विसफतिः।
अशीतिश्च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत्॥२,७२.८९॥
पारंपर्येण राजा तु बलिर्वर्षार्बुधं पुनः।
षष्टिश्चैव सहस्राणि त्रिंशच्च नियुतानि च॥२,७२.९०॥
बले राज्याधिकारस्तु यावत्कालं बभूव ह।
प्रह्लादो निर्जितोऽभूच्च तावत्कालं सहासुरैः॥२,७२.९१॥
इन्द्रास्त्रयस्ते विख्याता ह्यसुराणां महौ जसः।
दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल॥२,७२.९२॥
अशपत्तु ततः शुक्रो राष्ट्रं दशयुगं पुनः।
त्रैलोक्यमिदमव्यग्रं महेन्द्रो ह्यभ्ययाद्बलेः॥२,७२.९३॥
प्रह्लादस्य हृते तस्मिंस्त्रैलोक्ये कालपर्ययात्।
पर्यायेणैव संप्राप्तं त्रैलोक्यं पाकशासनम्॥२,७२.९४॥
ततोऽसुरान्परित्यज्य यज्ञो देवानुपागमत्।
यज्ञे देवानथ गते काव्यं ते ह्यसुरां ब्रुवन्॥२,७२.९५॥
किं तन्नो मिषतां राष्ट्रं त्यक्त्वा यज्ञः सुरान्गतः।
स्थातुं न शक्रुमो ह्यद्य प्रविशाम रसातलम्॥२,७२.९६॥
एवमुक्तोऽब्रवीदेतान्विषण्णः सांत्वयन्गिरा।
माभैष्ट धारयिष्यामि तेजसा स्वेन वः सुराः॥२,७२.९७॥
वृष्टिरोषधयश्चैव रसा वस्तु च यत्परम्।
कृत्स्नानि ह्यपि तिष्ठन्तु पापस्तेषां सुरेषु वै॥२,७२.९८॥
युष्मदर्थं प्रदास्यामि तत्सर्व धार्यते मया।
ततो देवासुरान्दृष्ट्वा धृतान्काव्येन धीमता॥२,७२.९९॥
अमन्त्रयंस्तदा ते वै संविघ्ना विजिगीषया।
एष काव्य इदं सर्वं व्यावर्त्तयति नो बलात्॥२,७२.१००॥
साधु गच्छामहे तूर्णं यावन्नाप्याययेत्तु तान्।
प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे॥२,७२.१०१॥
ततो देवास्तु संरब्धा दानवानभिसृत्य वै।
जघ्नुस्तैर्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः॥२,७२.१०२॥
ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान्।
समारक्षत संत्रस्तान्देवेभ्यस्तान्दितेः सुतान्॥२,७२.१०३॥
काव्यो दृष्ट्वा स्थितान्देवांस्तत्र दैवमचिन्तयत्।
तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन्॥२,७२.१०४॥
त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिःक्रमैः।
बलिर्बद्धो हतो जंभो निहतश्च विरोचनः॥२,७२.१०५॥
महासुरा द्वादशसु संग्रामेषु सुरैर्हताः।
तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः॥२,७२.१०६॥
किञ्चिच्छिष्टास्तु वै यूयं युद्धे स्वल्पे तु वै स्वयम्।
नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम्॥२,७२.१०७॥
यास्याम्यहं महादेवं मन्त्रार्थे विजयाय च।
अग्निमाप्याययेद्धोता मेत्रैरेष दहिष्यति॥२,७२.१०८॥
ततो यास्याम्यहं देवं मन्त्रार्थे नीललोहितम्।
युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः॥२,७२.१०९॥
यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने।
न वै देवा वाधिष्यन्ति यावदागमनं मम॥२,७२.११०॥
अप्रतीपांस्ततो मन्त्रान्देवात्प्राप्य महेश्वरात्।
योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम्॥२,७२.१११॥
ततस्ते कृतसंवादा देवानूचुस्ततोऽसुराः।
न्यस्तशस्त्रा वयं सर्वे लोकान्यूयं क्रमन्तु वै॥२,७२.११२॥
वयं तपश्चरिष्यामः संवृत्ता वल्कलैर्वने।
प्रह्लादस्य वचः श्रुत्वा सत्यानुव्याहृतं तु तत्॥२,७२.११३॥
ततो देवा न्यवर्त्तन्त विज्वरा मुदिताश्च ह।
न्यस्तशस्त्रेषु दैत्येषु स्वान्वै जग्मुर्यथागतान्॥२,७२.११४॥
ततस्तानब्रवीत्काव्यः कञ्चित्कालं प्रतीक्ष्यताम्।
निरुत्सुकास्तपोयुक्ताः कालः कार्यार्थसाधकः॥२,७२.११५॥
पितुर्ममाश्रमस्था वै संप्रतीक्षत दानवाः।
स संदिश्यसुरान्काव्यो महोदेवं प्रपद्य च॥२,७२.११६॥
प्रणम्यैवमुवाचायं जगत्प्रभवमीश्वरम्।
मन्त्रानिच्छामि हे देव ये न संति बृहस्पतौ॥२,७२.११७॥
पराभवाय देवानामसुरेष्वभयावहान्।
एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छसि वै द्विज॥२,७२.११८॥
व्रतं चर मयोद्दिष्टं ब्रह्मचारी समाहितः।
पूर्मं वर्षसहस्रं वै कुण्डधूममवाक्शिराः॥२,७२.११९॥
यदि पास्यति भद्रं ते मत्तो मन्त्रमवाप्स्यसि।
तथोक्तो देवदेवेन स शुक्रस्तु महातपाः॥२,७२.१२०॥
पादौ संस्पृश्य देवस्य बाढमित्यभाषत।
व्रतं चराम्यहं देव यथोद्दिष्टोऽस्मि वैप्रभो॥२,७२.१२१॥
ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत्।
असुराणां हितार्थाय तस्मिञ्छुक्रे गते तदा॥२,७२.१२२॥
मन्त्रार्थं तत्र वसति ब्रह्म चर्यं महेश्वरे।
तद्बुद्ध्वा नीतिपूर्वं तु राष्ट्रं न्यस्तं तदासुरैः॥२,७२.१२३॥
तस्मिञ्छिद्रे तदामर्षाद्देवास्तान्समभिद्रवन्।
प्रगृहीतायुधाः सर्वे बृहस्पतिपुरोगमाः॥२,७२.१२४॥
दृष्ट्वासुरगणा देवान्प्रगृहीतायुधान्पुनः।
उत्पेतुः सहसा सर्वे संत्रस्तास्ते ततोऽभवन्॥२,७२.१२५॥
न्यस्ते शस्त्रेऽभये दत्ते ह्याचार्ये व्रतमास्थिते।
संत्यज्य समयं देवास्ते सपत्नजिघांसवः॥२,७२.१२६॥
अनाचार्यास्तु भद्रं वो विश्वस्तास्तपसे स्थिताः।
चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः॥२,७२.१२७॥
रणे विजेतुं देवान्वै न शक्ष्यामः कथञ्चन।
अयुद्धेन प्रपद्यामः शरणं काव्यमातरम्॥२,७२.१२८॥
प्रापद्यन्त ततो भीतास्तया चैव तदाभयम्।
दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम्॥२,७२.१२९॥
तया चाभ्युपपन्नांस्तान्दृष्ट्वा देवास्तदासुरान्।
अभिजघ्नुः प्रसह्यैतान्विचार्य च बलाबलम्॥२,७२.१३०॥
तत स्तान्वध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा।
देवी क्रुद्धाब्रवीदेनाननिन्द्रत्वं करोम्यहम्॥२,७२.१३१॥
संस्तभ्य शीघ्रं संरंभादिन्द्रं साभ्यचरत्ततः।
ततः संस्तंभितं दृष्ट्वा शक्रं देवास्तु मूढवत्॥२,७२.१३२॥
व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम्।
गतेषु सुरसंघेषु विष्मुरिन्द्रमभाषत॥२,७२.१३३॥
मां त्वं प्रविश भद्रं ते नेष्यामि त्वां सुरेश्वर।
एवमुक्तस्ततो विष्णुः प्रविवेश पुरन्दरः॥२,७२.१३४॥
विष्मुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत्।
एषा त्वां विष्णुना सार्द्ध दहामि मघवन्बलात्॥२,७२.१३५॥
मिषता सर्वभूतानां दृश्यतां मे तपोबलम्।
तयाभिभूतौ तौ देवाविन्द्राविष्णू जजल्पतुः॥२,७२.१३६॥
कथं मुच्येव सहितौ विष्णुरिन्द्रमभाषत।
इन्द्रोऽब्रवीज्जहि ह्येनां यावन्नो न दहे द्विभो॥२,७२.१३७॥
विशेषेणाभिभूतोऽहमिमां तज्जहि माचिरम्।
ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्त्तुमास्थितः॥२,७२.१३८॥
अभिध्याय ततश्शक्रमापन्नं सत्वरं प्रभुः।
तस्याः संत्वरमाणायाः शीघ्रङ्कारी मुरारिहा॥२,७२.१३९॥
त्रिधा विष्णुस्ततो देवः क्रूरं बुद्ध्वा चिकीर्षितम्।
क्रुद्धस्तदस्त्रमाविध्य शिरश्चिच्छेद माधवः॥२,७२.१४०॥
तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरीश्वरः।
ततोऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा॥२,७२.१४१॥
यस्मात्ते जानता धर्ममवध्या स्त्री निषूदिता।
तस्मात्त्वं सप्तकृत्वो वै मनुष्येषु प्रपद्यसे॥२,७२.१४२॥
ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः।
सर्वलोक हितार्थाय जायते मानुषेष्विह॥२,७२.१४३॥
अनुव्याहृत्य विष्मुं स तदादाय शिरः स्वयम्।
समानीय ततः काये समायोज्येदमब्रवीत्॥२,७२.१४४॥
एतां त्वां विष्णुना सत्यं हतां संजीवयाम्यहम्।
यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा॥२,७२.१४५॥
तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम्।
सत्याभिव्यहृतात्तस्य देवी संजीविता तदा॥२,७२.१४६॥
तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत्।
ततस्तां सर्वभूतानां दृष्ट्वा सुप्तोत्थितामिव॥२,७२.१४७॥
साधुसाध्वित्यदृश्यानां वाचस्ताः सस्वनुर्दिशः।
दृष्ट्वा संजीवितामेवं देवीं तां भृगुणा तदा॥२,७२.१४८॥
मिषतां सर्वभूतानां तदद्भुतमिवाभवत्।
असंभ्रान्तेन भृगुणा पत्नी संजीवितां ततः॥२,७२.१४९॥
दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः।
प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम्॥२,७२.१५०॥
प्रोवाच मतिमान्वाक्यं स्वां कन्यां पाकशासनः।
एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः॥२,७२.१५१॥
तेनाहं व्याकुलः पुत्रि कृतो धृतिमना दृढम्।
गच्छ संभावयस्वैनं श्रमापनयनैः शुभे॥२,७२.१५२॥
तैस्तैर्मनोऽनुकूलैश्च ह्युपचारैरतद्रिता।
देवी सारीन्द्रदुहिता जयन्ती शुभचारिणी॥२,७२.१५३॥
सुस्वरूपधरागात्तं दुर्वहं व्रतमास्थितम्।
पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा॥२,७२.१५४॥
गीर्भिश्चैवानुकूलाभिः स्तुवन्ती वल्गुभाषिणी।
गात्रसंवाहनैः काले सेवमाना त्वचासुखैः॥२,७२.१५५॥
शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः।
पूर्णं धूमव्रते चापि घोरे वर्षसहस्रके॥२,७२.१५६॥
वरेण च्छन्दयामास काव्यं प्रीतोऽभवस्तदा।
एवं व्रतं त्वयैकेन चीर्णं नान्येन केन चित्॥२,७२.१५७॥
तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च।
तेजसा वापि विबुधान्सर्वानभिभविष्यसि॥२,७२.१५८॥
यच्च किञ्चिन्ममब्रह्म विद्यते भृगुनन्दन।
सांग च सरहस्यं च यज्ञोपनिषदस्तथा॥२,७२.१५९॥
प्रतिभाति ते सर्वं तद्वाच्यं तु न कस्यचित्।
सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि॥२,७२.१६०॥
एवं दत्त्वा वरं तस्यै भार्गवाय भवः पुनः।
प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ॥२,७२.१६१॥
एतांल्लब्ध्वा वरान्काव्यः संप्रहृष्टतनूरुहः।
हर्षात्प्रादुर्बभौ तस्य दिव्यं स्तोत्रं महेशितुः॥२,७२.१६२॥
तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम्।
नमोऽस्तु शितिकण्ठाय सुराद्याय सुवर्चसे॥२,७२.१६३॥
लेलिहानाय लेह्याय वत्सराय जगत्पते।
कपर्दिने ह्यूर्द्ध्वरोम्णे हर्यक्षवरदाय च॥२,७२.१६४॥
संस्तुताय सुतीर्थाय देवदेवाय रंहसे।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे॥२,७२.१६५॥
वसुरेताय रुद्राय तपसे चीरवाससे।
निस्वाय मुक्तकेशाय सेनान्ये रोहिताय च॥२,७२.१६६॥
कवये राजवृद्धाय तक्षकक्रीडनाय च।
गिरिशायार्कनेत्राय यतये चाज्यपाय च॥२,७२.१६७॥
सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च।
सहस्रबाहवे चैव सहस्रामलचक्षुषे॥२,७२.१६८॥
सहस्रकुक्षये चैव सहस्रचरणाय च।
सहस्रशिरसे चैव बहुरूपाय वेधसे॥२,७२.१६९॥
भवाय विश्वरूपाय श्वेताय पुरुषाय च।
निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च॥२,७२.१७०॥
ताम्राय चैव भीमाय उग्राय च शिवाय च।
महादेवाय सर्वाय विश्वरूपशिवाय च॥२,७२.१७१॥
हिरण्याय वसिष्ठाय वर्षाय मध्यमाय च।
धाम्ने चैव पिशङ्गाय पिङ्गलायारुणाय च॥२,७२.१७२॥
पिनाकिने चेषुमते चित्राय रोहिताय च।
दुन्दुभ्यायैकपादाय अर्हाय बुद्धये तथा।
मृगव्याधाय सर्वाय स्थाणवे भीषणाय च॥२,७२.१७३॥
बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च।
कपिलोयैकवीराय मृत्यवे त्र्यंबकाय च॥२,७२.१७४॥
वास्तोष्पते पिनाकाय शङ्कराय शिवाय च।
आरण्याय गृहस्थाय यतिने बह्मचारिणे॥२,७२.१७५॥
सांख्याय चैव योगाय ध्यानिने दीक्षिताय च।
अन्तर्हिताय सर्वाय तप्याय व्यापिने तथा॥२,७२.१७६॥
बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च।
रोधसे चैकितानाय ब्रह्मिष्ठाय महार्षये॥२,७२.१७७॥
चतुष्पादाय मेध्याय वर्मिणे शीघ्रगाय च।
शिखण्डिने कपालाय दण्डिने विश्वमेधसे॥२,७२.१७८॥
अप्रतीताय दीप्ताय भास्कराय सुमेधसे।
क्रूराय विकृतायैव बीभत्साय शिवाय च॥२,७२.१७९॥
शुचये परिधानाय सद्योजाताय मृत्यवे।
पिशिताशाय शर्वाय मेघाय वैद्युताय च॥२,७२.१८०॥
दक्षाय च जघन्याय लोकानामीश्वराय च।
अनामयाय चेध्माय हिरण्यायैकचक्षुषे॥२,७२.१८१॥
श्रेष्ठाय वामदेवाय ईशानाय च धीमते।
महाकल्पाय दीप्ताय रोदनाय हसाय च॥२,७२.१८२॥
दृढधन्विने कवचिने रथिने च वरूथिने।
भृगुनाथाय शुक्राय गह्वरिष्ठाय धीमते॥२,७२.१८३॥
अमोघाय प्रशान्ताय सदा विप्रप्रियाय च।
दिग्वासः कृत्तिवासाय भगघ्नाय नमोऽस्तु ते॥२,७२.१८४॥
पशूनां पतये चैव भूतानां पतये नमः।
प्रभवे ऋग्यजुःसाम्ने स्वाहायै च सुधाय च॥२,७२.१८५॥
वषट्कारतमायैव तुभ्यं मन्त्रात्मने नमः।
स्रष्ट्रे धात्रे तथा कर्त्रे हर्त्रे च क्षपणाय च॥२,७२.१८६॥
भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः।
वसवे चैव साध्याय रुद्रादित्याश्विनाय च॥२,७२.१८७॥
विश्वाय मरुते चैव तुभ्यं देवात्मने नमः।
अग्नीषोमविधिज्ञाय पशुमन्त्रौषधाय च॥२,७२.१८८॥
दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः।
तपसे चैव सत्याय त्यागाय च शमाय च॥२,७२.१८९॥
अहिंसायाथ लोभाय सुवेषायानिशाय च।
सर्वभूतात्प्रभूताय तुभ्यं योगात्मने नमः॥२,७२.१९०॥
पृथिव्यै चान्तरिक्षाय महासे त्रिदिवाय च।
जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः॥२,७२.१९१॥
अव्यक्तायाथ महते भूतायैवेन्द्रियाय च।
तन्मात्रायाथ महते तुभ्यं तत्त्वात्मने नमः॥२,७२.१९२॥
नित्याय चाप्यलिङ्गाय सूक्ष्माय चेतराय च।
शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः॥२,७२.१९३॥
नमस्ते त्रिषु लोकेषु स्वरन्तेषु भुवादिषु।
सत्यान्तमहराद्येषु चतुर्षु च नमोऽस्तु ते॥२,७२.१९४॥
नामस्तोत्रे मया ह्यस्मिन्यदसद्व्याहृतं प्रभो।
मद्भक्त इतिब्रह्मण्य सर्वं तत्क्षन्तुमर्हसि॥२,७२.१९५॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे स्तवसमाप्तिर्नाम द्विसप्ततितमोऽध्यायः॥७२॥