ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ५०

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ४९ ब्रह्माण्डपुराणम्
अध्यायः ५०
[[लेखकः :|]]
मध्यभागः, अध्यायः ५१ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

जैमिनिरुवाच
एवं स राजा विधिवत्पालयामास मेदिनीम् ।
सप्तद्वीपवतीं सम्यक्साक्षाद्धर्म इवापरः ॥ २,५०.१ ॥

ब्राह्मणादींस्तथा वर्णान्स्वेस्वे धर्मे पृथक्पृथक् ।
स्थापयित्वा यथान्यायं ररक्षाव्याहतेन्द्रियः ॥ २,५०.२ ॥

प्रजाश्च सर्ववर्णेषु यथाश्रेष्ठानुवर्त्तिनः ।
वर्णाश्चैवानुलोम्येन तद्वदर्थेषु च क्रमात् ॥ २,५०.३ ॥

न सति स्थविरे बालं मृत्युरभयुपगच्छति ।
सर्ववर्णेषु भूपाले महीं तस्मिन्प्रशासति ॥ २,५०.४ ॥

स्फीतान्यपेतबाधानि तदा राष्ट्राणि कृत्स्नशः ।
तेष्वसंख्या जनपदाश्चातुर्वर्ण्यजनावृताः ॥ २,५०.५ ॥

ते चासंख्यागृहग्रामशतोपेता विभागशः ।
देशाश्चावासभुयिष्टा नृपे तस्मिन्प्रशासति ॥ २,५०.६ ॥

अनाश्रमी द्विजः कश्चिन्न बभूव तदाभुवि ।
प्रजानां सर्ववर्णेषु प्रारंभाः फलदायिनः ॥ २,५०.७ ॥

स्वोचितान्येव कर्माणि प्रारभन्ते च मानवाः ।
पुरुषार्थोपपन्नानि कर्माणि च तदा नृणाम् ॥ २,५०.८ ॥

महोत्सवसमुद्युक्ताः पुरग्रामव्रजाकराः ।
अन्योन्यप्रियकामाश्च राजभक्तिसमन्विताः ॥ २,५०.९ ॥

ननिन्दितोऽभिशस्तो वा दरिद्रो व्याधितोऽपि वा ।
प्रजासु कश्चिल्लुब्धो वा कृपणो वापि नाभवत् ॥ २,५०.१० ॥

जनाः परगुणप्रीताः स्वसंपर्काभिकाङ्क्षिणाः ।
गुरुषु प्रणता नित्यं सद्विद्याव्यसनादृताः ॥ २,५०.११ ॥

परापवादभीताश्च स्वदाररतयोऽनिशम् ।
निसर्गात्खलसंसर्गविरता धर्मतत्पराः ॥ २,५०.१२ ॥

आस्तिकाः सर्वशोऽभूवन् प्रजास्तस्मिन्प्रशासति ।
एवं सुबाहुतन्ये स्वप्रतापार्जितां महीम् ॥ २,५०.१३ ॥

ऋतवश्च महाभाग यथाकालानुवर्तिनः ।
शालिभूयिष्ठसस्याढ्या सदैव सकला मही ॥ २,५०.१४ ॥

बभूव नृपशार्दूले तस्मिन् राज्यानि शासति ॥ २,५०.१५ ॥

यस्याष्टादशमण्डलाधिपतिभिः सेवार्थमभ्यागतैः प्रख्यातोरुपराक्रमैर्नृपशतैर्मूर्द्धाभिषिक्तैः पृथक् ।
संविष्टैर्मणिविष्टरेषु नितरामध्यास्यमानामरैः शक्रस्येव विराजते दिवि सभा रत्नप्रभोद्भासिता ॥ २,५०.१६ ॥

संकेताविषयान्तराभ्युपगमाः सर्वेऽपि सोपायनाः कृत्वा सैन्यनिवेशनानि परितः पुर्याः पृथक्पार्थिवाः ।
द्रष्टुं काङ्क्षितराजकाः सतनयाविज्ञापयन्तो मुहुर्द्वास्थैरेव नरेश्वराय सुचिरं वत्स्यन्तमन्तःपुरे ॥ २,५०.१७ ॥

नमन्नरेद्रमुकुटश्रेणीनामतिघर्षणात् ।
किणीकृतौ विराजेते चरणौ तस्य भूभुजः ॥ २,५०.१८ ॥

सेवागतनरेद्रौघविनिकीर्णैः समन्ततः ।
रत्नैर्भाति सभा तस्य गुहा सोमे रवी यथा ॥ २,५०.१९ ॥

एवं स राजा धर्मेण भानुवंशशिखामणिः ।
अनन्यशासनामुर्वीमन्वशासदरिन्दमः ॥ २,५०.२० ॥

इत्थं पालयतः पृथ्वीं सगरस्य महीपतेः ।
न चापपात मुत्पुत्रमुखालोकनजृंभिता ॥ २,५०.२१ ॥

विना तां दुःखितोऽत्यर्थं चितयामास नैकधा ।
अहो कष्टमपुत्रोऽहमस्मिन्वंशे ध्रुवं तु यत् ॥ २,५०.२२ ॥

प्रयान्ति नूनमस्माकं पितरः पिण्डविप्लवम् ।
निरयादपि सत्पुत्रे संजाते पितरः किल ॥ २,५०.२३ ॥

प्रीत्या प्रयान्ति तद्गेहं जातकर्मक्रियोत्सुकाः ।
महता सुकृतेनापि संप्राप्तस्य दिवं किल ॥ २,५०.२४ ॥

अपुत्रस्यामराः स्वर्गे द्वारं नोद्धाटयन्ति हि ।
पिता तु लोकमुभयोः स्वर्लोकं तत्पितामहाः ॥ २,५०.२५ ॥

जेष्यन्ति किल सत्पुत्रे जाते वंशद्वयेऽपि च ।
अनपत्यतयाहं तु पुत्रिणां या भवेद्गतिः ॥ २,५०.२६ ॥

न तां प्राप्क्यामि वै नूनं सुदुर्लभतरा हि सा ।
पदादैन्द्रात्किलाभिन्नमृद्धं राज्यमखण्डितम् ॥ २,५०.२७ ॥

मम यत्तदपुण्यस्य याति निष्फलतामिह ।
इदं मत्पूर्वजैरेव सिंहासनमधिष्ठितम् ॥ २,५०.२८ ॥

अपुत्रत्वेन राज्यं च पराधीनत्वमेष्यति ।
तस्मादौर्वाश्रममहं गत्वा तं मुनिपुङ्गवम् ॥ २,५०.२९ ॥

प्रसादयिष्ये पुत्रार्थं भार्याभ्यां सहितोऽधुना ।
गत्वा तस्मै त्वपुत्रत्वं विनिवेद्य महात्मने ॥ २,५०.३० ॥

स यद्वक्ष्यति तत्सर्वं करिष्ये नात्र संशयः ।
इति सञ्चिन्त्य मनसा सगरोराजसत्तमः ॥ २,५०.३१ ॥

इत्येष कृत्यविद्राजन्गन्तुमौर्वाश्रमं प्रति ।
स मन्त्रिप्रवरे राज्यं प्रतिष्ठाप्य ततो वनम् ॥ २,५०.३२ ॥

प्रययौ रथमारुह्य भार्याभ्यां सहितो मुदा ।
जगाम रथघोषेण मेघनादातिशङ्किभिः ॥ २,५०.३३ ॥

स्तब्धेक्षणैर्लक्ष्यमाणो मार्गोपान्ते शिखण्डिभिः ।
प्रियाभ्यां दर्शयन्राजन्सारङ्गांस्तिमितेक्षणान् ॥ २,५०.३४ ॥

क्षममूर्ध्वमुखान्सद्यः पलायनपरान्पुनः ।
वृक्षान्पुष्पफलोपेतान्विलोक्य मुदितोऽभवत् ॥ २,५०.३५ ॥

अम्लानकुसुमैः स्वादुफलैः शाद्वलभूमिकैः ।
सुस्निग्धपल्लवच्छायैरभितः संभृतं नगैः ॥ २,५०.३६ ॥

चूताग्रपल्लवास्वादस्निग्धकण्ठपिकारवैः ।
श्रोत्राभिरामजनकैस्संघुष्टं सर्वतोदिशम् ॥ २,५०.३७ ॥

सर्वर्तुकुसुमोपेतं भ्रमद्भ्रमरमण्डितम् ।
प्रसूनस्तबकानम्रबल्लरीवेल्लितद्रुमम् ॥ २,५०.३८ ॥

कपियूथसमाक्रान्तव नस्पतिशतावृतम् ।
उन्मत्तशिखिसारङ्गकूजत्पक्षिगणान्वितम् ॥ २,५०.३९ ॥

गायद्विद्याधरवधूगीतिकासुमनोहरम् ।
संचरत्किन्नरीद्वन्द्वविराजद्वनगह्वरम् ॥ २,५०.४० ॥

हंससारसचक्राह्वकारण्डवशुकादिभिः ।
सुस्वरैरावृतोपान्तैः सरोभिः परिवारितम् ॥ २,५०.४१ ॥

सरः स्वंबुज कह्लारकुमुदोत्पलराशिषु ।
शनैः परिवहन्मन्दमारुतापूर्णदिङ्मुखम् ॥ २,५०.४२ ॥

एवंविधगुणोपेतमधिगाह्य तपोवनम् ।
गच्छन्रथेनाथ नृपः प्रहर्षं परमं ययौ ॥ २,५०.४३ ॥

उपशान्ताशयः सोऽथ संप्राप्याश्रममण्डलम् ।
भार्याभ्यां सहितः श्रीमान्वाहादवरुरोह वै ॥ २,५०.४४ ॥

धुर्यान्विश्रामयेत्युक्त्वा यन्तारमवनीपतिः ।
आससादाश्रमोपान्तं महर्षेर्भावितात्मनः ॥ २,५०.४५ ॥

स श्रुत्वा मुनिशिष्येभ्यः कृतनित्यक्रियादरम् ।
मुनिं द्रष्टुं विनीतात्मा प्रविवेशाश्रमं तदा ॥ २,५०.४६ ॥

मुनिमध्ये समासीनमृषिवृन्दैः समन्वितम् ।
ननाम शिरसा राजा भार्याभ्यां सहितो मुदा ॥ २,५०.४७ ॥

कृतप्रणामं नृपतिमृषिरौर्वः प्रतापवान् ।
उपविशेति प्रेम्णा वै सह ताभ्यां समादिशत् ॥ २,५०.४८ ॥

अर्घ्यपाद्यादिभिः सम्यक्पूजयित्वा महामुनिः ।
आतिथ्येन च वन्येन सभार्यं तमतोषयत् ॥ २,५०.४९ ॥

अथातिथ्योपविश्रान्तं प्रणम्या सीनमग्रतः ।
राजानमब्रवीदौर्वः शनैर्मृद्वक्षरं वचः ॥ २,५०.५० ॥

कुशलं ननु ते राज्ये बाह्येष्वाभ्यन्तरेषु च ।
अपिधर्मेण सकलाः प्रजास्त्वं परिरक्षसि ॥ २,५०.५१ ॥

अपि जेतुं त्रिवर्गं त्वमुपायैः सम्यगीहसे ।
फलन्ति हि गुणास्तुभ्यं त्वया सम्यक्प्रचोदिताः ॥ २,५०.५२ ॥

दिष्ट्यात्वया जिताः सर्वे रिपवो नृपसत्तम ।
दिष्ट्या च सकलं राज्यं त्वया धर्मेण रक्ष्यते ॥ २,५०.५३ ॥

धर्म एव स्थितिर्येषां तेषां नास्त्यत्रविप्लवः ।
न तं रक्षति किं धर्मः स्वयं येनाभिरक्षितः ॥ २,५०.५४ ॥

पूर्वमेवाहमश्रौषं विजित्य सकलां महीम् ।
सबलोनगरीं प्राप्तः कृतदारो भवानिति ॥ २,५०.५५ ॥

राज्ञां तु प्रवरो धर्मो यत्प्रजापरिपालनम् ।
भवन्ति सुखिनो नूनं तेनैवेह परत्र च ॥ २,५०.५६ ॥

स भवान्राज्य भरणं परित्यज्य मदन्तिकम् ।
भार्याभ्यां सहितो राजन्समायातोऽसि मे वद ॥ २,५०.५७ ॥

जैमिनिरुवाच
एवमुक्तस्तु मुनिना सगरो राजसत्तमः ।
कृताञ्जलिपुटो भूत्वा प्राह तं मधुरं वचः ॥ २,५०.५८ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरस्यौर्वाश्रमगमनं नाम पञ्चशत्तमोऽध्यायः ॥ ५०॥