ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ८

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ७ ब्रह्माण्डपुराणम्
अध्यायः ८
[[लेखकः :|]]
मध्यभागः, अध्यायः ९ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


सूत उवाच
एवं प्रजासु सृष्टासु कश्यपेन महात्मना ।
प्रतिष्ठितासु सर्वासु चरासु स्थावरासु च ॥ २,८.१ ॥

अभिषिच्याधिपत्येषु तेषां मुख्यान्प्रजापतिः ।
ततः क्रमेण राज्यानि आदेष्टुमुपचक्रमे ॥ २,८.२ ॥

द्विजानां वीरुधां चैव नक्षत्राणां ग्रहैः सह ।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ २,८.३ ॥

बृहस्पतिं तु विश्वेषां ददावङ्गिरसां पतिम् ।
भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेचयत् ॥ २,८.४ ॥

आदित्यानां पुनर्विष्णुं वसूनामथ पावकम् ।
प्रजापतीनां दक्षं च मरुतामथ वासवम् ॥ २,८.५ ॥

दैत्यानामथ राजानं प्रह्रादं दितिनन्दनम् ।
नारायणं तु साध्यानां रुद्राणां च वृषध्वजम् ॥ २,८.६ ॥

विप्रचित्तिं च राजानं दानवानामथादिशत् ।
अपां च वरुणं राज्ये राज्ञां वैश्रवणं तथा ॥ २,८.७ ॥

यक्षाणां राक्षसानां च पार्थिवानां धनस्य च ।
वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ॥ २,८.८ ॥

सर्वभूतपिशाचाना गिरिशं शूलपाणिनम् ।
शैलानां हिमवन्तं च नदीनामथ सागरम् ॥ २,८.९ ॥

गन्धर्वाणामधिपतिं चक्रे चित्ररथं तथा ।
उच्चैःश्रवसमश्वानां राजानं चाभ्यषेचयत् ॥ २,८.१० ॥

मृगाणामथ शार्दूलं गोवृषं च ककुद्मिनाम् ।
पक्षिणामथ सर्वेषां गरुडं पततां वरम् ॥ २,८.११ ॥

गन्धानां मरुतां चैव भूतानामशरीरिणाम् ।
समकालबलानां च वायुं बलवतां वरम् ॥ २,८.१२ ॥

सर्वेषां दंष्ट्रिणां शेषं नागानामथ वासुकिम् ।
सरीसृपाणां सर्पाणां पन्नगानां च तक्षकम् ॥ २,८.१३ ॥

सागराणां नदीनां च मेघानां वर्षितस्य च ।
आदित्यानामन्यतमं पर्जन्यमभिषिक्तवान् ॥ २,८.१४ ॥

सर्वाप्सरोगणानां च कामदेवं तथा प्रभुम् ।
ऋतूनामथ मासानामार्त्तवानां तथैव च ॥ २,८.१५ ॥

यक्षाणां च विपक्षाणां मुहूर्त्तानां च पर्वणाम् ।
कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ॥ २,८.१६ ॥

गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ।
प्रजापतेर्विरजसः पूर्वस्यां दिशि विश्रुतम् ॥ २,८.१७ ॥

पुत्रं नाम्ना सुधन्वानं राजानं सोऽभ्यषेचयत् ।
दक्षिणास्यां दिशि तथा कर्दमस्य प्रजापतेः ॥ २,८.१८ ॥

पुत्रां शङ्खपदं नाम राजानं सोभ्यषेचयत् ।
पस्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् ॥ २,८.१९ ॥

केतुमन्तं महात्मानं राजानं चाभ्यषेचयत् ।
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ॥ २,८.२० ॥

उदीच्यां दिशि दुर्द्धर्षपुत्रं राज्येऽभ्यषेचयत् ।
मनुष्याणामधिपतिं चक्रे वैवस्वतं मनुम् ॥ २,८.२१ ॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ॥ २,८.२२ ॥

स्वायंभुवेन्तरे पूर्वं ब्रह्मणा तेऽभिषेचिताः ।
नृपाश्चैतेऽभिषिच्यन्ते मनवो ये भवन्ति वै ॥ २,८.२३ ॥

मन्वन्तरेष्वतीतेषु गता ह्येतेषु पार्थिवाः ।
एवमन्येऽभिषिच्यन्ते प्राप्ते मन्वन्तरे पुनः ॥ २,८.२४ ॥

अतीतानागताः सर्वे स्मृता मन्वन्तरेश्वराः ।
राजसूयेऽभिषिक्तश्च पृथु रेभिर्नरोत्तमः ॥ २,८.२५ ॥

वेददृष्टेन विधिना ह्यधिराजः प्रतापवान् ।
एतानुत्पाद्य पुत्रांस्तु प्रजासन्तानकारणात् ॥ २,८.२६ ॥

पुनरेव महा भागः प्रजानां पतिरीश्वरः ।
कश्यपो गोत्रकामस्तु चचार परमं तपः ॥ २,८.२७ ॥

पुत्रौ गोत्रकरौ मह्यं भवेतामिति चिन्तयन् ।
तस्यप्रध्यायमानस्य कश्यपस्य महात्मनः ॥ २,८.२८ ॥

ब्रह्मणोंऽशौ सुतौ पश्चात्प्रादुर्भूतौ महौजसौ ।
वत्सारश्चासितश्चैव तावुभौ ब्रह्म वादना ॥ २,८.२९ ॥

वत्सारान्निध्रुवो जज्ञे रेभ्यश्च सुहमायशाः ।
रेभ्यस्य रैभ्यो विज्ञेयो निध्रुवस्य निबोधत ॥ २,८.३० ॥

च्यवनस्य सुकन्याया सुमेधाः समपद्यत ।
निध्रुवस्य तु या पत्नी माता वै कुण्डपायिराम् ॥ २,८.३१ ॥

असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ।
शाण्डिल्यानां वरः श्रीमान् देवलः सुमहायशाः ॥ २,८.३२ ॥

निध्रुवाः शाण्डिला रैभ्यास्त्रयः पक्षास्तु काश्यपाः ।
वज्रिप्रभृतयो देवा देवास्तस्य प्रजा स्विमाः ॥ २,८.३३ ॥

चतुर्युगे त्वतिक्रान्ते मनोर्ह्येकादशे प्रभोः ।
अथावशिष्टे तस्मिंस्तु द्वापरे संप्रर्त्तिते ॥ २,८.३४ ॥

मरुत्तस्य नरिष्यं तस्तस्य पुत्रो दमः किल ।
राज्यवर्द्धनकस्तस्य सुधृतिस्तत्सुतो नरः ॥ २,८.३५ ॥

केवलश्च ततस्तस्य बन्धुमान्वेगवांस्ततः ।
बुधस्तस्या भवद्यस्या तृणबिन्दुर्महीपतिः ॥ २,८.३६ ॥

त्रेतायुगमुखे राजा तृतीये स बभूव ह ।
तस्य चेलविला कन्यालंबुषागर्भसंभवा ॥ २,८.३७ ॥

तस्यां जातो विश्रवास्तु वौलस्त्यकुलवर्द्धनः ।
बृहस्पतिबृर्हत्कीर्तिर्देवाचार्यस्तु कीर्त्तितः ॥ २,८.३८ ॥

कन्यां तस्योपयेमे स नाम्ना वै देववर्णिनीम् ।
पुष्पोत्कटां च वाकां च सुते माल्यवतस्तथा ॥ २,८.३९ ॥

कैकसीं मालिनः कन्यां तासां तु शृणुत प्रजाः ।
ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी ॥ २,८.४० ॥

दिव्येन विधिना युक्तमार्षेण च श्रुतेन च ।
राक्षसेन च रूपेण आसुरेण बलेन च ॥ २,८.४१ ॥

त्रिपादं सुमहा कायं स्थूलशीर्षं महाहनुम् ।
अष्टदंष्ट्रं हरिछ्मश्रुं शङ्कुकर्णं विलोहितम् ॥ २,८.४२ ॥

ह्रस्वबाहुं प्रबाहुं च पिगलं सुद्विभीषणम् ।
वैवर्त्तज्ञानसंपन्नं संबुद्धं चैव संभवात् ॥ २,८.४३ ॥

पिता दृष्ट्वाब्रवीत्तं तु कुबेरोऽयमिति स्वयम् ।
कुत्सायां क्विति शब्दोऽयं शरीरं बेरमुच्यते ॥ २,८.४४ ॥

कुबेरः कुशरीरत्वान्नाम्ना वै तेन सोंऽकितः ।
यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव ॥ २,८.४५ ॥

तस्माद्वैश्रवणो नाम नाम्ना तेन भविष्यति ।
ऋद्रयां कुबेरोऽजनयद्विश्रुतं नलकूबरम् ॥ २,८.४६ ॥

रावणं कुम्भकर्णं च कन्यां शूर्पणखीं तथा ।
विभीषणचतुर्थांस्तु कैकस्यजनयत्सुतान् ॥ २,८.४७ ॥

शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूर्द्धजः ।
चतुष्पाद्विंशतिभुजो महाकायो महाबलः ॥ २,८.४८ ॥

जात्यञ्ज ननिभो दंष्ट्री लोहितग्रीव एव च ।
राक्षसेनौजसा युक्तो रूपेण च बलेन च ॥ २,८.४९ ॥

सत्त्वबुद्धिजितैर्चङ्क्षरा असैरेव रावणः ।
विसर्गदारुणः क्रूरो रावणो द्रावणस्तु सः ॥ २,८.५० ॥

हिरण्यकशिपुर्ह्यासीद्रावणः पूर्वजन्मनि ।
चतुर्युगानि राजाभूत्त्रयोदश स राक्षसः ॥ २,८.५१ ॥

ताः पञ्चकोट्यो वर्षाणां संख्याताः संख्यया द्विजाः ।
नियुतान्येकषष्टिं च शरदां गणितानि वै ॥ २,८.५२ ॥

षष्टिं चैव सहस्राणि वर्षाणां वै स रावणः ।
देवतानामृषीणां च घोरं कृत्वा प्रजागरम् ॥ २,८.५३ ॥

त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात् ।
रामं दाशरथिं प्राप्य सगणः क्षयमीयिवान् ॥ २,८.५४ ॥

महोदरः प्रहस्तश्च महापार्श्वः खरस्तथा ।
पुष्पोत्कटायाः पुत्रास्ते कन्या कुम्भीनसी तथा ॥ २,८.५५ ॥

त्रिशिरा दूषणश्चैव विद्युज्जिह्वः सराक्षसः ।
कन्यानुपालिका चैव वाकायाः प्रसवः स्मृतः ॥ २,८.५६ ॥

इत्येते क्रूर कर्माणः पौलस्त्या राक्षसा दश ।
दारुणाभिजनाः सर्वे देवैरपि दुरासदाः ॥ २,८.५७ ॥

सर्वे लब्धवराः शूराः पुत्रपौत्रैः समन्विताः ।
यक्षाणां चैव सर्वेषां पौलस्त्या चे च राक्षसाः ॥ २,८.५८ ॥

आगस्त्यवैश्वामित्राणां क्रूराणां ब्रह्मरक्षसाम् ।
वेदाध्ययनशीलानां तपोव्रतनिषेविणाम् ॥ २,८.५९ ॥

तेषामैडविडो राजा पौलस्त्यः सव्यपिङ्गलः ।
इतरे ये यज्ञजुषस्ते वै रक्षोगणास्त्रयः ॥ २,८.६० ॥

यातुधाना ब्रह्मधाना वार्त्ताश्चैव दिवाचराः ।
निशाचरगणास्तेषां चत्वारः कविभिः स्मृताः ॥ २,८.६१ ॥

पौलस्त्या नैरृताश्चैव आगस्त्याः कौशिकास्तथा ।
इत्येताः सप्त तेषां वै जातयो राक्षसाः स्मृताः ॥ २,८.६२ ॥

तेषां रुपं प्रवक्ष्यामि स्वाभाव्येन व्यवस्थितम् ।
वृत्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः ॥ २,८.६३ ॥

अष्टदंष्ट्राः शङ्कुकार्णा ऊर्द्ध्वरोमाण एव च ।
आकर्णा हारितस्याश्च मुञ्जधूम्रोर्ध्वमूर्धजाः ॥ २,८.६४ ॥

स्थूलशीर्षाः सिताभाश्च ह्रस्वसक्थिप्रबाहवः ।
ताम्रास्या लंबजिह्वोष्ठा लंबभ्रूस्थूलनासिकाः ॥ २,८.६५ ॥

नीलाङ्गा लोहितग्रीवा गंभीराक्षा विभीषणाः ।
महाघोरस्वराश्चैव विकटोद्बद्धपिण्डिकाः ॥ २,८.६६ ॥

स्थूलाश्च तुङ्गनासाश्च शिलासंहनना दृढाः ।
दारुणाभिजनाः क्रूराः प्रायशः क्लिष्टकर्मिणः ॥ २,८.६७ ॥

सकुण्डलाङ्गदापीडा मुकुटोष्णीषधारिणः ।
विचित्राभरणाश्चित्रमाल्यगन्धानुलेपनाः ॥ २,८.६८ ॥

अन्नादाः पिशितादाश्च पुरुषादाश्च ते स्मृताः ।
इत्येतद्रूपसाधर्म्यं राक्षसानां स्मृतं बुधैः ॥ २,८.६९ ॥

न समास्ते बले बुद्धौ युद्धे माया कृते तदा ।
पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ॥ २,८.७० ॥

भूताः सर्प्पाः पिशाचाश्च सृमरा हस्तिनस्तथा ।
वानराः किन्नराश्चेव मायुः किंपुरुषास्तथा ॥ २,८.७१ ॥

प्रागप्येते परिक्रान्ता मया क्रोधवशान्वयाः ।
अनपत्यः क्रतुर्ह्यस्मिन्स्मृतो वैवस्वतेंऽतरे ॥ २,८.७२ ॥

न तस्य पत्न्यः पुत्रा वा तेजः संक्षिव्य च स्थितः ।
अत्रेर्वशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः ॥ २,८.७३ ॥

तस्य पत्न्यस्तु सुन्दर्यों दशैवासन्पतिव्रताः ।
भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥ २,८.७४ ॥

भद्रा शूद्रा च मद्रा च शालभा मलदा तथा ।
बला हला च सप्तैता या च गोचपलाः स्मृताः ॥ २,८.७५ ॥

तथा तामरसा चैव रत्नकूटा च तादृशः ।
तत्र यो वंशकृच्चासौ तस्य नाम प्रभाकरः ॥ २,८.७६ ॥

मद्रायां जनयामास सोमं पुत्रं यशस्विनम् ।
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ २,८.७७ ॥

तमोऽभिभूते लोकेऽस्मिन्प्रभा येन प्रवर्त्तिता ।
स्वस्ति तेस्त्विति चोक्तो वै पतन्निह दिवाकरः ॥ २,८.७८ ॥

ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ २,८.७९ ॥

यज्ञेष्वनिधनं चैव सुरैर्यस्य प्रवर्तितम् ।
स तासु जनयामास पुत्रानात्मसमानकान् ॥ २,८.८० ॥

दश तान्वै सुमहता तपसा भावितः प्रभुः ।
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः ॥ २,८.८१ ॥

तेषां द्वौ ख्यातयशसौ ब्रह्मिष्ठौ सुमहौजसौ ।
दत्तो ह्यनुमतो ज्येष्ठो दुर्वासास्तस्य चानुजः ॥ २,८.८२ ॥

यवीयसी सुता तेषामबला ब्रह्मवादिनी ।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ॥ २,८.८३ ॥

अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम् ।
दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते ॥ २,८.८४ ॥

तस्य गोत्रान्वयाज्जाताश्चत्वारः प्रथिता भुवि ।
श्यावाश्वा मुद्गलाश्चैव वाग्भूतकगविस्थिराः ॥ २,८.८५ ॥

एतेऽत्रीणां तु चत्वारः स्मृताः पक्षा महौजसः ।
काश्यपो नारदश्चैव पर्वतोऽरुन्धती तथा ॥ २,८.८६ ॥

जज्ञिरे मानसा ह्येतेऽरुधत्यास्तन्निबोधत ।
नारदस्तु वसिष्ठायारुन्धती प्रत्यपादयत् ॥ २,८.८७ ॥

ऊर्द्ध्वरेता महातेजा दक्षशापात्तु नारदः ।
पुरा देवासुरे तस्मिन्संग्रामे तारकामये ॥ २,८.८८ ॥

अनावृष्ट्या हते लोके व्यग्रे शस्ते सुरैः सह ।
वसिष्ठस्तपसा धीमाञ्जीवयामास वै प्रजाः ॥ २,८.८९ ॥

अनेकफलमूलिन्य औषधीश्च प्रवर्तयन् ।
तास्तेन जीवयामास कारुण्यादौषधेन सः ॥ २,८.९० ॥

अरुन्धत्यां वसिष्टस्तु शक्तिमुत्पादय त्सुतम् ।
स्वाङ्गज जनयच्छक्तिरदृश्यन्त्यां पराशरम् ॥ २,८.९१ ॥

काल्यां पराशराज्जज्ञे कृष्णद्वैपायनः प्रभुः ।
द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः ॥ २,८.९२ ॥

उदपद्यन्त षडिमे पीवर्यां शुकसूनवः ।
भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः ॥ २,८.९३ ॥

कन्या कीर्तिमती चैव योगमाता धृतव्रता ।
जननी ब्रह्मदत्तस्य पत्नी सा त्वणुहस्य च ॥ २,८.९४ ॥

श्वेताः कृष्णाश्च पौराश्च श्यामधूम्राश्च चण्डिनः ।
ऊष्मादा दारिकाश्चैव नीलाश्चैव पराशराः ॥ २,८.९५ ॥

पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् ।
अत ऊर्द्ध्व निबोध त्वमिन्द्रप्रमति संभवम् ॥ २,८.९६ ॥

वसिष्ठस्य कपिञ्जल्यां घृताच्यामुदपद्यत ।
कुणीति यः समाख्यात इन्द्रप्रमतिरुच्यते ॥ २,८.९७ ॥

पृथोः सुतायां संभूतः पुत्रस्तस्याभवद्वसुः ।
उपमन्युः सुतस्तस्य यस्येमे ह्यौपमन्यवः ॥ २,८.९८ ॥

मित्रावरुणयोश्चैव कुण्डिनेयाः परिश्रुताः ।
एकार्षेयास्तथा चान्ये वसिष्ठा नाम विश्रुताः ॥ २,८.९९ ॥

एते पक्षा वसिष्ठानां स्मृता ह्येकादशैव तु ।
इत्येते ब्रह्मणः पुत्रा मानसा अष्ट विश्रुताः ॥ २,८.१०० ॥

भ्रातरः सुमहाभागा येषां वंशाः प्रतिष्ठिताः ।
त्रींल्लोकान्धारयन्तीमान्देवर्षिगणसंकुलान् ॥ २,८.१०१ ॥

तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
व्याप्ता येस्तु त्रयो लोकाः सूर्यस्येव गभस्तिभिः ॥ २,८.१०२ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे ऋषिवंशवर्णनं नामाष्टमोऽध्यायः ॥ ८॥