ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः २२ ब्रह्माण्डपुराणम्
अध्यायः २३
[[लेखकः :|]]
मध्यभागः, अध्यायः २४ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
तपस्विनं तदा राममेकाग्रमनसं भवे ।
रहस्येकान्तनिरतं नियतं शंसितव्रतम् ॥ २,२३.१ ॥

श्रुत्वा तमृषयः सर्वे तपोनिर्धूतकल्मषाः ।
ज्ञानकर्मवयोवृद्धा महान्तः शंसितव्रताः ॥ २,२३.२ ॥

दिदृक्षवः समाजग्मुः कुतूहलसमन्विताः ।
ख्यापयन्तस्तपः श्रेष्ठं तस्य राजन्महात्मनः ॥ २,२३.३ ॥

भृग्वत्रिक्रतुजाबालिवामदेवमृकण्डवः ।
संभावयन्तस्ते रामं मुनयो वृद्धसंमताः ॥ २,२३.४ ॥

आजग्मुराश्रमं तस्य रामस्य तपसस्तपः ।
दूरादेव महान्तस्ते पुण्यक्षेत्रनिवासिनः ॥ २,२३.५ ॥

गरीयः सर्वलोकेषु तपोऽग्र्यं ज्ञानमेव च ।
प्रशस्य तस्य ते सर्वेप्रययुः स्वं स्वमाश्रमम् ॥ २,२३.६ ॥

एवं प्रवर्त्ततस्तस्य रामस्य भगवाञ्छिवः ।
प्रसन्नचेता नितरां बभूव नृपसत्तम ॥ २,२३.७ ॥

जिज्ञासुस्तस्य भगवान् भक्तिमात्मनि शङ्करः ।
मृगव्याधवपुर्भूत्वा ययौ राजंस्तदन्तिकम् ॥ २,२३.८ ॥

भिन्नाञ्जनचयप्रख्यो रक्तान्तायतलोचनः ।
शरचापधरः प्रांशुर्वज्रसंहननो युवा ॥ २,२३.९ ॥

उत्तुङ्गहनुबाह्वंसः पिङ्गलश्मश्रुमूर्द्धजः ।
मांसविस्रवसागन्धी सर्वप्राणिविहिंसकः ॥ २,२३.१० ॥

सकण्टकुलतास्पर्शक्षतारूषितविग्रहः ।
सामटक्संचर्वमाणश्च मांसखण्डमनेकशः ॥ २,२३.११ ॥

मांसभारद्वयालंबिविधानानतकन्धरः ।
आरुजंस्तरसा वृक्षानूरुवेगेन संघशः ॥ २,२३.१२ ॥

अभ्यवर्त्तत तं देशं पादचारीव पर्वतः ।
आसाद्य सरसस्तस्य तीरं कुसुमितद्रुमम् ॥ २,२३.१३ ॥

न्यदधान्मासभारं च स मूले कस्यचित्तरोः ।
निषसाद क्षणन्तत्र तरुच्छायामुपाश्रितः ॥ २,२३.१४ ॥

तिष्ठन्तं सरसस्तीरे सोऽपश्यद्भृगुनन्दनम् ।
ततः स शीघ्रमुत्थाय समीपमुपसृत्य च ॥ २,२३.१५ ॥

रामाय सेषुचापाभ्यां कराभ्यां विदधेंऽजलिम् ।
सजलांभोदसन्नादगंभीरेण स्वरेण च ॥ २,२३.१६ ॥

जगाद भृगुशार्दूलं गुहान्तरविसर्पिणा ।
तोषप्रवर्षव्याधोऽहं वसाम्यस्मिन्महावने ॥ २,२३.१७ ॥

ईशोऽहमस्य देशस्य सप्राणितरुवीरुधः ।
चरामि समचित्तात्मा नानासत्त्वा मिषाशनः ॥ २,२३.१८ ॥

समश्च सर्वभूतेषु न च पित्रादयोऽपि मे ।
अभक्ष्यागम्यपेयादिच्छन्दवस्तुषु कुत्रचित् ॥ २,२३.१९ ॥

कृत्याकृत्यविधौचैव न विशेषितधीरहम् ।
प्रपन्नो नाभिगमनं निवासमपि कस्यचित् ॥ २,२३.२० ॥

शक्रस्यापि बलेनाहमनुमन्ये न संशयः ।
जानते तध्यथा सर्वे देशोऽयं मदुपाश्रयः ॥ २,२३.२१ ॥

तस्मान्न कश्चिदायाति ममात्रानुमतिं विना ।
इत्येष मम वृत्तान्तः कार्त्स्न्येन कथितस्तव ॥ २,२३.२२ ॥

त्वं च मे ब्रूहि तत्त्वेन निजवृत्तमशेषतः ।
कस्त्वं कस्मादिहायातः किमर्थमिह धिष्ठितः ।
उद्यतोऽन्यत्र वा गन्तुं किं वा तव चिकीर्षितम् ॥ २,२३.२३ ॥

वसिष्ठ उवाच
इत्येवमुक्तः प्रहसंस्तेन रामो महाद्युतिः ।
तूष्णीं क्षणमिव स्थित्वा दध्यौ किञ्चिदवाङ्मुखः ॥ २,२३.२४ ॥

कोऽयमेव दुराधर्षः सजलांभोदनिस्वनः ।
ब्रवीति च गिरोऽत्यर्थं विस्पष्टार्थपदाक्षराः ॥ २,२३.२५ ॥

किं तु मे महतीं शङ्कां तनुरस्य तनोति वै ।
विजातिसंश्रयत्वेन रमणीया तथा शराः ॥ २,२३.२६ ॥

एवं चिन्तयतस्तस्य निमित्तानि शुभानि वै ।
बभूवुर्भुवि देहे च स्वाभिप्रेतार्थदान्यलम् ॥ २,२३.२७ ॥

ततो विमृश्य बहुशो मनसाभृगुपुङ्गवः ।
उवाच शनकैर्व्याधं वचनं सूनृताक्षरम् ॥ २,२३.२८ ॥

जामदग्न्योऽस्मि भद्रं ते रामो नाम्ना तु भार्गवः ।
तपश्चर्तुमिहायातः सांप्रतं गुरुशासनात् ॥ २,२३.२९ ॥

तपसा सर्वलोकेशं भक्त्या च नियमेन च ।
आराधयितुमस्मिंस्तु चिरायाहं समुद्यतः ॥ २,२३.३० ॥

तस्मात्मर्वेश्वरं सर्वशरण्यमभयप्रदम् ।
त्रिनेत्रं पापदमनं शङ्करं भक्तवत्सलम् ॥ २,२३.३१ ॥

तपसा तोषयिष्यामि सर्वज्ञं त्रिपुरान्तकम् ।
आश्रमेऽस्मिनसरस्तीरे नियमं समुपाश्रितः ॥ २,२३.३२ ॥

भक्तानुकंपी भगवान्यावत्प्रत्यक्षतां हरः ।
उपैति तावदत्रैव स्थास्यामीति मतिर्मम ॥ २,२३.३३ ॥

तस्मादितस्त्वयाद्यैव गन्तुमन्यत्र युज्यते ।
न चेद्भवति मे हानिः स्वकृतेर्नियमस्य च ॥ २,२३.३४ ॥

माननीयोऽथ वाहं ते भक्त्या देशान्तरातिथिः ।
स्वनिवासमुपायातस्तपस्वी च तथा मुनिः ॥ २,२३.३५ ॥

त्वतसंनिधौ निवासो मे भवेत्पापाय केवलम् ।
तव चाप्यसुखोदर्कं मत्समीपनिषेवणम् ॥ २,२३.३६ ॥

स त्वंमदाश्रमोपान्ते परिचङ्क्रमणादिकम् ।
परित्यज्य सुखीभूया लोकयोरुभयोरपि ॥ २,२३.३७ ॥

वसिष्ठ उवाच
इति तस्य वचः श्रुत्वा स भूयो भृगुपुङ्गवम् ।
उवाच रोषताम्राक्षस्ताम्राक्षमिदमुत्तरम् ॥ २,२३.३८ ॥

ब्रह्मन् किमिदमत्यर्थं समीपे वसतिं मम ।
परिगर्हयसे येन कृतघ्नस्येव कांप्रतम् ॥ २,२३.३९ ॥

किं मयापकृतं लोके भवतोऽन्यस्य वा क्वचित् ।
अनागस्कारिणं दान्तं कोऽवमन्येत नामतः ॥ २,२३.४० ॥

सन्निधिः परिहर्त्तव्यो यदि मे विप्रपुङ्गव ।
दर्शनं सह संवासः संभाषणमथापि च ॥ २,२३.४१ ॥

आयुष्मताधुनैवास्मादपसर्त्तव्यमाश्रमात् ।
स्वसंश्रयं परित्यज्य क्वाहं यास्ये बुभुक्षितः ॥ २,२३.४२ ॥

स्वाधिवासं परित्यज्य भवता योदितः कथम् ।
इतोऽन्यस्मिन् गामिष्यामि दूरे नाहं विशेषतः ॥ २,२३.४३ ॥

गम्यतां भवतान्यत्र स्थीयतामत्र वेच्छया ।
नाहं चालयितुं शक्यः स्थानादस्मात्कथञ्चन ॥ २,२३.४४ ॥

वसिष्ठ उवाच
तच्छ्रुत्वा वचनं तस्य किञ्चित्कोपसमन्वितः ।
तमुवाच पुनर्वाक्यमिदं राजन्भृगूद्वहः ॥ २,२३.४५ ॥

व्याधजातिरियं क्रूरा सर्वसत्त्वभयावहा ।
खलकर्मरता नित्यं धिक्कृता सर्वजन्तुभिः ॥ २,२३.४६ ॥

तस्यां जातोऽसि पापीयान्सर्वप्राणिविहिंसकः ।
स कथं न परित्याज्यः सुजनैः स्यात्तु दुर्मते ॥ २,२३.४७ ॥

तस्माद्विहीनजातीयं विदित्वात्मानमब्यथ ।
शीघ्रमस्माद्व्रजान्यत्र नात्र कार्या विचारणा ॥ २,२३.४८ ॥

शरीरत्राणकारुण्यात्समीपं नोपसर्पसि ।
यथा त्वं कण्टकादीनामसहिष्णुतया व्यथाम् ॥ २,२३.४९ ॥

तथावेहि समस्तानां प्रियाः प्राणाः शरीरिणाम् ।
व्यथा चाभिहतानां तु विद्यते भवतोऽन्यथा ॥ २,२३.५० ॥

अहिंसा सर्वभूतानामिति धर्मः सनातनः ।
एतद्विरुद्धाचरणान्नित्यं सद्भिर्विगर्हितः ॥ २,२३.५१ ॥

आत्मप्राणाभिरक्षार्थं त्वमशेषशरीरिणः ।
हनिष्यसि कथं सत्सुनाप्नोषि वचनीयताम् ॥ २,२३.५२ ॥

तस्माच्छीघ्रं तु भोगच्छ त्वमेव पुरुषाधम ।
त्वया मे कृत्यदोषस्य हानिश्च न भविष्यति ॥ २,२३.५३ ॥

न चत्स्वयमितो गच्छेश्ततस्तव बलादपि ।
अपसर्पणताबुद्धिमहमुत्पादये स्फुटम् ॥ २,२३.५४ ॥

क्षणार्द्धमपि ते पाप श्रेयसी नेह संस्थितिः ।
विरुद्धाचरणो नित्यं धर्मद्रिष्को लभेच्च शाम् ॥ २,२३.५५ ॥

वसिष्ठ उवाच
रामस्य वचनं श्रुत्वा प्रीतोऽपि तमिदं वचः ।
उवाच संक्रुद्ध इव व्याधरूपी पिनाकधृक् ॥ २,२३.५६ ॥

सर्वमेतदहं मन्यं व्यर्थं व्यवसितं तव ।
कुतस्त्वं प्रथमो ज्ञानी कुतः शंभुः कुतस्तपः ॥ २,२३.५७ ॥

कुतस्त्वं क्लिश्यसे मूढ तपसा तेन तेऽधुना ।
घ्रुवं मिथ्याप्रवृत्तस्य न हि तुष्यति शङ्करः ॥ २,२३.५८ ॥

विरुद्धलोकाचरणः शंभुस्तस्य वितुष्टये ।
प्रतपत्यबुधो मर्त्त्यस्त्वां विना कः मुदुर्मते ॥ २,२३.५९ ॥

अथ वा च गतं मेऽद्य युक्तमेतदसंशयम् ।
संपूज्य पूजकविद्धौ शंभोस्तव च संगमः ॥ २,२३.६० ॥

त्वया पूजयितुं युक्तः स एव भुवने रतः ।
संपूजकोऽपि तस्य त्वं योग्यो नात्र विचारणा ॥ २,२३.६१ ॥

पितामहस्य लोकानां ब्रह्मणः परमेष्ठिनः ।
शिरश्छित्त्वा पुनः शंभुर्ब्रह्महत्यामवाप्तवान् ॥ २,२३.६२ ॥

ब्रह्महत्याभिभूतेन प्रायस्त्वं शंभुना द्विज ।
उपदिष्टोऽसि तत्कर्तुं नोचेदेवं कथं कृथाः ॥ २,२३.६३ ॥

तादात्म्यगुणसंयोगान्मन्यं रुद्रस्य तेऽधुना ।
तपः सिद्धिरनुप्राप्ता कोलेनाल्पीयसा मुने ॥ २,२३.६४ ॥

प्रायोऽद्य मातरं हत्वा सर्वैलोङ्कैर्निराकृतः ।
तपोव्याजेन गहने निर्जने संप्रवर्त्तसे ॥ २,२३.६५ ॥

गुरुस्त्रीब्रह्महत्योत्थपातकक्षपणाय च ।
तपश्चरसि नानेन तपसा तत्प्रणश्यति ॥ २,२३.६६ ॥

पातकानां किलान्येषां प्रायश्चित्तानि संत्यपि ।
मातृद्रुहामवेहि त्वं न क्वचित्किल निष्कृतिः ॥ २,२३.६७ ॥

अहिंसालक्षणो धर्मो लोकेषु यदि ते मतः ।
स्वहस्तेन कथं राम मातरं कृत्तवानसि ॥ २,२३.६८ ॥

कृत्वा मातृवधं घोरं सर्वलोकविगर्हितम् ।
त्वं पुनर्धार्मिको भूत्वा कामतोऽन्यान्विनिन्दसि ॥ २,२३.६९ ॥

पश्यता हसतामोघं आत्मदोषमजानता ।
अपर्याप्तमहं नन्यं परं दोषविमर्शनाम् ॥ २,२३.७० ॥

स्वधर्मं यद्यहं त्यक्त्वा वर्त्तेयमकुलोभयम् ।
तर्हि गर्हय मां कामं निरुप्य मनसा स्वयम् ॥ २,२३.७१ ॥

मातापितृसुतादीनां भरणायैव केवलम् ।
क्रियते प्राणिहननं निजधर्मतया मया ॥ २,२३.७२ ॥

स्वधर्मादामिषेणाहं सकुटुम्बो दिनेदिने ।
वर्त्तामि सापि मे वृत्तिर्विधात्रा विहिता पुरा ॥ २,२३.७३ ॥

मांसेन यावता मे स्यान्नित्यं पित्रादि पोषणम् ।
हनिष्ये चेत्तदधिकं तर्हि युज्येयमेनसा ॥ २,२३.७४ ॥

यावत्पोषणघातेन न वयं स्याम निन्दिताः ।
तदेतत्संप्रधार्य त्वं निन्दवा मां प्रशंस वा ॥ २,२३.७५ ॥

साधु वासाधु वा कर्म यस्य यद्विहितं पुरा ।
तदेव तेन कर्त्तव्यमापद्यपि कथञ्चन ॥ २,२३.७६ ॥

निरूपय स्वभुद्ध्या त्वमात्मनो मम चान्तरम् ।
अहं तु सर्वभावेन मित्रादिभरणे रतः ॥ २,२३.७७ ॥

संत्यज्य पितरं वृद्धं विनिहत्य च मातरम् ।
भूत्वा तु धार्मिकस्त्वं तु तपश्चर्तुमिहागतः ॥ २,२३.७८ ॥

ये तु मूलविदस्तेषां विस्पष्टं यत्र दर्शनम् ।
यथाजिह्वं भवेन्नात्र वचसापि समीहितुम् ॥ २,२३.७९ ॥

अहं तु सम्यग्जानामि तव वृत्तमशेषतः ।
तस्मादलं ते तपसा निष्फलेन भृगूद्वह ॥ २,२३.८० ॥

सुखमिच्छसि चेत्त्यक्त्वा कायक्लेशकरं तपः ।
याहि राम त्वमन्यत्र यत्र वा न विदुर्जनाः ॥ २,२३.८१ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे त्रयोविंशतितमोऽध्यायः