अथर्ववेदः/काण्डं २०/सूक्तम् १२७

विकिस्रोतः तः
← सूक्तं २०.१२६ अथर्ववेदः - काण्डं २०
सूक्तं २०.१२७
कुन्तापसूक्तानि
सूक्तं २०.१२८ →

इदं जना उप श्रुत नराशंस स्तविष्यते ।
षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥१॥
उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश ।
वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥२॥
एष इषाय मामहे शतं निष्कान् दश स्रजः ।
त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥३॥
वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।
नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥४॥
प्र रेभासो मनीषा वृषा गाव इवेरते ।
अमोतपुत्रका एषाममोत गा इवासते ॥५॥
प्र रेभ धीं भरस्व गोविदं वसुविदम् ।
देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥६॥
राज्ञो विश्वजनीनस्य यो देवोमर्त्यामति ।
वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥७॥
परिछिन्नः क्षेममकरोत्तम आसनमाचरन् ।
कुलायन् कृण्वन् कौरव्यः पतिर्वदति जायया ॥८॥
कतरत्त आ हराणि दधि मन्थां परि श्रुतम् ।
जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥९॥
अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् ।
जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः ॥१०॥
इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम् ।
ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥११॥
इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः ।
इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥१२॥
नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत्।
मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥१३॥
उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् ।
वनादधिध्वनो गिरो न रिष्येम कदा चन ॥१४॥

भाष्यम्

श्रीजगन्नाथवेदालंकारः

(कुन्तापसूक्तसौरभम् , गुरुगङ्गेश्वरधाम, वृन्दावनम्) ओ३म्

अथ कुन्तापसूक्तानि'
अथर्ववेदः २०-१२७
तिस्रो नाराशंस्यः । अतः परं त्रिंशद् ऋच इन्द्रगाथाः ।

इ॒दं जना॒ उप॑ श्रुत॒ नरा॒शंस॒ स्तवि॑ष्यते।
ष॒ष्टिं स॒हस्रा॑ नव॒तिं च॑ कौरम॒ आ रु॒शमे॑षु दद्महे ।।१।।
इदं जना उप श्रुत नराशंस स्तविष्यते।
षष्टिं सहस्रा नवतिं च कौरम पा रुशमेषु दद्महे ॥ १॥
‘जनाः' हे मनुष्याः ! 'इदम् उप श्रुत' इदं वक्ष्यमाणं वचः सादरं, सावहितं शृणुत । 'नराशंस' नरस्य नरोत्तमस्य, देवस्य पुरुषोत्तमस्य आशंसः स्तुतिः 'स्तविष्यते' उपक्रान्ता भविष्यति, कीर्तयिष्यते । अथवा, 'नराशंस' नरेषु प्रजासु आशंसः स्तुतिर्यस्य देवस्य स देवः पुरुषोत्तमः ‘स्तविष्यते' कीर्तयिष्यते वर्णयिष्यते वा । 'कौरम' कौ पृथिव्यां रमते सृष्टिक्रीडां लीलां वा करोतीति तथाभूत ! यद्वा, कौ पृथिव्यां रमयति आनन्दयति जीवान् स्वलीलयेति तथोक्त देवाधिदेव ! 'रुशमेषु' रुशन्ति हिंसन्ति, विनाशयन्ति दहन्ति वा इन्द्रियमलानि, दोषदुरितानि पापानि चेति रुशमानि नाडीचक्राणि निगृहीतप्राणानि, यद्वा, रुशन्ति हिंसन्ति इति रुशः साधनायाः प्रतिबन्धका अन्तराया: तान् मिन्वन्ति प्रक्षिपन्ति, निरस्यन्तीति तथोक्तानि प्राणायामविशुद्धानि नाडीचक्राणि तेषु मध्ये, तथा चाह मनु: --
दह्यन्ते ध्मायमानानां धातूनां हिं यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ।। (६.७१)
तेषु निरुद्धप्राणेषु नाडीचक्रेषु मध्ये वयं षष्टिं सहस्रा नवतिं च' नवत्यधिकषष्टिसहस्रसंख्यका नाडी:, सहस्रशब्दोऽत्र बहुत्ववाची असंख्यातवचनो वा, असंख्याता नाडीरित्यर्थः 'आ दद्महे' प्रतिगृह्णीमः, प्राणायामसाधनाया आधारत्वेन आश्रयामः, प्राणनियमनपूर्वकं सुषुम्णायां तव साक्षात्कारसिद्धये हे कौरम पृथिव्युपलक्षितलोकलोकान्तरलीलारसिक !
प्राणायामपरायणस्य साधकस्य नाडीनाम् आत्मपरमात्मप्राप्त्युपकारकत्वं च श्रुत्या अवसीयते । तथा चाम्नातं प्रश्नोपनिषदि----
हृदि ह्येष आत्मा। अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ।।
अथैकयोर्ध्व उदान: पुण्येन पुण्यं लोकं नयति ।...३.६-७
अथापि कठोपनिषदि—
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनि:सृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ।। २.३.१६
अलमतिप्रपञ्चेन स्वानुभवैकवेद्यत्वाद् विषयस्य ।

उष्ट्रा॒ यस्य॑ प्रवा॒हणो॑ व॒धूम॑न्तो द्वि॒र्दश॑।
व॒र्ष्मा रथ॑स्य॒ नि जि॑हीडते दि॒व ई॒षमा॑णा उप॒स्पृशः॑ ।।२।।
उष्ट्रा यस्य प्रवाहिणो वधूमन्तो द्विर्दश ।
वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥ २॥
'यस्य' यस्य नराशंसस्य पुरुषोत्तमस्य 'द्विर्दश' द्विरावृत्ता दश विंशतिरित्यर्थः 'उष्ट्रा:' ओषन्ति दहन्ति समूलाम् अविद्यां प्राणशक्तिविकारान् वा इति तथोक्ता: समूलाविद्याविदाहिकाः प्राणशक्तिविकारविनाशिका वा शक्तय:, यद्वा, उष दाहे इत्यस्माद् भावे क्विपि 'उष्' शब्दो निष्पाद्यः । उष: दाहात् आध्यात्मिकाधिभौतिकाधिदैविकत्रितापात, दु:खदावानलात त्रायन्ते इति तास्तथाभूताः शक्तयः 'वधूमन्त:' वैरिवधविधायिन्यः, साधकानां साधनाध्वनः सकल विघ्न बाधासमूलोच्छेदिकाः 'प्रवाहिणः' प्रकृष्टं प्रशस्तं स्थानं पदं वा वहन्ति प्रापयन्तीति तथाभूताः परमपदप्रापिका: सन्ति इति शेषः । 'यस्य रथस्य' यस्य पुरुषोत्तमस्य सम्बन्धिनो रथस्य, रंहति इति रथः (रंहतिर्गतिकर्मा, निघ. २.१४), यद्वा, रङ्घते इति रथः (रघि गतौ, भ्वा. आ.) रंहते रङ्घतेर्वा रमु क्रीडायां रमणे च (भ्वा. आ.) इत्यतो वा थप्रत्यये व्युत्पन्नो रथशब्दो गतिशीलानन्दस्य प्रतीकम् । रथः शक्तेर्गत्याः प्रतीकम् इति श्रीअरविन्दपादाः (वेदरहस्य, पूर्वार्द्ध, पृ० ३६७) । रथस्य गतिशील[सक्रिय] आनन्दस्य ' वर्ष्मा' शिखराणि साधकेन उत्तरोत्तरमारुह्यमाणानि 'दिव: उपस्पृश: ईषमाणा:' द्युलोकस्य आनन्दस्य उच्चतमभूमिकाया: स्पर्शं कामयमानानि 'नि जिहीडते' निरन्तरम् उच्चात्युच्चतरम् आरोहन्ति, दिवम् अधिकर्तुम् उद्युञ्जते इति भावः । 'यत् सानोः सानुमारुहद् भूर्यस्पष्ट कर्त्वम्' (ऋ० १. १०. २, साम० १३४५) इत्यत्र निर्दिष्टम इन्द्रस्य जीवात्मन: सानो: सानौ आरोहणम अत्रापि विवक्षितम् इति दिक् ।
विशेष-विवरणम्
उष्ट्रा:---ओषन्ति दहन्तीत्यर्थे उष दाहे (भ्वा. प. से.) इत्यतः औणादिकः ष्ट्रन्, स च कित् (उणा. ४. १६३) । कित्त्वाद् गुणाभावः।
भगवत्पाददयानन्दसरस्वतीस्वामिनः स्वोपज्ञे वैदिकलौकिककोषाभिधव्याख्यासहिते उणादिकोषे 'उषिखनिभ्यां कित्' (उणा० ४.१६३) इति सूत्रस्य व्याख्यायाम् 'ओषति दहतीति उष्ट्र: पशुजातिभेदो वा' इति समुल्लिखन्तः, दाहकमात्रार्थे उष्ट्रपदं व्युत्पाद्य 'वा'कारेण तस्य पशुविशेषवाचकत्वमपि निर्दिशन्त: वेदे यौगिकार्थस्य प्राधान्यं रूढार्थस्य च गौणत्वमभिप्रयन्ति ।
द्विर्दश-इमा विंशतिः शक्तयस्तावद् ऋग्वेदवर्णिता दश गावो द्विरावृत्ताः । तत्रैष निगमो भवति--
चत्वार ईं बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते ।
त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान् ॥ __(ऋ० ५.४७.४) अस्मिन् मन्त्रवर्णे या: सत्-चिद्-आनन्दस्वरूपत्रिधातुमय्यः, तत्त्वत्रयात्मिका दश गावश्चिज्ज्योतिषोऽर्चिषः परिकीर्तिताः ता हि परिपूतमनसो दश सूक्ष्मविचारशक्तयः । अत एव ता विशुद्धमनश्चेतनाप्रतीकायमान-द्युलोक-दिगन्तस्पृश इत्युक्तमत्र दिवः अन्तान् परि सद्यः चरन्ति' इति मन्त्रवर्णैः । तासां द्विरावृत्तता तु स्वप्रभाव विस्तारार्थं भौतिकचेतनायां प्रवेशसमकालं स्थूलमनसि तदनुरूपरूपग्रहणादिति बोध्यम् । तथा चाहुः श्रीअरविन्दपादाः ____
“परिस्रुता: सोमा आनन्दरसा इन्द्रमुशन्ति -- 'सुता इमे त्वायवः' (ऋ० १. ३.४) । ज्ञानज्योतिर्मयमनःस्वरूप इन्द्रदेवो यज्ञवेदीमुपसद्य स्वक्रिया: सम्पादयितुमस्मान स्वायत्तीकरोतु इति ते कामयन्ते । परिशोधिता: खलु ते 'अण्वीभिस्तना पूतासः' (ऋ० १.३.४), सायणभाष्यानुसारतः तावत् ते "अङ्गुलिभिस्तन्वा च" परिपूता इति अस्य चरणस्यार्थः । परन्तु योऽर्थोऽस्य नः प्रतिभाति तदनुसारेण ते "पवित्रमनसः सूक्ष्म विचारशक्तिभिः भौतिकचेतनायां स्वविस्तारेण च परिपूताः ।" यतो हि यदि 'अण्वी' शब्देन अङ्गुलय एव विवक्षिताः तर्हि इमा "दश अङ्गुलयः" अश्विनोः वध्वाः सूर्यदुहितुः सूर्याया दश अङ्गुलयः । अस्य प्रकृतसूक्तस्य (ऋ० १.३) ऋषिर्मधुच्छन्दा अत्र अतिसंक्षेपेण प्रोक्तमिममेव विचारं नवममण्डलीयप्रथमसूक्ते सविस्तरं प्रतिपादयति । सोमस्य देवतां संबोधयन्नसौ आचष्टे, सूर्यस्य दुहिता ते सोमं पुनाति, यदा स सततविस्तारेण वालन्यां परिस्रुतः सर्वतः प्रसरति", 'वारेण शश्वता तना' (ऋ० ६.१.६) । ततश्च तत्कालमेव स इदमप्यभिधत्ते----"सूक्ष्मशक्तयः स्वप्रयत्ने (स्वकीये महाकार्ये, महासङ्घर्षे, उदात्ताभीप्सायाम् - 'समर्ये') इममाददते, ताः शक्तयश्च समुल्लङ्घनीयद्युलोके विद्यमाना दश वध्वः स्वसारो वा।".. ... ... . . . "विशुद्धमनोवर्तिन्यस्ता: सूक्ष्मा: (अण्वी:) दश स्वसारो, दश वध्वः (योषणः) वा अन्यत्र 'दश' प्रक्षेप्त्र्यः (क्षिपः) प्रोक्ताः, यतस्ताः सोमं प्रतिगृह्य तस्य मार्गे प्रगमयन्ति। इमाः सम्भवतस्ता एव या वेदे क्वचित् क्वचित् दश किरणा: (दश गावः) इति कीर्तिताः । 'नप्तीभिः विवस्वतः' (ऋ० ९.१४.५) अर्थात् सूर्यस्य पौत्रीभिः, इति पदाभ्यां ता एव निरूपिताः प्रतीयन्ते । उपरिनिर्दिष्टे परिशोधनकार्ये 'सप्त धीतयः', विचारात्मकचेतनाया: सप्त रूपाणि तासां साहाय्यमनुतिष्ठन्ति ।"
अथ 'यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति' (५.२७.२) इत्यस्य व्याख्यायां त आचक्षते--'वर्षस्य द्वादशसु मासेषु यज्ञस्य (द्वादशमासोपलक्षितेषु ) द्वादशसु कालेतेषु च याः क्रमिकचित्प्रभात (गो) रूपायिता दिव्यज्ञानदीप्तयो भवन्ति तासां प्रतीकात्मकसङ्ख्येयं विंशत्यधिकशतमिति । अत्र पुनः ज्ञानप्रदीप्तमनसः शक्तीनां दशानां सूक्ष्मस्वसृणामनुरूपा दशगुणिताद्वादश गावः (दिव्यज्ञानप्रभाः) अभिप्रेताः।" (Cent. Vol. II, P. 241)
अन्यत्र च तैरुक्तम्-“दश सन्ति सूक्ष्मशक्तय: प्रकाशितमनसः, तासु एकैकया स्वीयसमग्रपूर्णता समुपलभ्या।" (-ibid. P. 241)
ज्योतिर्मयमनस: इमा दश शक्तय एव द्विरावृत्ताः प्रकृतमन्त्रगत द्विर्दश'पदेन विवक्षिताः । इमाश्च वेदेऽन्यत्रापि वर्णिता विलोक्यन्ते --
परिद्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् ।
आ यस्मिन् गावः सुहताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः ।।
समी रथं न भुरिजोरहेषत दश स्वसारो अदितेरुपस्थ आ ।
जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन् ।। (ऋ० ९.७१.४-५) साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्री: । (ऋ० ९.९३.१)
अभि प्रियाणि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् ।
इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ।। (ऋ० ९.९७.१२)

ए॒ष इ॒षाय॑ मामहे श॒तं नि॒ष्कान्दश॒ स्रजः॑।
त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् ।।३।।
एष इषाय मामहे शतं निष्कान् दश स्रजः ।
त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥ ३॥
'एषः' स एष पूर्वमन्त्रद्वये प्रोक्तः पुरुषोत्तमः 'इषाय' इच्छति, अभीप्सति, अन्विच्छति, अन्विष्यति वा देवादिदेवं पुरुषोत्तममिति इषः भगवदन्वेषक:, परमार्थाभीप्सुः तस्मै, यद्वा, यजति पुरुषोत्तमम् अन्तर्यज्ञेन इति इष आत्मयाजी तस्मै, अपि वा, इष्णाति अन्तर्यागं कर्तुमभीक्ष्णमुद्युङ्क्ते इति तस्मै योगयज्ञोद्योगिने 'शतं निष्कान्' शतं स्वर्णमुद्राः, स्वर्णञ्च परमसत्यस्य विज्ञानमयसत्यस्य वा प्रतीकमित्यतः शतं बहुसङ्ख्यकान् निष्कान् सत्यचिद्रश्मीन इत्यर्थः 'दश स्रजः' दश मालाः, देवप्रदत्तत्वाद् दिव्याः, दिव्यसम्पत्संवर्धिकाः 'अर्वतां त्रीणि शतानि' त्रिशतम् अश्वान् अध्यात्मशक्तिरूपान्, अश्वस्य अध्यात्मशक्तेः प्रतीकत्वात्, ‘गोनाम् दश सहस्रा' गवां ज्ञानरश्मीनां दिव्यप्रकाशरश्मीनां वा दशसहस्रं 'मामहे' दत्त ।
इति नाराशंस्य:

तिस्रो रैभ्य ऋचः

वच्य॑स्व॒ रेभ॑ वच्यस्व वृ॒क्षे न॑ प॒क्वे श॒कुनः॑।
नष्टे॑ जि॒ह्वा च॑र्चरीति क्षु॒रो न भु॒रिजो॑रिव ।।४।।
वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः।
नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥ ४॥
परमेश्वरः पुरुषोत्तमः तदभीप्सुं पूर्वमन्त्रोल्लिखितम् इषम् उपदिशति -- 'रेभ' हे मद्भक्तिप्रवण स्तोतः ! 'वच्यस्व वच्यस्व' पुनः पुनरुच्चर स्तुतिगिरम् पौनःपुन्येन भृशं च स्तुहि, वीप्सार्था द्विरुक्तिः । तत्र दृष्टान्त:--'न' यथा 'पक्वे वृक्षे' पक्वफलसमृद्धे तरौ उपविष्ट: 'शकुन: पक्षी सहर्षं, पुनः पुनः भृशं च वक्ति, कलं किमपि रौति कूजति वा, अपि च ‘पक्वे वृक्षे' अस्मिन् व्रश्चनीयदेहवृक्षे जरापरिणते सति, अथवा व्रश्चनीयविनश्वरदेहवृक्षे परिपक्वज्ञाने परिणतप्रज्ञे वा सति अस्मिन् आसीन: 'शकुनः' आत्मपक्षी, हंसस्वरूप आत्मा आत्मसुपर्णो वा त्वं, हे रेभ, स्वयं स्तुतिपरः सन् अन्यान् स्वापेक्षया न्यूनज्ञानान् अपरिपक्वप्रज्ञान् वा 'वच्यस्व वच्यस्व' प्रवचनैः उपदिश उपदिश अतिशयेन भक्तिमार्गम् इति श्लेषेण ध्वनितोऽयमर्थः सुधीभिरवधेयः ।
स्तुतेरुपदेशस्य च अविरामतायां निदर्शनद्वयं प्रस्तौति भगवान वेद: --'इव' यथा 'नष्टे' आधिव्याधिभिः व्याप्ते सति आत्मीये तनयादौ स्वात्मनि वा 'भुरिजोः जिह्वा चर्चरीति' भरणपोषणकर्त्रोः पित्रोः रसना चाचलीति, अविरतं चलति आत्मीयस्य स्वात्मनो वा कष्टक्लेशनिवारणार्थं भगवत्स्तवनपरायणा, अपि च 'क्षुरः न' यथा क्षुरः नापितास्त्रं चलति अनवरतं केशकर्तनार्थम् । हे रेभ ! हे भक्तवर ! स्तवनेन स्वात्मनः उपदेशेन च अन्येषां शोकसन्तापान् तथा छिन्द्धि भिन्द्धि यथा नापितः क्षुरेण केशान् कृन्तति इति अस्या उपमाया रहस्यार्थः ।

प्र रे॒भासो॑ मनी॒षा वृषा॒ गाव॑ इवेरते।
अ॑मोत॒पुत्र॑का ए॒षाम॒मोत॑ गा॒ इवा॑सते ।।५।।
प्र रेभासो मनीषा वृषा गाव इवेरते।
अमोत पुत्रका एषाममोत गा उपासते ॥ ५॥
'रेभासः' स्तोतार: ‘मनीषाः' स्वा मतीर्धियो वा 'प्र ईरते' प्रेरयन्ति परमेश्वरं प्रति इति शेषः । तत्र उपमामुपन्यस्यति-'वृषाः गावः इव' यथा वृषा गोपतिः इन्द्रः गावः गा: दिव्यप्रकाशरश्मीन् प्रेरयति स्तोतॄन् प्रति ।
'वृषाः' इत्यत्र वचनव्यत्ययेन एकवचनार्थे बहुवचनम् । गाव इत्यत्र विभक्तिव्यत्ययेन द्वितीयार्थे प्रथमा। वेदे वर्णिता गावश्च चिज्ज्योतिष्प्रदास्तमस्स्तोमनिरासका रश्मय एवेति मन्त्रवर्णैरेवाम्नायते--सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव बाहू (ऋ० ७.७९.२), प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः (ऋ० ४.५२.५) इत्यादिभिः ।
वृषा गाव इवेत्युपमया स्तोतुर्दिव्यालोकप्राप्तिरपि सूच्यते दिव्य (ईश्वरीय). मनसोऽधिष्ठातुरिन्द्रस्य प्रसादात् ।
ते रेभासश्च 'अमोत अमोत' सर्वथा बन्धनमुक्ता भवन्ति, अमोत इत्यत्र प्रथमाबहुवचनस्य लुक्, द्विरुक्तिरादरार्था, प्रकृतार्थस्य दार्ढ्यनिगमनार्था असन्दिग्धतासूचनार्था वा । 'एषां पुत्रकाः' एषां स्तोतॄणां तनयाश्च, अनुकम्पायां कः, देवानुकम्पापात्रपुत्राश्चेत्यर्थः ‘गा उप आसते' वाणीः, वंशपरम्परागताः सद्विद्या इति भावः, दिव्यचैतन्यरश्मीन् वा सेवन्ते । 'सर्वेऽपि रश्मयो गाव उच्यन्ते' (निरु० २.२.६), 'येन गौरभिप्रवृत्ता'.... 'वागेषा माध्यमिका' (निरु० २.२.९) । 'स्वर्गेषु-पशु-वाग्-वज्र-दिङ्-नेत्र-घृणि-भू-जले । लक्ष्य दृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्न-शेफसोः ।।' इत्यमरः ( ३.२५)

प्र रे॑भ॒ धीम्भ॑रस्व गो॒विदं॑ वसु॒विद॑म्।
दे॑व॒त्रेमां॒ वाचं॑ स्रीणी॒हीषु॒र्नावी॑र॒स्तार॑म् ।।६।।
प्र रेभ धियं भरस्व गोविदं वसुविदम् ।
देवत्रेमां वाचं कृधीषुं न वीरो अस्ता॥ ६॥
'रेभ' हे स्तोतः ! 'गोविदं' गां गोलोकं स्वर्गविशेषं तन्निवासिनमानन्दस्वरूपं विष्णुञ्च वेदयति प्रज्ञापयति प्रापयति चेति तां, यद्वा, गाः चैतन्यरश्मीन, ज्ञानज्योतींषि वेदयति प्रापयतीति ताम् इति धियो विशेषणम् । गोलोकश्च वैष्णवमतेन शाश्वतसौन्दर्यानन्दयोः लोकः, ज्योतिर्मयदिव्यलोकेष्वन्यतमः । तं लोकं स्वयं विन्दति अन्याँश्च निजभक्तान् वेदयति प्रापयतीत्यतो भगवान् श्रीकृष्णो गोविन्द इत्युच्यते । 'गोविदम्' इति पदं गोविन्दपदं स्मारयति तदर्थं च ध्वनयति। 'वसुविदम्' पिण्डे ब्रह्माण्डे च सर्वत्र वसतीति वसुर्भगवान् वासुदेवः, तं वेदयति बोधयति प्रापयति चेति तां, यद्वा, वसति सर्वभूतेषु वस्तुसत्तात्मना इति वसु वस्तुमात्रस्य अन्तःस्थसारतत्त्वं, तदन्तर्वतिवास्तविकैश्वर्यं परतत्त्वं परमार्थो वा तम्, आत्मानं परमात्मानं चेत्यर्थः, वेदयति अवगमयति अधिगमयति चेति तां तथोक्ताम् ‘धियम्' बुद्धिम् अपि वा, ‘गोविदं वसुविदम् धियम्' गां गोलोकं वेदयते स्तोतरि निवासयति दृढप्रतिष्ठितं करोतीति तां, स्तोतरि गोलोकस्य तद्वासिविष्णोरित्यर्थः शाश्वतप्रतिष्ठाकरीं धियम्, गोर्गोलोको वा आधारे आधेयलक्षणया तद्वासिविष्णुमाचष्टे । एवमेव स्तोतरि वसोः वासुदेवस्य तदीयवसुनश्च सुचिरनिवाससम्पादिकां धियम् । अस्मिन्नर्थे विद चेतनाख्याननिवासेषु इति चौरादिको वेदयतिः शरणीकरणीय इति दिक् । 'धियम्' ध्यानचिन्तनक्षमां बुद्धिं, ध्यायतेऽनयेति धीरिति तद्व्युत्पत्तेः, 'प्र भरस्व' प्रकर्षेण सम्पादय । ‘इमां वाचम्' एतां स्तुतिलक्षणां गिरञ्च देवत्रा' देवेषु देवादिदेवे परमेश्वरे वा तत्प्राप्तिनिमित्तमित्यर्थः, निमित्तसप्तमी 'कृधि' रचय, उपकल्पय प्रयुङ्क्ष्वेति भावः । तत्र दृष्टान्तः– 'अस्ता वीरः इषुं न' यथा शरप्रक्षेप्ता शूरो धनुर्धर: स्वबाणं लक्ष्यवेधार्थम् उपकल्पयति मुञ्चति च ।।
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥
इति श्रुतिनिदर्शितदिशा (मुण्ड० उ० २.२.४, ध्या०बि० १४) स्तोता स्वधियं शरवत्तन्मयीं कुर्यादिति 'अस्ता वीर इषुं न' इति उपमाया हार्दम् ।

अथ चतस्रः पारिक्षित्यः


राज्ञो॑ विश्व॒जनी॑नस्य॒ यो दे॒वोमर्त्याँ॒ अति॑।
वै॑श्वान॒रस्य॒ सुष्टु॑ति॒मा सु॒नोता॑ परि॒क्षितः॑ ।।७।।
राज्ञो विश्वजनीनस्य यो देवोऽमर्त्याँ अति ।
वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षित: ॥ ७ ॥
'यः देवः' य आदिदेवः परमेश्वरः 'अमर्त्यान् अति' अमरान् सकलदेवान् अतीत्य वर्तते तस्य, यत्तदोर्नित्यसम्बन्धात् तस्येति पदमाक्षिप्यते, 'वैश्वानरस्य' विश्वेषु सर्वेषु नरेषु मनुष्येषु देवेषु च विद्यमानस्य विराट्पुरुषस्य विश्वात्मनः 'विश्वजनीनस्य' सर्वजनहितकरस्य 'परिक्षितः' परि परितः सर्वतः क्षियति निवसति स्वयम्, निवासयति च सर्वभूतानि इति परिक्षित्, क्षि निवासगत्योः इति तौदादिकाद् धातोः परिपूर्वात् क्विपि तुकि च परिक्षित् इति साधु । क्षियतेरत्र अन्तर्भावितण्यर्थत्वमपि विवक्षितम् । तथा सति परिक्षित् सर्वभूताधिवासः, सर्वेषां निवासप्रदाता चेति द्वावप्यर्थौ प्रसिद्ध्यतः । क्षियतेः गत्यर्थग्रहणाच्च परितः सर्वतः क्षियति अप्रतिहतगतिर्भवति गमयति च सर्वान् कर्माध्यक्षतया इत्यर्थोऽपि अवसीयते । तथा च --
‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा।
कर्माध्यक्ष: सर्वभूताधिवास: साक्षी चेता केवलो निर्गुणश्च ।।
इति श्रुतेः ( श्वेता० ६.११) कृत्स्नोऽप्यर्थः 'परिक्षित्'पदेन समर्प्यते । तस्य तथाभूतस्य परिक्षितः ‘राज्ञः' राजराजेश्वरस्य कोटिकोटिब्रह्माण्डशासकस्य ‘सुष्टुतिम्' उत्तमां, सर्वाङ्गपूर्णां स्तुतिम् ‘आ सुनोत' समन्तात् मथ्नीत, तदीयसद्गुणसिन्धुं समवगाह्य स्तुतिसारं सम्प्रकाशयत।

प॑रि॒छिन्नः॒ क्षेम॑मकरो॒त्तम॒ आस॑नमा॒चर॑न्।
कुला॑यन्कृ॒ण्वन्कौर॑व्यः॒ पति॒र्वद॑ति जा॒यया॑ ।।८।।
परिक्षिन्नः क्षेममकरोत् तम आसनमाचरन् ।
कुलायं कृण्वन् कौरव्यः पतिर्वदति जायया ॥८॥
‘कौरव्यः' करोति सर्वमिति कुरुः, कर्तुमकर्तुमन्यथाकर्तुं समर्थ ईश्वरः । करोतेः 'कृग्रोरुच्च' (उणा० १.२४) इति कुप्रत्यये, ऋकारस्य उकारे रपरत्वे च साधुः । कुरुरेव कौरव्यः, स्वार्थे ण्यश्छान्दसः । 'पतिः' सर्वेषां पाता पालकश्च प्रभुः 'जायया कुलायं कृण्वन्' निजभार्यया प्रकृतिरूपिण्या, तद्द्वारा विश्वकुटुम्बं करिष्यन्, रचयिष्यन्, करोतेः 'वर्तमानसामीप्ये वर्तमानवद्वा' (अष्टा० ३.३.१३१) इति लृटः स्थाने लट्, लट: शत्रादेशः, व्यत्ययेन श्नुः 'तम आसनम् आचरन्' तमसः, षष्ठया लुक्, सृष्टे: पूर्ववर्तिनः तमसोऽन्धकारस्य आ समन्तात् असनं क्षेपणं, निरसनं कुर्वन् ‘वदति' जायां, निजशक्तिं प्रकृतिं ब्रवीति, शास्ति, आदिशति जगत्सर्जनार्थमिति शेषः । एवं च स 'परिक्षित्' सर्वभूताधिवासः, जीवानां कर्माध्यक्षः, कर्मफलप्रदाता पूर्वमन्त्रोक्तः परमात्मा 'नः' अस्माकं जीवानां 'क्षेमं' कल्याणम् अकरोत्' कृतवान्, जीवेभ्य: प्राक्तनकर्मानुसारेण आत्मविकाससाधनं नूतनजन्म प्रदाय तेषां मङ्गलमकरोदित्यर्थः ।
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजा: सृजमानां सरूपाः ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ।।
इति श्वेताश्वतरोपनिषदि (४.५) वर्णितो 'अजा' 'अजोऽन्यः' च प्रकृतमन्त्रे 'जाया'-पति'-शब्दाभ्यां कीर्तितौ इति अवधेयम् ।

क॑त॒रत्त॒ आ ह॑राणि॒ दधि॒ मन्थां॒ परि॒ श्रुत॑म्।
जा॒याह्पतिं॒ वि पृ॑छति रा॒ष्ट्रे राज्ञः॑ परि॒क्षितः॑ ।।९।।
कतरत् त आ हराणि दधि मन्थं परिस्रुतम् । -
जाया पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ॥ ९ ॥
'परिक्षितः राज्ञः राष्ट्रे' सर्वभूताधिवासस्य, राजराजेश्वरस्य परमात्मनः राज्ये 'जाया' तद्भार्या प्रकृतिः ‘पति' स्वपतिं परमेश्वरं वि पृच्छति' सर्जनविषयकं विशेषं पृच्छति, वि इत्युपसर्गोऽत्र विशेष-वैविध्य-वैचित्र्यवाचकः, सर्जनाय सामान्यादेशं सम्प्राप्य प्रकृतिः तस्य विशेष-वैविध्य-वैचित्र्यविषये पृच्छां करोति इति भावः । 'दधि' दधिवत् स्थूलं घनमन्नमयतत्त्वं, प्रस्तरखनिजधात्वादिकं जडपदार्थं, दधाति धारयति पोषयति चेति दधि धारकपोषकमन्नधान्यादिकं वा 'मन्थं' मथितदधिवत् तक्रवद्वा वैद्युतप्राणशक्तिमयम् उद्भिज्जं वृक्षवनस्पत्यादिकम् अन्नप्राणमयसत्तां वा 'परिस्रुतम्' निर्जलतक्रस्यापि सारभूतं तत्त्वं, परिस्रवणशीलं, स्यन्दनस्वभावं नवनीतघृतरसात्मकम् ; घृतं च शुद्धमानसदीप्तेः प्रतीकम् इति कृत्वा अन्नप्राणमनोमयीं सत्तां पशुपक्षिमनुष्यादिरूपामित्यर्थः, 'कतरत्' दधिमन्थपरिस्रुतेषु स्थूल-सूक्ष्म-सूक्ष्मतरेषु तत्त्वेषु कतमत् तत्त्वम्, 'शुद्धान्नमय'-'अन्नप्राणमय'-'अन्नप्राणमनोमय'सत्तासु कतमां सत्तां, तमःप्रधान-रजःप्रधान-सत्त्वप्रधानेषु पदार्थेषु प्राणिषु च कतमं पदार्थं प्राणिनं वा ते आहराणि' तुभ्यमुपानयानि, सृजानि उत्पादयानि वा इति प्रकृतेः पृच्छा ।
अत्रायमभिसन्धिः--लोहितशुक्लकृष्णा अजा, सत्त्वरजस्तमोरूपत्रिगुणात्मिका तेजोऽबन्नलक्षणा वा प्रकृतिजाया स्वपतिं परमेश्वरमाख्याति-सात्त्विकराजस-तामसी:, अन्नमय-अन्नप्राणमय-अन्नप्राणमनोमयी: त्रिविधा अपि सृष्टी: कर्तुं क्षमाऽहं भवज्जाया किं किं सृजेयं भवते इति आदिशतुर्मां सर्वशक्तिमान् मदीश्वरः ।

अ॒भीवस्वः॒ प्र जि॑हीते॒ यवः॑ प॒क्वः प॒थो बिल॑म्।
जनः॒ स भ॒द्रमेध॑ति रा॒ष्ट्रे राज्ञः॑ परि॒क्षित॑ह् ।।१०।।
अभीव स्वः प्र जिहीते यवः पक्वः परो बिलम् ।
जनः स भद्रमेधते राष्ट्रे राज्ञः परिक्षितः ॥ १० ॥
'पक्वः' हविर्दानाय अग्निना कृतपाक: शृतो वा 'यवः', यवोऽत्र उपलक्षणं तण्डुलादीनां हविष्यान्नानाम् । ‘पक्वः यवः' इत्याभ्यां पदाभ्यामत्र पुरोडाशो विवक्षितः । अन्तर्यज्ञे च सः [पुरोडाशः ] तप्ततनोः प्रतीकम् । तपसा परिपूता, जीवनस्य अग्निज्वालानां, कष्टानामनुभवानाञ्च सहनेन आत्मानं भगवतेऽर्पयितुं सिद्धा तनुरेवात्र मन्त्रवर्णैः ‘पक्वः यवः' इत्युक्ता । सा बिलं' विभक्तिव्यत्ययेन पञ्चम्याः सुः, सोरमादेशः, बिलात् गुहायाः, हृद्गुहाया: 'परः' परतः, असङ्गतया हृदयात् पृथक्कृत्य भगवते अर्पिता 'स्वः अभि' स्वर्गलोकं प्रति 'प्र जिहीते इव' प्रशस्ततया प्रवेगेन च गच्छति नूनम् । इवेति निपातोऽत्र नूनम् इत्यर्थकः । निपाताः ‘उच्चावचेष्वर्थेषु निपतन्ति... अपि कर्मोपसङ्ग्रहार्थेऽपि पदपूरणाः' इति यास्कोक्तेः (१.२.१), कर्मोपसङ्ग्रहार्थाः, अर्थोपसङ्ग्रहार्थाः, अर्थविशेषस्योपसङ्ग्रहार्थका इति तद्व्याख्यानात् । ‘स जनः सोऽयं पक्वयवोपमदेहः तप्ततनुः साधकः 'परिक्षितः राज्ञः राष्ट्रे' सर्वभूताधिवासस्य राजराजेश्वरस्य परमात्मनो राज्ये 'भद्रम् एधते' भद्रं यथा स्यात्तथा सक्षेमं ससुखञ्च वर्धते, एधतेरन्तर्भावितण्यर्थत्वाङ्गीकाराच्च (भद्रं) सुखमानन्दं कल्याणञ्च (एधते) वर्धयति स्वस्य परेषाञ्च इत्यर्थः ।

अथ चतस्रः कारव्याः

इन्द्रः॑ का॒रुम॑बूबुध॒दुत्ति॑ष्ठ॒ वि च॑रा॒ जन॑म्।
ममेदु॒ग्रस्य॒ चर्कृ॑धि॒ सर्व॒ इत्ते॑ पृणाद॒रिः ।।११।।
इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जरन् ।
ममेदुग्रस्य चर्कृधि सर्व इत् ते पृणादरिः ॥ ११ ॥
'इन्द्रः' दिव्य [ ईश्वरीय] मनसो ज्योतिर्मयलोकस्य, शुद्धदिव्यप्रज्ञाया लोकस्य स्वर्नामकस्य अधिपतिर्देवः इन्द्रः 'कारुम्' निजस्तोतारम् 'अबूबुधत्' अजागरयत, तस्य मनश्चेतनां प्राणचेतनायाः सीमाभ्यो बाधाभ्यश्च विमोच्य तां दिव्यज्योतिषा अपूरयदित्यर्थः । मनुष्यस्य मनोमयचेतनायाः प्राणिकबन्धनेभ्यो विमोचनं दिव्यप्रकाशेन तस्याः परिपूरणञ्चैव इन्द्रकृतं प्रबोधनम् । स्तोतारं तथा अन्तः प्रबोध्य सोऽन्तर्वाण्या समादिशत्-हे स्तोत: ! 'उत्तिष्ठ' उद्यतः, सन्नद्धः भव । 'जरन्' मम स्तुतिं कुर्वन्, जॄ स्तुतौ (भ्वा०प०) अन्याँश्च तामुपदिशन्, गॄ शब्दे, क्र्यादि० प०, व्यत्ययेन शप्, गकारस्य चुत्वं छान्दसम, 'वि चर' व्यापकं लोकसङ्ग्रहात्मकं कर्म आचर मत्प्रदत्तप्रकाश
प्रेरितम्, विश्वकल्याणसाधकम् । 'उग्रस्य' उद्गूर्णस्य, प्रबलशक्तिशालिनः 'मम इत्' ममैव 'चर्कृधि' कर्म कुरु भृशं भूयो भूयश्च, स्वार्थप्रेरितमहङ्कारात्मकं कर्म परित्यज्य निःस्वार्थं निरहङ्कारं भगवत्कर्म समाचर । 'सर्वः इत अरिः' सर्वोऽपि, प्रत्येकमपि अरणशीलः, सत्यस्य विजयार्थं सङ्ग्रामशीलः आर्यजन: 'ते पृणात्' त्वां प्रीणयेत्, तर्पयेत् प्रसादयेच्च सत्यसङ्ग्रामे विजयश्रिया यशोलक्ष्म्या चेति भावः ।
अस्मिन् मन्त्रे 'अरि'शब्द: आर्यवाचकः । तथा च महर्षिश्रीअरविन्दाः-- 'उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत । दधाना इन्द्र इद् दुवः ।।'
'उत नः सुभगां अरिर्वोचेयुर्दस्म कृष्टयः । स्यामेदिन्द्रस्य शर्मणि ।।' ऋ० १.४.५-६ इत्यनयोर्ऋचोर्व्याख्यायामाहुः --
'प्रगतिं प्रयासं वा कुरुध्वम्' इत्यर्थकम् ‘आरत' पदं स्वसजातीयैः 'अरि' - अर्य'-'आर्य'-'अरत'-'अरणि' पदैस्तुल्यं वेदस्य केन्द्रीयविचारम् अभिव्यनक्ति । 'अर्' धातुः (ऋ गतौ इति) सदा प्रयत्नस्य सङ्घर्षस्य वा गतिं निर्दिशति, सर्वातिशायिन्या उच्चतायाः श्रेष्ठताया वाऽवस्थां सूचयति । अयं नौचालनम्, कर्षणम्, आयोधनम्, उद्यमनम्, आरोहणम् इत्येतेषु अर्थेषु प्रयुज्यते । तदेवम् आर्यो नाम स मनुष्यो यो वैदिककर्मणा देवयजनरूपेण आन्तरेण बाह्येन च कर्मणा 'अपसा' वा आत्मपूर्णतायै स्पृहयते । किन्तु इदं कर्म, यात्रा, प्रयाणं, युद्धम्, ऊर्ध्वारोहणम् इत्येषां रूपकैरपि निरूपितं वेदे । आर्यपुरुषः शिखराणि आरोढुं प्रयतते, पुरोगमनम्, ऊर्ध्वारोहणम् इत्युभयरूपा खलु तस्य यात्रा प्रयाणं वा । तस्मिन् सङ्कर्षं सङग्रामञ्च विधाय स स्वपथं विरचयति । इदमेव तस्य आर्यत्वम् ।... ___
"अयमेव भावः शब्दप्रतिध्वनिद्वारा विचारशृङ्खलायाः संसूचनरूपां सूक्ष्मवैदिकशैलीम् अवलम्ब्य अग्रिममन्त्रस्य 'अरि: कृष्टयः' इति पदाभ्यां पुनरुपस्थाप्यते ।.... 'अरि: कृष्टयः नाम मानवस्य ऊर्ध्वारोहणसहायिका: शक्तयः ।"

इ॒ह गावः॒ प्र जा॑यध्वमि॒हाश्वा इ॒ह पूरु॑षाः।
इ॒हो स॒हस्र॑दक्षि॒णोपि॑ पू॒षा नि षी॑दति ।।१२।।
इह गावः प्रजायध्वमिहाश्वाः इह पूरुषाः ।
इहो सहस्रदक्षिणोऽपि पूषा नि षीदति ॥ १२ ॥
'इह' अस्मिन् कारौ स्तोतरि वा ‘गावः' हे चिद्रश्मयः, ज्ञानार्चिषः ! 'प्रजायध्वम्', यूयं वर्धध्वम् । 'इह' अस्मिन् 'अश्वा:' हे प्राण शक्तयः ! वर्धध्वम् । 'इह' अस्मिन् 'पूरुषाः' पुरि शयानस्य पुरुषस्यात्मनः शक्तयः ! वर्धध्वम् । 'इह उ' अस्मिँश्च 'सहस्रदक्षिणः' भूरिदक्षिणः, भूरिदाः, बहिरन्तरैश्वर्यस्य प्राचर्येण प्रदाता, 'भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर । भूरि धदिन्द्र दित्ससि ।।' 'भूरिदा ह्यसि श्रुत: पुरुत्रा शूर वृत्रहन् इत्यादिमन्त्रेषु इन्द्रस्य भूरिदात्वप्रसिद्धेः । 'पूषा अपि' बाह्यान्तरवैभवानां पुष्कलप्रदानेन
अस्माकं पोषयिता वर्धयिता इन्द्रः अपि नि षीदति' निषीदतु, विराजतु अस्य अन्तरे निकामं निरन्तरं च। 'नि' इत्युपसर्गोऽत्र निरन्तरं निकामं च अन्तर्निवेशमाह गभीरेऽन्तस्तले।

नेमा इ॑न्द्र॒ गावो॑ रिष॒न्मो आ॒सां गोप॑ रीरिषत्।
मासा॑म॒मित्र॒युर्ज॑न॒ इन्द्र॒ मा स्ते॒न ई॑शत ।।१३।।
नेमा इन्द्र गावो रिषन् मो आसां गोपती रिषत् ।
मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥ १३ ॥
'इन्द्र' हे दिव्यज्योतिष्प्रदात: स्वर्पते ! 'इमा गावः' त्वत्प्रदत्ता इमे दिव्यज्ञानरश्मयः ‘मा रिषन्' हीना: क्षीणा वा न भवेयुः । 'आसां गोपतिः उ' एतासां प्रकाशधेनूनां स्वामी त्वत्स्तोता अपि ‘मा रिषत्' क्षतिं, हानिं हिंसां वा न प्राप्नोतु । 'इन्द्र' हे इन्द्र ! 'आसाम् अमित्रयुः जनः' एतासां पूर्वोक्तप्रकाशगवाम् अहितकाम: अमित्रताकामी, अमित्रवत् अनिष्टकर्ता जनः, देवविरोधिनी प्रकाशद्वेषिणी वा सत्ता शक्तिर्वा ‘मा ईशत' आसां शासनं मा करोतु । 'स्तेन: मा ईशत' प्रकाशविरोधी पणिर्दस्युर्वा इमा मा ईष्टाम्, अपहर्तुम् आत्मसात् कर्तुं वा मा क्षमताम् ।
 इन्द्रसहकृतैः अग्नीषोमादिदेवैः वृजिनस्य रिपोः, स्तेनस्य, वृकस्य पणेर्वधेन तच्चोरितज्योतिर्गवां पुनःप्राप्तिविषये इमे मन्त्रा द्रष्टव्याः --
अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् ।
दविष्ठमस्य सत्पते कृधी सुगम् ।।
.. जही न्यत्रिणं पणिं वृको हि षः ।। ऋ० ६.५१.१३-१४
अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत् । ऋ० ६.४४.२२
या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ।
सरस्वति देवनिदो निबर्हय। ऋ० ६.६१.१-३
अग्नीषोमा चेति तद् वीर्यं वां यदमुष्णीतमवसं पणि गाः ।
अवातिरतं बृसयस्य शेषः अविन्दतं ज्योतिरेकं बहुभ्यः ।। ऋ० १.६३.४

उप॑ नो न रमसि॒ सूक्ते॑न॒ वच॑सा व॒यं भ॒द्रेण॒ वच॑सा व॒यम्।
वना॑दधिध्व॒नो गि॒रो न रि॑ष्येम क॒दा च॒न ।।१४।।
उप नरं नोनुमसि सूक्तेन वचसा वयं भद्रेर्णां वचसा वयम्
वनादधिध्वनो गिरो न रिष्येम कदाचन १४ ॥
'वयं सूक्तेन वचसा' वयं स्तोतारो वैदिकसूक्तात्मकवाण्या 'नरम् उप नोनुमसि' देवं नरोत्तमम, पुरुषोत्तमम, वेदे 'नर'शब्दो देवानां कृते बहुशः प्रयुक्तः, तद्यथा---
'तद् वां नरावश्विना पश्वइष्टी' (ऋ० १.१८०.४)
'ऋषिं नरावंहसा पाञ्चजन्यम्' (ऋ० १.११७.३)
'तद् वां नरा शंस्यं पज्रियेण' (ऋ० १.११७.६)
'हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः' (ऋ० ५.५७.८)
इत्यादिमन्त्रेषु अश्विनोः मरुतां कृते च 'नर'शब्दो व्यवहृतः । तं नरात्तमम् उप आदरेण, घनिष्ठतयाऽन्तरङ्गतया च, पौन:पुन्येन भृशं च नुमः स्तुमः । 'वयं भद्रेण वचसा' वयं कल्याणकारिणा, आनन्दमयेन वेदवाक्येन, मन्त्रवर्णैः 'नरम् उप नोनु मसि' इति पुनरन्वीयते । स नरोत्तमो नः अधिध्वन: गिरः' हृदयादधिध्वन्यमाना वाणी:, हृदा तष्टान् मन्त्रान् ‘वनात्' जुषेत, प्रीतिपूर्वकं सेवेत । वन षण संभजने इत्यतो लेटि, तिपि, आडागमे इकारलोपे च रूपम्। 'कदाचन न रिष्येम' वयं कदापि हिसिता: पीडिता वा न भवेम, हीनाः दीना दूना वा न भवेम तस्य नरोत्तमस्य प्रसादात इति शेषः ।
अस्य सूक्तस्य प्रथममन्त्रेऽस्मिन्नन्तिममन्त्रे च 'नर'शब्दस्य पुरुषोत्तमवाचकस्य प्रयोगात् उपक्रमोपसंहाराभ्यां तात्पर्य निर्णयलिङ्गाभ्यामिदं सूक्तं पुरुषोत्तमपरतया पर्यवस्यति ।






[सम्पाद्यताम्]

टिप्पणी

अथ यत्कुन्तापमासीत् यो मज्जा स सार्धं समवद्रुत्य श्रोत्रत उदभिनत्स एष वनस्पतिरभवद्बिल्वस्तस्मात्तस्यान्तरतः सर्वमेव फलमाद्यं भवति तस्मादु हारिद्र इव भवति हारिद्र इव हि मज्जा तेनैवैनं तद्रूपेण समर्धयत्यन्तरे पैतुदारुवौ भवतो बाह्ये बैल्वा अन्तरे हि चक्षुषी बाह्ये श्रोत्रे स्व एवैनांस्तदायतने दधाति - माश १३.४.४.८

कुंतापं। कु पृथिवी। तपसः विधिः एवं प्रक्रिया का अस्ति, अज्ञातमेव। अयं संभवमस्ति यत् प्रकाशस्य अवशोषणतः या ऊर्जा संगृह्यते, तस्याः विसर्जनं प्रकाशरूपेण न भवेत्, अपितु तापरूपे , ऊष्मारूपे भवेत्। ऊष्मणः रूपान्तरणं ध्वनिरूपे भवितुं शक्यते। पुराणेषु कुन्ती पाण्डोः पत्नी अस्ति। सा सिद्धेः अवतरणं अस्ति (देवीभागवत ४.२२.४० ) । गणेशपुराणे २.६९.६ उल्लेखः अस्ति यत् सिद्धयः शक्त्यास्त्रस्य निरोधकाः सन्ति। अनुमानमस्ति यत् कुन्ती सिद्धि एवं शक्ति, एभ्यः परिचिता अस्ति। आधुनिकविज्ञाने नैनोपार्टिकिलसंज्ञकानां सूक्ष्मकणानां अध्ययनाय फोटोएकास्टिक स्पेक्ट्रांपी विधिः अस्ति। अस्याः आधारः कोर-शैल अथवा अन्तरा-बाह्या संरचना अस्ति। यदा प्रकाशस्य आपतनं अन्तरा उपरि भवति, तदा अन्तरायां अवशोषितं भवति। अवशोषितप्रकाशस्य ऊर्जायाः विसर्जनं द्विप्रकारेण संभवमस्ति - प्रकाशरूपेण एवं ध्वनिरूपेण। या बाह्या अथवा शैल अस्ति, तस्याः संघटनं एवंप्रकारेण चयनितुं आवश्यकता अस्ति येन विसर्जनं प्रकाशरूपेण न भवेत्, ध्वन्यारूपेण भवेत्।

नराशंसोपरि टिप्पणी

नराशंसोपरि टिप्पणी (दर्पणं)


द्र. ऐतरेय ब्राह्मणम् ६.३२

२०.१२७.२

उष्ट्रोपरि टिप्पणी