शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ४/ब्राह्मण ४
१३.४.४
संवत्सरे पर्यवेते दीक्षा प्राजापत्यमालभ्योत्सीदन्तीष्टयः पुरोहितस्याग्निषु यजेतेत्यु हैक आहुः किमु दीक्षितो यजेत द्वादश दीक्षा द्वादशोपसदस्तिस्रः सुत्यास्तत्त्रिणवमभिसम्पद्यते वज्रो वै त्रिणवः क्षत्रमश्वः क्षत्रं राजन्यो वज्रेण खलु वै क्षत्रं स्पृतं तद्वज्रेणैव क्षत्रं स्पृणोति - १३.४.४.१
दीक्षणीयायां संस्थितायाम् सायं वाचि विसृष्टायां वीणागणगिन उपसमेता भवन्ति
तानध्वर्युः सम्प्रेष्यति वीणागणगिन इत्याह देवैरिमं यजमानं संगायतेति तं ते तथा संगायन्ति - १३.४.४.२
अहरहर्वाचि विसृष्टायाम् अग्नीषोमीयाणामन्ततः संस्थायां परिहृतासु वसतीवरीषु तद्यदेनं देवैः संगायन्ति देवैरेवैनं तत्सलोकं कुर्वन्ति - १३.४.४.३
प्रजापतिना सुत्यासु एवमेवाहरहः परिहृतास्वेव वसतीवरीषूदवसानीयायामन्ततः संस्थितायां तद्यदेनं प्रजापतिना संगायन्ति प्रजापतिनैवैनं तदन्ततः सलोकं कुर्वन्ति - १३.४.४.४
एकविंशतिर्यूपाः सर्व एकविंशत्यरत्नयो राज्जुदालोऽग्निष्ठो भवति पैतुदारवावभितः षड्बैल्वास्त्रय इत्थात्त्रय इत्थात्षट्खादिरास्त्रय एवेत्थात्त्रयऽइत्थात्षट्पालाशास्त्रय एवेत्थात्त्रय इत्थात् - १३.४.४.५
तद्यदेत एवं यूपा भवन्ति प्रजापतेः प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य यः श्लेष्मासीत्स सार्धं समवद्रुत्य मध्यतो नस्त उदभिनत्स एष वनस्पतिरभवद्रज्जुदालस्तस्मात्स श्लेष्मणाः श्लेष्मणो हि समभवत्तेनैवैनं तद्रूपेण समर्धयति तद्यत्सोऽग्निष्ठो भवति मध्यं वा एतद्यूपानां यदग्निष्ठो मध्यमेतत्प्राणानां यन्नासिके स्व एवैनं तदायतने दधाति - १३.४.४.६
अथ यदापोमयं तेज आसीत् यो गन्धः स सार्धं समवद्रुत्य चक्षुष्ट उदभिनत्स एष वनस्पतिरभवत्पीतुदारुस्तस्मात्स सुरभिर्गन्धाद्धि समभवत्तस्मादु ज्वलनस्तेजसो हि समभवत्तेनैवैनं तद्रूपेण समर्धयति तद्यत्तावभितोऽग्निष्ठं भवतस्तस्मादिमे अभितो नासिकां चक्षुषी स्व एवैनौ तदायतने दधाति - १३.४.४.७
अथ यत्कुन्तापमासीत् यो मज्जा स सार्धं समवद्रुत्य श्रोत्रत उदभिनत्स एष वनस्पतिरभवद्बिल्वस्तस्मात्तस्यान्तरतः सर्वमेव फलमाद्यं भवति तस्मादु हारिद्र इव भवति हारिद्र इव हि मज्जा तेनैवैनं तद्रूपेण समर्धयत्यन्तरे पैतुदारुवौ भवतो बाह्ये बैल्वा अन्तरे हि चक्षुषी बाह्ये श्रोत्रे स्व एवैनांस्तदायतने दधाति - १३.४.४.८
अस्थिभ्य एवास्य खदिरः समभवत् तस्मात्स दारुणो बहुसारो दारुणमिव ह्यस्थि तेनैवैनं तद्रूपेण समर्धयत्यन्तरे बैल्वा भवन्ति बाह्ये खादिरा अन्तरे हि मज्जानो बाह्यान्यस्थीनि स्व एवैनांस्तदायतने दधाति - १३.४.४.९
मांसेभ्य एवास्य पलाशः समभवत् तस्मात्स बहुरसो लोहितरसो लोहितमिव हि मांसं तेनैवैनं तद्रूपेण समर्धयत्यन्तरे खादिरा भवन्ति बाह्ये पालाशऽअन्तराणि ह्यस्थीनि बाह्यानि मांसानि स्व एवैनांस्तदायतने दधाति - १३.४.४.१०
अथ यदेकविंशतिर्भवन्ति एकविंशत्यरत्नय एकविंशो वा एष तपति द्वादशमासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः सोऽश्वमेधऽ एष प्रजापतिरेवमेतं प्रजापतिं यज्ञं कृत्स्नं संस्कृत्य तस्मिन्नेकविंशतिमग्नीषोमीयान्पशूनालभते तेषां समानं कर्मेत्येतत्पूर्वेद्युः कर्म - १३.४.४.११
टिप्पणी
१३.४.४.८ अन्तरे पैतुदारुवौ भवतो बाह्ये बैल्वा अन्तरे हि चक्षुषी बाह्ये श्रोत्रे इति
आधुनिकविज्ञाने नैनोपार्टिकिलसंज्ञकानां सूक्ष्मकणानां अध्ययनाय फोटोएकास्टिक स्पेक्ट्रांपी विधिः अस्ति। अस्याः आधारः कोर-शैल अथवा अन्तरा-बाह्या संरचना अस्ति। यदा प्रकाशस्य आपतनं अन्तरा उपरि भवति, तदा अन्तरायां अवशोषितं भवति। अवशोषितप्रकाशस्य ऊर्जायाः विसर्जनं द्विप्रकारेण संभवमस्ति - प्रकाशरूपेण एवं ध्वनिरूपेण। या बाह्या अथवा शैल अस्ति, तस्याः संघटनं एवंप्रकारेण चयनितुं आवश्यकता अस्ति येन विसर्जनं प्रकाशरूपेण न भवेत्, ध्वन्यारूपेण भवेत्।