शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search


ब्राह्मण १

१ अश्वमेधस्य फलाधिकारिकालादिकम-- तत्रादौ अश्वमेधयागेन मोक्षादिसर्वकामा आप्यन्त इति फलविधानम् , अयं च क्षत्रिययज्ञोऽश्वमेव इत्यधिकारिविधानम् , स च-एकेषां मतेन ग्रीष्मर्तौ प्रारब्धव्य इति सकारणमभिधाय तत्रारुचिं मत्वा स्वमतेन वसन्तर्तावेव प्रारब्धव्य इति सकारणं कालविधानम् , तत्रापि फाल्गुनीपौर्णमास्याः पुरस्तात्षडहे सप्ताहे वाऽर्थान्नवम्यामष्टम्यां वा प्रारब्धव्य इति सूक्ष्मावान्तरकालविधानं च, स्तावकार्थवादातिदेशसहितमध्वर्युरध्वर्य्वादिभ्यश्चतुर्णां पात्राणामञ्जलिप्रसृतानां चातुष्प्राश्यं ब्रह्मौदनं निर्वपतीति प्रतिपाद्य पात्राञ्जलिप्रसृतिगतां द्वादशसंख्यामादाय तस्या माससंवत्सराद्यात्मना प्रशंसनम् , तमेतं ब्रह्मौदनमध्वर्य्वादयश्चत्वार ऋत्विजः प्राश्नन्ति तेभ्यश्चत्वारि गवां सहस्राणि चत्वारि सुवर्णानि शतमानानि हिरण्यानि च दद्यादिति सार्थवादं विधानम् , ततोऽध्वर्युर्यजमानाय निष्कसंज्ञकमाभरणविशेषं तद्गले प्रतिमुञ्चन्मन्त्रेण वाचनं दद्याद्वाग्यमप्रैषं च दद्यादिति सार्थवादं विधानम्, उपस्थिताभिर्निष्किणीभिरल
ङ्कृताभिर्महिषीवावातापरिवृक्तापालागलीसंज्ञिकाभिश्चतसृभिर्जायाभिः सह यजमानोऽग्न्यगारं प्रविशति तत्र यजमानः पूर्वद्वारेण प्रविशति यजमानपत्न्यश्च दक्षिणद्वारेण प्रविशन्तीति सप्रयोजनमभिधानम्, प्रातराहुत्यां हुतायामध्वर्युः पूर्णाहुतिं जुहुयादिति सार्थवादं विधाय पूर्णाहुत्यां हुतायां च यजमानो ब्रह्मणे वरं दत्त्वा वाचं विसृजेदिति सार्थवादं विधानम् , यजमानः पूर्वदिने स्वगले प्रतिमुक्तं निष्कमध्वर्यवे दद्यादिति सार्थवादं विधानम् ।
आग्नेयीष्टिः-- तत्रयमिष्टिर्यज्ञपथस्य कामाय यज्ञमुखस्य चाछंबटकाराय कर्तव्येति सार्थवादं विधानम् , तस्या एतस्या आग्नेयेष्टेः पञ्चदश सामिधेन्यः वार्त्रघ्नावाज्यभागौ उपांशुहविषो मूर्द्धन्वती पुरोऽनुवाक्या याज्या च सद्वती मूर्द्धन्वत्सद्वती पुरोऽनुवाक्यायाज्यामन्त्रप्रतीके विराजौ संयाज्ये सुवर्णं शतमानं हिरण्यं दक्षिणा चेत्यादिविशिष्टेतिकर्तव्यतायाः सार्थवादमभिधानम् ।
पौष्णीष्टिः-- तत्रायं पौष्णश्चरुरश्वस्य स्वस्त्ययनाय कर्तव्यो भवतीति सार्थवादं विधानम् , तस्या एतस्याः पौष्णेष्टेः सप्तदश सामिधेन्यो वृधन्वन्तावाज्यभागौ उपांशुहविषो व्रतवती पुरोऽनुवाक्या याज्या च पथन्वती व्रतवत्पथन्वती पुरोऽनुवाक्यायाज्यामन्त्रप्रतीके अनुष्टुभौ संयाज्ये वासःशतं दक्षिणा च इत्यादिविशिष्टेतिकर्तव्यतायाः सार्थवादं निरूपणं चेत्यादि.


ब्राह्मण २

२ पौष्णेष्ट्यां तायमानायां यजमानपुरुषा अश्वं स्नापयित्वाऽऽनयन्तीति प्रतिपाद्य स चाश्वः सर्वरूपो जववान्सहस्रगो मूल्यार्हः प्रथमवया दक्षिणधुर्येभ्य उत्कृष्टश्चेत्यादिविशिष्टलक्षणैरुपलक्षितोऽपेक्ष्यते इति सार्थवादमभिधानं, तत्र भाल्लवेयर्षिमतेन त्वश्वः शुक्लकृष्णेति द्विरूपः कृष्णसारङ्गो वाऽपेक्ष्यते इति सकारणं सार्थवादमभिधानं, तथा सात्ययज्ञिमतेन त्वश्वः पूर्वार्द्धे कृष्णोऽपरार्द्धे शुक्लः पुरस्ताल्ललाटे कृत्तिकाञ्जिरित्येवं त्रिरूपो. ऽपेक्ष्यते इति सकारणं सार्थवादमभिधानं, दिग्विजयार्थं विसृष्टस्याश्वस्य पुरस्तात्समन्ततश्च शतं कवचिनो राजपुत्राःशतं निषङ्गिणो राजन्या:-शतमिषुपर्षिणः सूतग्रामणीपुत्राः-शतं दण्डिनः क्षात्रसङ्ग्रहीतॄणां पुत्राः निरमणं निरष्टमश्वशतं च रक्षितृत्वेन नियुञ्ज्यादिति विधानम् ।
सावित्रीष्टिः-तत्र प्रथमायां प्रसवितृगुणकाय सवित्रे द्वादशकपालं पुरोडाशं निर्वपेदिति सार्थवादं प्रथमायाः सावित्रीष्टेर्विधानम् , तस्या एतस्याः प्रथमायाः सावित्रीष्टेः पञ्चदश सामिधेन्यः--वार्त्रघ्नावाज्यभागौ--उपांशुहविषो याज्याऽनुवाक्ययोर्मन्त्रप्रतीके विराजौ संयाज्ये शतमानं सुवर्णं हिरण्यं दक्षिणा चेतिकर्तव्यताविशेषस्य सार्थवादं विधानम्, तथैतस्यामिष्टौ प्रयाजेषु तायमानेषु वीणागाथी कश्चनर्त्विग्भिन्नो ब्राह्मणो दक्षिणत उपविश्योत्तरमन्द्रया वीणया स्वयंकृता राजकर्तृकयागदानेतिहासविशिष्टास्तिस्रो गाथा गायतीति विधानम् , आसवितृगुणकाय सवित्रे द्वादशकपालं पुरोडाशं निर्वपेदिति सार्थवादं द्वितीयायाः सावित्रीष्टेर्विधानम् , तस्या एतस्या द्वितीयायाः सावित्रीष्टेः सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ--उपांशुहविषो याज्याऽनुवाक्ययोर्मन्त्रप्रतीके अनुष्टुभौ संयाज्ये-शतमानं रजतं हिरण्यं दक्षिणा चेतिकर्तव्यताविशेषस्य सार्थवादं विधानम्, पूर्वेष्टिवत्प्रयाजेषु तायमानेषु वीणागाथी कश्चनर्त्विग्भिन्नो ब्राह्मणो दक्षिणत उपविश्योत्तरमन्द्रया वीणया स्वयङ्कृता राजकर्तृकयागदानेतिहासविशिष्टास्तिस्रो गाथा गायतीति विधानम्, सत्यप्रसवगुणकाय सवित्रे द्वादशकपालं पुरोडाशं निर्वपेदिति सार्थवादं तृतीयायाः सावित्रीष्टेर्विधानम् , तस्या एतस्यास्तृतीयायाः सावित्रीष्टेः सप्तदश सामिधेन्यः रयिमन्तावाज्यभागौ उपांशुहविषो याज्यानुवाक्ययोर्मन्त्रप्रतीके नित्ये संयाज्ये शतमानं सुवर्णं हिरण्यं दक्षिणा चेतिकर्तव्यताविशेषस्य सार्थवादं विधानम् , पूर्वेष्टिवत्प्रयाजेषु तायमानेषु वीणागाथी कश्चनर्त्विग्भिन्नो ब्राह्मणो दक्षिणत उपविश्योत्तरमन्द्रया वीणया स्वयङ्कृता राजकर्तृकयागदानेतिहासविशिष्टास्तिस्रो गाथा गायतीति विधानम् , तृतीयायां सावित्रीष्ट्यां संस्थितायामध्वर्युयजमानावुत्थायाश्वस्य दक्षिणे कर्णे “विभूर्मात्रा प्रभूः पित्रा" इतीमानि यजूंष्याजपतो जपोत्तरञ्चैनमश्वमुत्तरपूर्वस्यां दिशि प्रसृजतश्चेति सार्थवादं विधानं, ततोऽश्वस्य रक्षिणः प्रति सप्रकारकं मन्त्रेण रक्षणविषयकमादेशकरणविधानम्, तत्र संवत्सरात्मके प्रवासेऽश्वस्याश्वरक्षकाणां च खादनपाननिवासजयसम्पादनादिकाया दिनचर्यायाः रक्षणेतिकर्तव्यतायाश्च सप्रकारकं निरूपणं चेति.


ब्राह्मण ३

३ पारिप्लवाख्यानब्राह्मणम्-- तत्र प्रथमं प्रमुच्याश्वं वेदेर्दक्षिणतो हिरण्मयेष्वासनेषु तत्र कूर्चयोः फलकयोर्वाऽध्वर्युयजमानौ कशिपुषु होतृब्रह्मोद्गातारश्चोपविशन्तीति प्रतिपादनम् , समुपविष्टेषु ऋत्विक्षु होतारमध्वर्युः पारिप्लवाख्यानार्थं सम्प्रेष्यतीत्यभिधाय तत्प्रैषमन्त्रकथनम् , सम्प्रेषितो होता पारिप्लवमाख्यानमाख्यास्यन्नध्वर्युमामन्त्रयतेऽध्वर्युश्च होतारं प्रत्यामन्त्रयते इति सप्रकारकं निरूपणं, ततो होत्रा “ मनुर्वैवस्वतो राजा" १ इत्यादिपारिप्लवाख्याने प्रथमे राज्यपर्याये सविशेषं प्रोक्ते सत्यध्वर्युरुपसमेतान्वीणागणगिनः पुराणै राजर्षिभिरेनं यजमानं सङ्गायतेति सम्प्रेष्य प्रक्रमहोमाञ्जुहुयादिति विधानम्, ते च प्रक्रमहोमा अन्वाहार्यपचने वाऽश्वस्य पदं परिलिख्य तस्मिन्पदे वा होतव्या इति पक्षद्वयं प्रतिपाद्य प्रथमाध्यायपठितां स्थितिमनुसृत्य सावित्र्या एवेष्टेः पुरस्तादनुद्रुत्य सकृदेवाहवनीये प्रक्रमहोमा होतव्या इति प्राग्विहितस्य पक्षस्य प्रतिपादनं, सायं धृतिहोमेषु हूयमानेषु वीणागाथी राजन्यो दक्षिणत उत्तरमन्द्रया वीणया राजकृतयुद्धसंग्रामजयेतिहासविशिष्टास्तिस्रः स्वयंकृता गाथा गायतीति स्तावकार्थवादातिदेशसहितं विधानम्, द्वितीयादिदशमान्तेष्वहःसु सावित्रीष्टिषु संस्थितासु सामान्यत एषैवावृत्-प्रक्रमहोमानामभावः इति चावृत्प्रकारसहितं प्रतिपादनम्, तत्र होता क्रमेण तेषु राज्यपर्यायेषु " यमो वैवस्वतो राजा २ वरुण आदित्यो राजा ३ सोमो वैष्णवो राजा ४ अर्बुदः काद्रवेयो राजा ५ कुबेरो वैश्रवणो राजा ६ असितो धान्वो राजा ७ मत्स्यः साम्मदो राजा ८ तार्क्ष्यो वैपश्यतो राजा ९ धर्म इन्द्रो राजा १० " इमानि राज्यपर्यायाणि सविशेषं ब्रूयात्तथैतेषु पर्यायेषु प्रोक्तेष्वध्वर्युः प्रतिपर्यायं क्रमेण " स्थविरेभ्यो यजुषामेकम्पर्व २ शोभनेभ्यो युवभ्योऽथर्वणामेकम्पर्व ३ शोभनाभ्यो युवतिभ्योऽङ्गिरसामेकम्पर्व ४ सर्पविद्भ्यः सर्पेभ्यः सर्पविद्याया एकम्पर्व ५ पापकृद्भ्यः सेलगेभ्यो देवजनविद्याया एकम्पर्व ६ कुसीदिभ्यः कांचिन्मायां ७ मत्स्यहनेभ्यो मत्स्येभ्यः कञ्चनेतिहासं ८ वायोविधिकेभ्यो वयोभ्यः किञ्चित्पुराणं ९ अप्रतिग्राहकेभ्यः श्रोत्रियेभ्यः साम्नां दशतं " ब्रूतेति तत्तद्विद्यांशप्रतिपादनविषयकं सम्प्रैषं दद्यादिति चेत्येवंरूपाया विशेषेतिकर्तव्यतायाः प्रदर्शनम् , एतस्य पारिप्लवसमाख्यानस्य प्रशंसनपूर्वकं फलं निरूप्योपसंहरणम् , एतत्पारिप्लवसमाख्यानं यावत्संवत्सरं कुर्यादिति विधानं तत्प्रसङ्गात्पारिप्लवशब्दनिर्वचनं च, षष्ट्युत्तरत्रिशतदिनात्मकसंवत्सरस्य षट्त्रिंशद्दशाहा भवन्तीत्यभिधाय तस्याः संख्याया बृहत्यात्मना प्रशंसनं चेत्यादि.


ब्राह्मण ४

४ संवत्सरे समतीते प्राजापत्यमिष्टकापशुं कृत्वा दीक्षा कर्तव्येति विधाय सावित्रीष्टीनामुत्सादनं कुर्यादिति विधानम् , तत्रैके सावित्रीष्टीरुत्सादयेदिति, एके पुरोहितस्याग्निषु यजेतेति चाहुरित्यभिधाय स्वमतेन तु दीक्षितो यजेतैवैत्यभिधानं, दीक्षा द्वादश-उपसदो द्वादश-सुत्यास्तिस्रो-भवन्तीत्यभिधाय तद्गतसंख्याः सम्भूय तस्यास्त्रिणवस्तोमत्वं सम्पाद्य तस्य वज्ररूपेण प्रशंसनं, दीक्षणीयायां संस्थितायां सायं वाचि विसृष्टायां चोपसमेतान्वीणागणगिनः प्रति " देवैरिमं । यजमानं सङ्गायत" इत्यध्वर्युः सम्प्रेषं दद्यात्ते च तथा गायन्तीति विधानम् , एवमेवाहरहर्वाचि विसृष्टायामग्नीषोमीयाणामन्ततः संस्थायां परिहृतासु वसतीवरीषु देवैरेनं यजमानं सङ्गायन्तीति सार्थवादमभिधानम् , एवमेव सुत्यास्वहरहः परिह्वृतासु वसतीवरीषूदवसानीयायां संस्थितायां च प्रजापतिनैनं यजमानं सङ्गायन्तीति सार्थवादं विधानम्, अश्वमेधे एकविंशत्यरत्निपरिमाणा एकविं.शतिर्यूपा भवन्ति तेषु मध्यमो यूपो रज्जुदालोऽनिष्ठस्तदभितो द्वौ यूपौ पैतुदारवौ त्रयस्त्रयोऽभित एवं षट् षट् बैल्वखादिरपालाशा यूपा इति सप्रकारकं निरूपणम्, प्रसङ्गाद्रज्जुदालापरपर्याय श्लेष्मातकवनस्पतेरुत्पत्तेरुपपादनम्, तद्विकृतिभूतस्य यूपस्य मध्यमत्वाग्निष्ठत्वयोरुपपादनं च, एवमेव क्रमेण पीतु. दारुबिल्वखदिरपलाशवनस्पतीनामुत्पत्तेरुपपादनम्, तत्तद्वनस्पतिविकृतिभूतानां यूपानां मध्यमयूपस्याभित उत्तरोत्तरं बहिर्निवेशनस्य कारणनिरूपणं च, यूपगताया एकविंशतिसंख्याया मासर्तुलोकादित्यात्मना प्रशंसनम् , एवमश्वमेधयज्ञस्य प्रजापतिना साम्यमुपपाद्य तस्मिन्नेकविंशतिमग्नीषोमीयान् पशूनालभते इति विधानम्, एतेषां वैकृतानामाश्वमेधिकाग्नीषोमीयपशूनां कर्म प्राकृतेनाग्नीषोमीयपशुकर्मणा समानमित्यभिधायेत्येतत्पूर्वेद्युः कर्मेति पूर्वदिनकर्मण उपसंहरणं चेत्यादि.