शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ४/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search

१३.४.१

प्रजापतिरकामयत सर्वान्कामानाप्नुयां सर्वा व्यष्टीर्व्यश्नुवीयेति स एतमश्वमेधं त्रिरात्रं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत तेनेष्ट्वा सर्वान्कामानाप्नोत्सर्वा व्यष्टीर्व्याश्नुत सर्वान्ह वै कामानाप्नोति सर्वा व्यष्टीर्व्यश्नुते योऽश्वमेधेन यजते - १३.४.१.[१]

तदाहुः कस्मिन्नृतावभ्यारम्भ इति ग्रीष्मेऽभ्यारभेतेत्यु हैक आहुर्ग्रीष्मो वै क्षत्रियस्यर्तुः क्षत्रिययज्ञ उ वा एष यदश्वमेध इति - १३.४.१.[२]

तद्वै वसन्त एवाभ्यारभेत वसन्तो वै ब्रह्मणस्यर्तुर्य उ वै कश्च यजते ब्राह्मणीभूयेवैव यजते तस्माद्वसन्त एवाभ्यारभेत - १३.४.१.[३]

सा यासौ फाल्गुनी पौर्णमासी भवति तस्यै पुरस्तात्षडहे वा सप्ताहे वर्त्विज उपसमायन्त्यध्वर्युश्च होता च ब्रह्मा चोद्गाता चैतान्वा ऽअन्वन्य ऋत्विजः - १३.४.१.[४]

तेभ्योऽध्वर्युश्चातुष्प्राश्यं ब्रह्मौदनं निर्वपति तस्योक्तं ब्राह्मणं चतुरः पात्रांश्चतुरोऽञ्जलींश्चतुरः प्रसृतान्द्वादशविधं द्वादश मासाः संवत्सरः सर्वं संवत्सरः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - १३.४.१.[५]

तमेते चत्वार ऋत्विजः प्राश्नन्ति तेषामुक्तं ब्राह्मणं तेभ्यश्चत्वारि सहस्राणि ददाति सर्वं वै सहस्रं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै चत्वारि च सुवर्णानि शतमानानि हिरण्यानि तस्यो एवोक्तम् - १३.४.१.[६]

अथास्माऽ अध्वर्युर्निष्कं प्रतिमुञ्चन्वाचयति तेजोऽसि शुक्रममृतमिति तेजो वै शुक्रममृतं हिरण्यं तेज एवास्मिञ्छुक्रममृतं दधात्यायुष्पा आयुर्मे पाहीत्यायुरेवास्मिन्दधात्यथैनमाह वाचं यच्छेति वाग्वै यज्ञो यज्ञस्यैवाभ्यारम्भाय - १३.४.१.[७]

चतस्रो जाया उपकॢप्ता भवन्ति महिषी वावाता परिवृक्ता पालागली सर्वा निष्किण्योऽलङ्कृता मिथुनस्यैव सर्वत्वाय ताभिः सहाग्न्यगारं प्रपद्यते पूर्वया द्वारा यजमानो दक्षिणया पत्न्यः - १३.४.१.[८]

सायमाहुत्यां हुतायाम् जघनेन गार्हपत्यमुदङ्वावातया सह संविशति तदेवापीतराः संविशन्ति सोऽन्तरोरू असंवर्तमानः शेतेऽनेन तपसा स्वस्ति संवत्सरस्योदृचं समश्नवा इति - १३.४.१.[९]

प्रातराहुत्यां हुतायां अध्वर्युः पूर्णाहुतिं जुहोति सर्वं वै पूर्णं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै तस्यां वरेण वाचं विसृजते वरं ददामि ब्रह्मण इति सर्वं वै वरः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - १३.४.१.[१०]

अथ योऽस्य निष्कः प्रतिमुक्तो भवति तमध्वर्यवे ददात्यध्वर्यवे दददमृतमायुरात्मन्धत्तेऽमृतं ह्यायुर्हिरण्यम् - १३.४.१.[११]

अथाग्नेयीमिष्टिं निर्वपति पथश्च कामाय यज्ञमुखस्य चाच्छम्बट्कारायाथोऽअग्निमुखा उ वै सर्वा देवताः सर्वे कामा अश्वमेधे मुखतः सर्वान्देवान्प्रीत्वा सर्वान्कामानाप्नवानीति - १३.४.१.[१२]

तस्यै पञ्चदश सामिधेन्यो भवन्ति पञ्चदशो वै वज्रो वीर्यं वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते वार्त्रघ्नावाज्यभागौ पाप्मा वै वृत्रः पाप्मनोऽपहत्या अग्निर्मूर्धा दिवः ककुद्भुवो यज्ञस्य रजसश्च नेतेत्युपांशु हविषो याज्यानुवाक्ये मूर्धन्वत्यन्या भवति सद्वत्यन्यैष वै मूर्धा य एष तपत्येतस्यैवावरुद्ध्या अथ यत्सद्वती सदेवावरुन्द्धे विराजौ संयाज्ये सर्वदेवत्यं वा एतच्छन्दो यद्विराट्सर्वे कामाऽअश्वमेधे सर्वान्देवान्प्रीत्वा सर्वान्कामानाप्नवानीति हिरण्यं दक्षिणा सुवर्णंशतमानं तस्योक्तं ब्राह्मणम् - १३.४.१.[१३]

अथ पौष्णीं निर्वपति पूषा वै पथीनामधिपतिरश्वायैवैतत्स्वस्त्ययनं करोत्यथो इयं वै पूषेमामेवास्मा एतद्गोप्त्रीं करोति तस्य हि नार्तिरस्ति न ह्वला यमियमध्वन्गोपायतीमामेवास्मा एतद्गोप्त्रीं करोति - १३.४.१.[१४]

तस्यै सप्तदश सामिधेन्यो भवन्ति सप्तदशो वै प्रजापतिः प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै वृधन्वन्तावाज्यभागौ यजमानस्यैव वृद्ध्यै पूषंस्तव व्रते वयं पथस्पथः परिपतिं वचस्येत्युपांशु हविषो याज्यानुवाक्ये व्रतवत्यन्या भवति पथन्वत्यन्या वीर्यं वै व्रतं वीर्यस्याप्त्यै वीर्यस्यावरुद्ध्या अथ यत्पथन्वत्यश्वायैवैतत्स्वस्त्ययनं करोत्यनुष्टुभौ संयाज्ये वाग्वा अनुष्टुब्वाग्वै प्रजापतिः प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै वासःशतं दक्षिणा रूपं वा एतत्पुरुषस्य यद्वासस्तस्माद्यमेव कं च सुवाससमाहुः को न्वयमिति रूपसमृद्धो हि भवति रूपेणैवैनं समर्धयति शतं भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते - १३.४.१.[१५]