सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०७/आञ्जिगस्य(मानइ)

विकिस्रोतः तः
आञ्जिगस्य स्वपसः सामनी द्वे.
आञ्जिगस्य(अञ्जिगस्य वा) स्वपसः सामनी द्वे.

मा न इन्द्र परा वृणग्भवा नः सधमाद्ये ।
त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ।।२६० ।। ऋ. ८.९७.७


(२६०।१) ॥ आञ्जिगस्य अञ्जिगस्य वा, स्वपसः सामनी द्वे । आञ्जिगस्यस्वपसिः बृहतीन्द्रः ॥
मानइन्द्रा॥ परावाऽ३र्णाक् । भवानःसधमाऽ१दीऽ३याइ।। त्वन्नऊतीत्वमिन्नआपीऽ३याम्।। मानइन्द्रपरावृणाऽ३१उवाऽ२३॥ ऊ३४पा ॥
(दी० ६ । प० ६ । मा० ८ )२६ ( क्यै । ४४९)

(२६०।२) मानइन्द्रपरा । वृणाक् । मानइन्द्रा॥ परावाऽ२३र्णाक् । भवाऽ२नःस । धमादाऽ२३याइ । त्वन्नऊतीऽ२ । त्वमिन्नाऽ२आपियाम् ॥ मानाआऽ२३इन्द्रा॥ परावाऽ२३र्णाऽ३४३क् । ओऽ२३४५इ ॥डा॥
( दी० १० । प० १२ । मा० १२ )२७ (फा । ४५०)



[सम्पाद्यताम्]

टिप्पणी