सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.6 षष्ठी दशतिः

विकिस्रोतः तः

अपादु शिप्रयन्धसः सुदक्षस्य प्रहोषिणः ।
इन्द्रोरिन्द्रो यवाशिरः ।। १४५ ।।
औपगवे द्वे

इमा उ त्वा पुरुवसोऽभि प्र नोनवुर्गिरः ।
गावो वत्सं न धेनवः ।। १४६ ।।

अत्राह गोरमन्वत नाम त्वष्टुरपीच्यं ।
इत्था चन्द्रमसो गृहे ।। १४७ ।।

यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः ।
तत्र पूषाभुवत्सचा ।। १४८ ।।
पौष्णः

गौर्धयति मरुतां श्रवस्युर्माता मघोनाम्
युक्ता वह्नी रथानां ।। १४९ ।।

उप नो हरिभिः सुतं याहि मदानां पते ।
उप नो हरिभिः सुतं ।। १५० ।।

इष्टा होत्रा असृक्षतेन्द्रं वृधन्तो अध्वरे ।
अच्छावभृथमोजसा ।। १५१ ।।
इष्टाहोत्रीयम्

अहमिद्धि पितुष्परि मेधामृतस्य जग्रह ।
अहं सूर्य इवाजनि ।। १५२ ।।

रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
क्षुमन्तो याभिर्मदेम ।। १५३ ।।

सोमः पूषा च चेततुर्विश्वासां सुक्षितीनां ।
देवत्रा रथ्योर्हिता ।। १५४ ।।