सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः १/अर्कपर्व १/वरुणस्य देवस्थानम् (पिबा)

विकिस्रोतः तः
वरुणस्य देवस्थानम्.

पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।

आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः ॥ २३९ ॥ ऋ. ८.३.१

(५।१)
॥ वरुणस्य देवस्थानम् । वरुणो बृहतीन्द्रः ॥
हाउपिबासुता ॥ स्यरसिनाऽ३: । होइ । (त्रि) । हाउहाउहाउवा । सहोनरः । मत्स्वानइन्द्रगोमताऽ३: । होइ । (त्रिः)। हाउ(३)वा । सत्यमोजः। आपिर्नोबोधिसधमाऽ३ । होइ । (त्रिः) । हाउ(३)वा । स्वर्ज्योतिः ।। दिवेवृधेऽ३ । होइ । (त्रिः) । हाउ(३)वा ।। एस्थादिदम् । (त्रिः) । अस्माꣳअवन्तुतेधियाऽ३: । होइ । (त्रिः)। हाउ(३)वा ॥ द्यौरक्रान्भूमिरततनत्समुद्रꣳसमचूकुपत् । इट्स्थिइडा२३४५ ॥
( दी० २३ । प० ३४ । मा० ४४)१५( ढी। १५) ।

[सम्पाद्यताम्]

टिप्पणी