सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/अभीवर्तः

विकिस्रोतः तः
अभीवर्तः.
अभीवर्तः.

उदु त्ये मधुमत्तमा गिर स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव ॥ १३६२ ॥ ऋ. ८.३.१५
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत ।
इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥१३६३ ॥



१६. अभीवर्तः ॥ अभीवर्तः। बृहती। इन्द्रः॥
उदूऽ३त्येऽ३माधुमत्तमोवा ॥ गाइरस्तोमा । सआइराऽ१ताऽ२इ । सात्राजितोऽ३१२३४ । धनसाअ। क्षितोताऽ१याऽ२ः॥ वाजायाऽ१न्ताऽ२ः ॥ रथाऽ३ः । आऽ२३४५इ ॥ वाऽ२३४५ ॥ श्रीः ॥ वाजाऽ३याऽ३न्तोरथाइवोवा ॥ वाजयन्तः । रथाआऽ१इवाऽ२ । काण्वाइवाऽ३१२३४। भृगवस्सू। रियाआऽ१इवाऽ२ ॥ विश्वामाऽ१इद्धीऽ२ ॥ तमाऽ३ । शाऽ२३४५ ॥ ताऽ२३४५ ॥श्रीः ॥ विश्वाऽ३माऽ३इद्धीतमाशतोवा ॥ वाइश्वमिद्धी । तमाशाऽ१ताऽ२ । आइन्द्र9स्तोमाऽ३१२३४इ । भिर्महय । तआयाऽ१वाऽ२ः ॥ प्रियामाऽ१इधाऽ२ ॥ सोआऽ३ । स्वाऽ२३४५ ॥ राऽ२३४५न् ॥

दी. १३. उत् .९. मा. २४. दू. ॥२१६॥


[सम्पाद्यताम्]

टिप्पणी

तास्व् अभीवर्तः। देवासुरा अस्पर्धन्त। ते देवा अकामयन्ताभीमान् असुरान् भवेमेति। त एतम् अभीवर्तम् अपश्यन्। तेनासुरान् अभ्यवर्तन्त। यद् अभ्यवर्तन्त तद् अभीवर्तस्याभीवर्तत्वम्। तद् यद् अत्राभीवर्तो भवति - वज्रो वा अभीवर्तो - वज्रेणैव तद् द्विषन्तं भ्रातृव्यम् अभिवृत्योत्तिष्ठन्ति। तस्यैकाक्षरं निधनं भवति। एकाक्षरा वै वाक्। प्रतिकूल इव वा इत स्वर्गो लोकः। स्वर्गो ह्य् एष लोको यद् दशमम् अहः। तद् यद् एकाक्षरं निधनं भवति यथा दृढां मेथीं निहन्यात् तादृग् एवैतद् अनपभ्रंशाय। - जैब्रा ३.२९४

उदु त्ये मधुमत्तमा इत्युद्वत्य उदयनीयेऽहन्येतदाशिषो ह्येवैतर्हि .....अभीवर्तो ब्रह्मसाम भवत्येकाक्षरनिधनः प्रतिष्ठायै। एकाक्षरा वै वाग्वाच्येव प्रतिष्ठायोत्तिष्ठन्ति - पञ्च.ब्रा १५.१०.३

उद् उ त्ये मधुमत्तमा गिरः [शौ.सं. २०.५९.१]इति बार्हतः प्रगाथः। पशवो वै प्रगाथः। पशवः स्वरः। पशूनाम् आप्त्यै - गोब्रा २.४.२

अभीवर्तः सविंश इति । य एव सविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वा अभीवर्तः सविंशस्तस्य द्वादश मासाः सप्तऽर्तवः संवत्सर एवाभीवर्तः सविंशस्तद्यत्तमाहाभीवर्त इति संवत्सरो हि सर्वाणि भूतान्यभिवर्तते तदेव तद्रूपमुपदधाति - माश ८.४.१.१५