अथर्ववेदः/काण्डं २०/सूक्तम् ०५९

विकिस्रोतः तः
← सूक्तं २०.०५८ अथर्ववेदः - काण्डं २०
सूक्तं २०.०५९
१-२ मेध्यातिथिः, ३-४ वसिष्ठः।
सूक्तं २०.०६० →
दे. इन्द्रः। प्रगाथः (बृहती-सतोबृहती)।

उदु त्ये मधु मत्तमा गिर स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
कण्वा इव भृगवः सूर्य इव विश्वमिद्धीतमानशुः ।
इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥
उदिन् न्वस्य रिच्यतेऽंशो धनं न जिग्युसः ।
य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥३॥
मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।
पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत्॥४॥