सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/तृतीयादशतिः/विकर्णम्(श्रायन्त)

विकिस्रोतः तः
विकर्णम्
विकर्णम्.

१४
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ।। १३१९ ।। ऋ. ८.९९.३

अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ।।१३२० ।।





६- वायुः । बृहती । इन्द्रः ।।

श्रायन्तइवसूऽ२रायाऽ२म् ।। विश्वेदिन्द्रस्यभाऽ२क्षाताऽ२ ।। वसूनिजातोजनिमानियोऽ२जासाऽ२ ।। प्रतिभागन्नदाऽ२इधाइमाऽ२ः ।।श्रीः।। प्रतिभागन्नदाऽ२इधाइमाऽ२ः (द्विः) ।। अलर्षिरातिंवसुदामुपाऽ२स्तूहाऽ२इ ।।
भद्राइन्द्रस्यराऽ२तायाऽ२ः ।। श्रीः ।। भद्राइन्द्रस्यराऽ२तायाऽ२ः । । (द्विः) योअस्यकामंविधतोनरोऽ२षाताऽ२इ ।। मनोदानायचोऽ२दायाऽ२न् ।। भ्राऽ२ट् ।।

दी २० उ. न. मा. २२. वा. ।।५५।।


[सम्पाद्यताम्]

टिप्पणी

प्राण एव दिवाकीर्त्यम्। चक्षुषी भ्राजाभ्राजे। श्रोत्रं विकर्णम्। वाग् दशस्तोभम्। - जैब्रा २.३७

भ्राजाभ्राजे पवमानयोर् मुखे भवतः। अङ्गेभ्य एवास्य तत् तमो ऽपघ्नन्ति। महादिवाकीर्त्यं पृष्ठं, विकर्णं ब्रह्मसाम। मध्यत एवास्य तत् तमो ऽपघ्नन्ति। - जैब्रा २.३९०