सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/अहीनपर्व/प्रथमादशतिः/सङ्कृति
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ।। १३१९ ।। ऋ. ८.९९.३
अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ।।१३२० ।।
४. सङ्कृति ॥ प्रजापतिः। बृहती। इन्द्रः॥
एश्राया। तइवसूऽ२३ होऽ२३ । रियाऽ२३म् ॥ हाओवा । विश्वेदिन्द्रस्यभक्षत । वसूनिजातोजनिमा ॥ नियोजसा ॥ प्रतिभागंनदीधिमः ॥ श्रीः ॥ एप्राताइ । भागन्नदाऽ२३होऽ२३ । धिमाऽ२३ः ।। हाओवा। प्रतिभागंनदीधिमः। अलर्षिरातिंवसुदाम् ॥ उपस्तुहि ॥ भद्राइन्द्रस्यरातयः ॥ श्रीः ॥ एभाद्राः। इन्द्रस्यराऽ२३होऽ२३ । तयाऽ२३ः॥ हाओवा। भद्राइन्द्रस्यरातयः । योअस्यकामंविधतः।। नरोषति ।। मनोदानायचोदयन् । हौऽ३ । आऽ३ । ऊऽ३ । ईऽ२३४५ ॥
दी. ३४. उ. ६. मा. १९. तो ॥९६।।
टिप्पणी
अथ संकृति। त्रिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवावृह्यत। तं गायत्रपार्श्वेणैवोदत्तभ्नुवन्, सन्तनिना समतन्वन्, संकृतिना समकुर्वंस्, त्रिषन्धिना समदधुः, श्रायन्तीयेन समश्रीणन्न्, अरिष्टेनारिष्टताम् अगमयन्। त्रिरात्रेण यद् देवा स्वर्गं लोकम् आयन्न् एतेन वै तद् आयन्। स एषां संव्यवृह्यत। तस्मिन्न् एतानि भूयिष्ठानि सामानि क्रियन्ते। एतम् एवैतत् त्रिरात्रं भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। संकृतिना वै देवाः प्रजाः पशूञ् छ्रियम् अन्नाद्यं समकुर्वत। तत् संकृतिनस् संकृतित्वम्। । प्रजाः पशूञ् छ्रियम् अन्नाद्यं संस्कुरुते य एवं वेद। तस्यो एते वृकणावा भवन्त्य्, उभय्या एव वाच उपाप्त्यै या च ग्राम्या या चारण्या। तच् चतुर्निधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै॥ जैब्रा. ३.२५३ ॥
स्कन्दपुराणे ६.२३१ सांकृतिविप्रस्य तपसः वृत्तान्तमस्ति यस्मिन् वृकासुरः विघ्नं करोति। सांकृतिः तस्य पदच्छेदनं करोति। द्र. वृकोपरि टिप्पणी
संकृत्यच्छावाकसाम भवति उत्सन्नयज्ञ इव वा एष यदश्वमेधः किं वा ह्येतस्य क्रियते किं वा न यत्संकृत्यच्छावाकसाम भवत्यश्वस्यैव सर्वत्वाय – माश १३.३.३.६