शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ३/ब्राह्मण ३

विकिस्रोतः तः

१३.३.३

यत्तिस्रोऽनुष्टुभो भवन्ति तस्मादश्वस्त्रिभिस्तिष्ठंस्तिष्ठति यच्चतस्रो गायत्र्यस्तस्मादश्वः सर्वैः पद्भिः प्रतिदधत्पलायते परमं वा एतच्छन्दो यदनुष्टुप्परमोऽश्वः पशूनां परमश्चतुष्टोम स्तोमानां परमेणैवैनम्परमतां गमयति - १३.३.३.१

शक्वर्यः पृष्ठं भवन्ति अन्यदन्यच्छन्दोऽन्येऽन्ये हि स्तोमाः क्रियन्ते यच्छक्वर्यः पृष्ठं भवन्त्यश्वस्यैव सर्वत्वाय - १३.३.३.२

एकविंशं मध्यममहर्भवति असौ वा आदित्य एकविंशः सोऽश्वमेधः स्वेनैवैनं स्तोमेन स्वायां देवतायां प्रतिष्ठापयति - १३.३.३.३

वामदेव्यं मैत्रावरुणसाम भवति प्रजापतिर्वै वामदेव्यं प्राजापत्योऽश्वः स्वयैवैनं देवतया समर्धयति - १३.३.३.४

पार्थुरश्मं ब्रह्मसाम भवति रश्मिना वा अश्वो यत ईश्वरो वा अश्वोऽयतोऽधृतोऽप्रतिष्ठितः परां परावतं गन्तोर्यत्पार्थुरश्मं ब्रह्मसाम भवत्यश्वस्यैव धृत्यै - १३.३.३.५

संकृति अच्छावाकसाम भवति उत्सन्नयज्ञ इव वा एष यदश्वमेधः किं वा ह्येतस्य क्रियते किं वा न यत्संकृत्यच्छावाकसाम भवत्यश्वस्यैव सर्वत्वाय सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - १३.३.३.६

एकविंशोऽग्निर्भवति एकविंश स्तोम एकविंशतिर्यूपा यथा वा ऋषभा वा वृषाणो वा संस्फुरेरन्नेवमेते स्तोमाः समृच्छन्ते यदेकविंशास्तान्यत्समर्पयेदार्तिमार्च्छेद्यजमानो हन्येतास्य यज्ञः - १३.३.३.७

द्वादश एवाग्निः स्यात् एकादश यूपा यद्द्वादशोऽग्निर्भवति द्वादश मासाः संवत्सरः संवत्सरमेव यज्ञमाप्नोति यदेकादश यूपा विराड्वा एषा सम्मीयते यदेकादशिनी तस्यै य एकादश स्तन एवास्यै स दुह एवैनां तेन - १३.३.३.८

तदाहुः यद्द्वादशोऽग्निः स्यादेकादश यूपा यथा स्थूरिणा यायात्तादृक्तदित्येकविंश एवाग्निर्भवत्येकविंश स्तोम एकविंशतिर्यूपास्तद्यथा प्रष्टिभिर्यायात्तादृक्तत् - १३.३.३.९

शिरो वा एतद्यज्ञस्य यदेकविंशः यो वा अश्वमेधे त्रीणि शीर्षाणि वेद शिरो ह राज्ञां भवत्येकविंशोऽग्निर्भवत्येकविंश स्तोम एकविंशतिर्यूपा एतानि वा अश्वमेधे त्रीणि शीर्षाणि तानि य एवं वेद शिरो ह राज्ञां भवति यो वा अश्वमेधे तिस्रः ककुदो वेद ककुद्ध राज्ञां भवत्येकविंशोऽग्निर्भवत्येकविंश स्तोम एकविंशतिर्यूपा एता अश्वमेधे तिस्रः ककुदस्ता य एवं वेद ककुद्ध राज्ञाम्भवति - १३.३.३.१०