शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search


ब्राह्मण १

१ अश्वस्य प्राजापत्याक्षिप्रभवत्वं ब्रह्महत्याप्रायश्चित्तिश्च-- तत्र प्रथमं प्रजापतेरक्ष्णः सकाशादश्वस्योत्पत्तेरभिधानं, तत्प्रसङ्गादश्वशब्दनिर्वचनम् , अश्वमेधेन प्रजापतेः सर्वमधियज्ञमविकलं भवतीत्यभिधानम्, अश्वमेधस्य सर्वप्रकारस्य पातकोपपातकादेर्विशेषतो ब्रह्महत्यायाश्च प्रायश्चित्तत्वस्य सार्थवादं निरूपणम्, अश्वस्योत्तरतोऽवदानकरणस्यान्येषां पशूनां दक्षिणतोऽवदानकरणस्य च कारणाभिधानं, तत्रापि वैतसे कटेऽश्वावदानकरणस्य कारणप्रतिपादनम्, अश्वमेधे प्रथममहश्चतुष्टोमस्तोम उत्तममहः सर्वस्तोमोऽतिरात्रश्च भवतीति कारणाभिधानपुरःसरं सार्थवादमभिधानं चेति.


ब्राह्मण २

२ एष यजमानः प्रथमेऽहनि आधियज्ञिकेन परमेण चतुष्टोमस्तोमेन जित्वोत्तरस्मिन्मध्यमेऽहन्याधिदैविकेनैकविंशस्तोमेन प्रतिष्ठां लब्ध्वा तदुत्तरस्मिंस्तृतीयेऽहनि पृष्ठरूपानृतूनन्वारुह्य संवत्सरे प्रतितिष्ठतीत्यभिधानं, तथाऽत्र मध्यमेऽहनि शक्वर्यः पृष्ठं भवन्ति तास्वन्यदन्यच्छन्दः क्रियते-तद्वदन्येऽन्ये ग्राम्या आरण्याश्च पशव आलभ्यन्ते इति च सार्थवादं सकारणमभिधानम्, पूर्वयोरह्नोर्येऽजावय आरण्याश्च पशव आलभ्यन्ते ते न सर्वे पशवो भवन्तीत्यभिधाय गव्या एव पशवः सर्वे पशवो भवन्तीति प्रतिपादनम्, तांश्च गव्यान्सर्वान्पशूनुत्तमेऽह्नि आलभते इति विधानम् , एते च गव्याः पशवो वैश्वदेवदेवत्याश्चित्रवर्णास्तत्रापि परस्परं भिन्नवर्णाश्च भवन्तीति सप्रयोजनं साभिप्रायं निरूपणं चेत्यादि.


ब्राह्मण ३

३ आश्वमेधिकस्य चतुष्टोमस्तोमस्यानुष्टुब्गायत्रीच्छन्दस्त्वमुपपाद्य तद्द्वारा प्रशंसनम् , आश्वमेधिकस्य पृष्ठस्य शक्वरीच्छन्दस्त्वमुपपाद्य तद्द्वारा प्रशंसनम्, आश्वमेधिकं मध्यममहरेकविंशस्तोमकं भवतीति प्रतिपाद्य तस्यादित्यादिरूपेण प्रशंसनम्, अश्वमेधे मैत्रावरुणगेयं साम वामदेव्यं भवतीति प्रतिपाद्य तस्य प्रजापतिरूपेण प्रशंसनम्, आश्वमेधिकं ब्राह्मणाच्छंसिशस्त्रसम्बद्धं स्तोत्रं पार्थुरश्मसामकं भवतीति प्रतिपाद्य तस्य रश्मिरूपत्वेन प्रशंसनम् , अश्वमेधस्यो त्सन्नयज्ञत्वमुपपाद्य तत्रैतत्संकृत्यच्छावाकसाम भवतीति सार्थवादं प्रतिपादनम् , अश्वमेधे एकविंशविधोऽग्निर्भवतीति पक्षं प्रतिपाद्य तस्य प्रशंसा निन्दा च, पुनरश्वमेधे द्वादशविधोऽग्निर्भवतीति पक्षान्तरमभिधाय तस्य प्रशंसा निन्दा च, पुनर्द्वादशविधाग्निपक्षे दोषमभिधायैकविंशतिविधाग्निपक्ष एव श्रेयानिति निगमनम् , अश्वमेधे एकविंशोऽग्निरेकविंशः स्तोम एकविंशतिर्यूपाश्चेति त्रीणि शीर्षाणि तिस्रः ककुदश्च भवन्तीति सोपपत्तिकं निरूपगम्, एतच्छीर्षत्रयककुत्त्रयविज्ञानं वेदितुः फलनिरूपणं चेत्यादि.


ब्राह्मण ४

४ सर्वाभ्यो देवताभ्योऽश्व आलभ्यते इत्यभिधाय पक्षान्तरेणाश्वं प्राजापत्यं कुर्यादिति विधानं, तत्राश्वस्य प्राजापत्यत्वकरणपक्षे दोषं प्रदर्श्य तद्दोषपरिहारार्थं शादप्रभृतिदेवताभ्योऽश्वाङ्गेभ्यश्चाज्याहुतीर्जुहुयादिति सार्थवादं विधानं, ततोऽरण्येऽनूच्याग्न्यादिदेवताहोमान्हुत्वा द्यावापृथिवीयामुत्तमामाहुतिं जुहुयादिति सार्थवादं विधानं, देवासुरसंवादपुरःसरं स्विष्टकृदर्थमश्वस्य लोहितोद्धरणस्य सार्थवादमभिधानम् , उद्धृतमश्वलोहितं स्विष्टकृद्भ्यो जुहुयादिति सार्थवादं विधानं, विहिते लोहितहोमे तिस्र आहुतयो होतव्या भवन्ति तासु गोमृगकण्ठेन प्रथमामाहुतिं जुहुयादश्वशफेन द्वितीयामाहुतिं जुहुयादयस्मयेन चरुणा तृतीयामाहुतिं जुहुयादिति प्रत्याहुति सार्थवादं विधानं चेत्यादि.


ब्राह्मण ५

५ अरण्येऽनूच्याग्न्यादिदेवताहोमाङ्गभूताया मृत्युसम्बन्धिन्या आहुतेरुत्पत्तेरभिधानं, तत्र शाखान्तरमतेनानेका आहुतयो मृत्यवे होतव्या इति पक्षं सोपपत्तिकमुक्त्वा तस्य निन्दार्थवादेन प्रत्याख्यानं, स्वमतेन “ मृत्यवे स्वाहा ” इति मृत्यव एकामेवाहुतिं जुहुयादिति सोपपत्तिकं सार्थवादं विधानं, द्वितीयां " ब्रह्महत्यायै स्वाहा " इतीमां ब्रह्महत्याहुतिं जुहुयादिति सोपपत्तिकं सार्थवादं विधानं, मुण्डिभर्षिमतं पुरस्कृत्यैषैव द्वितीयाऽश्वमेधान्तर्गताऽऽहुतिर्ब्रह्महत्यायाः प्रायश्चित्तिरिति सोपपत्तिकं सार्थवादं निरूपणं चेति.


ब्राह्मण ६

६ अश्वस्तोमीयद्विपदाहोमब्राह्मणम् -- तत्र प्रथमम् अश्वस्तोमीयहोमस्योत्पत्त्यभिधानपूर्वकं सार्थवादं विधानम् , अश्वस्तोमीयहोमं कृत्वा द्विपदाहोमः कर्तव्य इति सकारणं प्रतिपादनम्, अश्वस्तोमीयद्विपदाहोमयोः पौर्वापर्यस्याश्वस्तोमीयानां पशुत्वं द्विपदानां च पुरुषत्वं प्रतिपाद्य तद्द्वारा प्रशंसनं, विहितेऽश्वस्तोमीयहोमे षोडशैवाहुतीर्जुहुयान्न कनीयसीर्न वा भूयसीरिति सोपपत्तिकं सार्थवादं विधानम् , अश्वस्तोमीयहोमान्तेऽन्यामुत्तमामाहुतिं न जुहुयात्किन्तु द्विपदासंज्ञका आहुतय एवोत्तमास्ता जुहुयादिति सार्थवादमभिधानम्, आश्वमेधिकेऽवभृथे शुक्लखलतिविक्लिधपिङ्गाक्षविशिष्टस्य पुरुषस्य मूर्द्धनि " जुम्बकाय स्वाहा " इतीमामुत्तमामाहुतिं जुहुयादिति सकारणं सप्रयोजनं विधानम्, अश्वमेधं समाप्यान्ते प्रत्यहमेकमेवं द्वादश ब्रह्मौदनांश्चरून्निर्वपेदथवा प्रत्यहमेकामेवं द्वादशाग्नेयपुरोडाशहविष्का इष्टीः कुर्यादिति विकल्पेन विधानम् , तत्रेष्टिपक्षमादौ प्रशस्यानन्तरं निन्दित्वा च ब्रह्मौदनपक्षस्य प्रशंसनं चेत्यादि.

ब्राह्मण ७

७ अश्वमेधस्प यौगिकसंज्ञाद्वादशकाभिधायकं ब्राह्मणम्-- तत्र चाश्वमेधयज्ञस्य भिन्नप्रवृत्तिनिमित्तकानां यौगिकानां द्वादशानां नामधेयानां सफलं निरूपणं चेति.


ब्राह्मण ८

८ अश्वमेधीयप्रायश्चित्तानि—तत्रादौ यद्यश्वो वडवायां गत्वा रेतः सिञ्चेत्तदा वायव्यं पयोऽनुनिर्वपेदित्येवैव प्रायश्चित्तिरिति सार्थवादं विधानम्, यद्यश्वं स्रामो विन्देत्तदा पौष्णं चरुं निर्वपेदित्येषा प्रायश्चितिरिति सार्थवादं विधानं, यद्यश्वमक्षतामयो विन्देत्तदा भूम्यंशरूपद्वादशकपालं वैश्वानरं पुरोडाशं निर्वपेदिति प्रायश्चित्तिरित्येतत्सार्थवादं विधानं, यदि चाश्वमक्ष्यामयो विन्देत्तदा सौर्यं चरुं निर्वपेदित्येषा प्रायश्चित्तिरिति सार्थवादं विधानम्, यद्यश्वोऽप्सु म्रियेत तदा यवमयं वारुणं चरुं निर्वपेदित्येषा प्रायश्चित्तिरिति सार्थवादं विधानम्, अनया प्रायश्चित्त्याऽन्यस्याश्वस्यालम्भायानुमतिर्भवति तयैतयाऽनुमत्याऽन्यमश्वमालभेतेति च सार्थवादमभिधानम्, आश्वमेधिक्याः प्रायश्चित्तीयायास्त्रिहविषेष्टेरश्वमेधे यदि किञ्चिन्नश्येत्तत्प्रायश्चित्तार्थं नष्टवेदनार्थं च द्रव्यदेवताभिधानपुरःसरं सार्थवादं विधानम् , यदि वाऽश्वमेधसम्बन्धिनमश्वं शत्रवो विन्देरन्यदि वा म्रियेताश्वो यदि वाप्सु म्रियेताश्वस्तदैतेषु निमित्तेष्विमामेव त्रिहविषेष्टिरूपां प्रायश्चित्तिं कृत्वाऽन्यमश्वमानीय प्रोक्षयेयुरिति विधानम् , अस्या एवं त्रिहविषेष्टेर्हिरण्यादिनष्टवेदनफलोद्देशेनैवाश्वमेधाद्बहिरपि स्वातंत्र्येण पुरुषार्थतया विधानं चेत्यादि.