शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ३/ब्राह्मण ७

विकिस्रोतः तः


१३.३.७ अश्वमेधस्य यौगिकसंज्ञाद्वादशकाभिधायकं ब्राह्मणम्

एष वै प्रभूर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रभूतम्भवति - १३.३.७.१

एष वै विभूर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव विभूतं भवति - १३.३.७.२

एष वै व्यष्टिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यष्टं भवति - १३.३.७.३

एष वै विधृतिर्नाम यज्ञः यत्रैतेन यजन्ते सर्वमेव विधृतं भवति - १३.३.७.४

एष वै व्यावृत्तिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यावृत्तम्भवति - १३.३.७.५

एष वा ऊर्जस्वान्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेवोर्जस्वद्भवति - १३.३.७.६

एष वै पयस्वान्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव पयस्वद्भवति - १३.३.७.७

एष वै ब्रह्मवर्चसी नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ ब्राह्मणो ब्रह्मवर्चसी जायते - १३.३.७.८

एष वा अतिव्याधी नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ राजन्योऽतिव्याधी जायते - १३.३.७.९

एष वै दीर्घो नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ दीर्घारण्यं जायते - १३.३.७.१०

एष वै कॢप्तिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव कॢप्तं भवति - १३.३.७.११

एष वै प्रतिष्ठा नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रतिष्ठितम्भवति - १३.३.७.१२