शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ३/ब्राह्मण ८

विकिस्रोतः तः

१३.३.८ अश्वमेधीय प्रायश्चित्तानि

अथातः प्रायश्चित्तीनाम् यद्यश्वो वडवां स्कन्देद्वायव्यम्पयोऽनुनिर्वपेद्वायुर्वै रेतसां विकर्ता प्राणो वै वायुः प्राणो हि रेतसां विकर्ता रेतसैवास्मिंस्तद्रेतो दधाति - १३.३.८.१

अथ यदि स्रामो विन्देत् पौष्णं चरुमनुनिर्वपेत्पूषा वै पशूनामीष्टे स यस्यैव पशवो यः पशूनामीष्टे तमेवैतत्प्रीणात्यगदो हैव भवति - १३.३.८.२

अथ यद्यक्षतामयो विन्देत् वैश्वानरं द्वादशकपालं भूमिकपालम्पुरोडाशमनुनिर्वपेदियं वै वैश्वानर इमामेवैतत्प्रीणात्यगदो हैव भवति - १३.३.८.३

अथ यद्यक्ष्यामयो विन्देत् सौर्यं चरुमनुनिर्वपेत्सूर्यो वै प्रजानां चक्षुर्यदा ह्येवैष उदेत्यथेदं सर्वं चरति चक्षुषैवास्मिंस्तच्चक्षुर्दधाति स यच्चरुर्भवति चक्षुषा ह्ययमात्मा चरति - १३.३.८.४

अथ यद्युदके म्रियेत वारुणं यवमयं चरुमनुनिर्वपेद्वरुणो वा एतं गृह्णाति योऽप्सु म्रियते सा यैवैनं देवता गृह्णाति तामेवैतत्प्रीणाति साऽस्मै प्रीताऽन्यमालम्भायानुमन्यते तयाऽनुमतमालभते स यद्यवमयो भवति वरुण्या हि यवाः - १३.३.८.५

अथ यदि नश्येत् त्रिहविषमिष्टिमनुनिर्वपेद्द्यावापृथिव्यमेककपालम्पुरोडाशं वायव्यं पयः सौर्यं चरुं यद्वै किं च नश्यत्यन्तरैव तद्द्यावापृथिवी नश्यति तद्वायुरुपवात्यादित्योऽभितपति नैताभ्यो देवताभ्य ऋते किंचन नश्यति सैषा पृथगेव नष्टवेदनी स यद्यस्याप्यन्यन्नश्येदेतयैव यजेतानु हैवैनद्विन्दत्यथ यद्यमित्रा अश्वं विन्देरन्यदि वा म्रियेत यदि वाप्स्वन्यमानीय प्रोक्षेयुः सैव तत्र प्रायश्चित्तिः - १३.३.८.६