सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/अहीनपर्व/प्रथमादशतिः/सङ्कृति

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
सङ्कृति
सङ्कृति

श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ।। १३१९ ।। ऋ. ८.९९.३
अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ।।१३२० ।।

 
४. सङ्कृति ॥ प्रजापतिः। बृहती। इन्द्रः॥
एश्राया। तइवसूऽ२३ होऽ२३ । रियाऽ२३म् ॥ हाओवा । विश्वेदिन्द्रस्यभक्षत । वसूनिजातोजनिमा ॥ नियोजसा ॥ प्रतिभागंनदीधिमः ॥ श्रीः ॥ एप्राताइ । भागन्नदाऽ२३होऽ२३ । धिमाऽ२३ः ।। हाओवा। प्रतिभागंनदीधिमः। अलर्षिरातिंवसुदाम् ॥ उपस्तुहि ॥ भद्राइन्द्रस्यरातयः ॥ श्रीः ॥ एभाद्राः। इन्द्रस्यराऽ२३होऽ२३ । तयाऽ२३ः॥ हाओवा। भद्राइन्द्रस्यरातयः । योअस्यकामंविधतः।। नरोषति ।। मनोदानायचोदयन् । हौऽ३ । आऽ३ । ऊऽ३ । ईऽ२३४५ ॥
दी. ३४. उ. ६. मा. १९. तो ॥९६।।


[सम्पाद्यताम्]

टिप्पणी

अथ संकृति। त्रिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवावृह्यत। तं गायत्रपार्श्वेणैवोदत्तभ्नुवन्, सन्तनिना समतन्वन्, संकृतिना समकुर्वंस्, त्रिषन्धिना समदधुः, श्रायन्तीयेन समश्रीणन्न्, अरिष्टेनारिष्टताम् अगमयन्। त्रिरात्रेण यद् देवा स्वर्गं लोकम् आयन्न् एतेन वै तद् आयन्। स एषां संव्यवृह्यत। तस्मिन्न् एतानि भूयिष्ठानि सामानि क्रियन्ते। एतम् एवैतत् त्रिरात्रं भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। संकृतिना वै देवाः प्रजाः पशूञ् छ्रियम् अन्नाद्यं समकुर्वत। तत् संकृतिनस् संकृतित्वम्। । प्रजाः पशूञ् छ्रियम् अन्नाद्यं संस्कुरुते य एवं वेद। तस्यो एते वृकणावा भवन्त्य्, उभय्या एव वाच उपाप्त्यै या च ग्राम्या या चारण्या। तच् चतुर्निधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै॥ जैब्रा. ३.२५३

स्कन्दपुराणे ६.२३१ सांकृतिविप्रस्य तपसः वृत्तान्तमस्ति यस्मिन् वृकासुरः विघ्नं करोति। सांकृतिः तस्य पदच्छेदनं करोति। द्र. वृकोपरि टिप्पणी

संकृत्यच्छावाकसाम भवति उत्सन्नयज्ञ इव वा एष यदश्वमेधः किं वा ह्येतस्य क्रियते किं वा न यत्संकृत्यच्छावाकसाम भवत्यश्वस्यैव सर्वत्वाय – माश १३.३.३.६