ऐतरेय आरण्यकम्/आरण्यक ५/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २ ऐतरेय आरण्यकम्
अध्यायः ३

5.3.1

ऊरू, इति । इन्द्राग्नी युवं सु न इत्येतस्यार्धर्चान्गायत्रीकारमुत्तरमुत्तरस्यानुष्टुप्कारं प्रागुत्तमायाः प्र वो महे मन्दमानायान्धस इति निविद्धानं वनेन वायो न्यधायि चाकन्यो जात एव प्रथमो मनस्वानिति ते अन्तरेणाऽऽयाह्यर्वाङुपवन्धुरेष्ठा विधुं दद्राणं समने बहूनामित्येतदावपनं दशतीनामैन्द्रीणां त्रिष्टुब्जगतीनां बृहतीसंपन्नानां यावतीरावपेरंस्तावन्त्यूर्ध्वमायुषो वर्षाणि जिजीविषेत्संवत्सरात्संवत्सराद्दशतो न वा त्यमू षु वाजिनं देवजूतमिन्द्रो विश्वं विराजतीत्येकपदेन्द्रं विश्वा अवीवृधन्नित्यानुष्टुभं तस्य प्रथमायाः पूर्वमर्धर्चं शस्त्वोत्तरेणार्धर्चेनोत्तरस्याः पूर्वमर्धर्चं व्यतिषजति पादैः पादाननुष्टुप्कारं प्रागुत्तमायाः पूर्वस्मात्पूर्वस्मादर्धर्चादुत्तरमुत्तरमर्धर्चं व्यतिषजति प्रकृत्या शेषः पिबा सोममिन्द्र मन्दतु त्वेति षड्योनिष्ट इन्द्र सदने अकारीत्येतस्य चतस्रः शस्त्वोत्तमामुपसंतत्योपोत्तमया परिदधाति, इति । परिहित उक्थ उक्थसंपदं जपति, इति । उक्थवीर्यस्य स्थान उक्थदोहः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये प्रथमः खण्डः ।। १ ।। ( १२)

5.3.2

मूर्धा लोकानामसि वाचो रसस्तेजः प्राणस्याऽऽयतनं मनसः संवेशश्चक्षुषः संभवः श्रोत्रस्य प्रतिष्ठा हृदयस्य सर्वम् । इन्द्रः कर्माक्षितममृतं व्योम । ऋतं सत्यं विजिग्यानं विवाचनमन्तो वाचो विभुः सर्वस्मादुत्तरं ज्योतिरूधरप्रतिवादः पूर्वं सर्वं वाक्परागर्वाक्सप्रु सलिलं धेनु पिन्वति । चक्षुः श्रोत्रं प्राणः सत्यसंमितं वाक्प्रभूतं मनसो विभूतं हृदयोग्रं ब्राह्मणभर्तृमन्नशुभे वर्षपवित्रं गोभगं पृथिव्युपरं वरुणवय्वितमं तपस्तन्विन्द्रज्येष्ठं सहस्रधारमयुताक्षरममृतं दुहानम्, इति । एतास्त उक्थ भूतय एता वाचो विभूतयः । ताभिर्म इह धुक्ष्वामृतस्य श्रियं महीम्, इति । प्रजापतिरिदं ब्रह्म वेदानां ससृजे रसम् । तेनाहं विश्वमाप्यासं सर्वान्तामान्दुहां महत्, इति । भूर्भुवः स्वस्त्रयो वेदोऽसि । ब्रह्म प्रजां मे धुक्ष्व, इति । आयुः प्राणं मे धुक्ष्व । पशून्विशं मे धुक्ष्व । श्रियं यशो मे धुक्ष्व । लोकं ब्रह्मवर्चसमभयं यज्ञसमृद्धिं मे धुक्ष्व, इति । इति वाचयत्यध्वर्युमबुद्धं चेदस्य भवति, इति । ओमुक्थशा यज सोमस्येतीज्यायै संप्रेषितो ये यजामह इत्यागूर्य नित्ययैव यजति व्यवान्येवानुवषट्करोति, इति । उक्तं वषटकारानुमन्त्रणम्, इति । आहरत्यध्वर्युरुक्थपात्रमतिग्राह्याश्चमसांश्च, इति ।। भक्षं प्रतिख्याय होता प्राङ्प्रेङ्खादवरोहति, इति । अथैतं प्रेङ्खं प्रत्यञ्चमवबध्नन्ति यथा शंसितारं भक्षयिष्यन्तं नोपहनिष्यसीति, इति । प्रेङ्खस्य ह्यायतनमासीनो होता भक्षयति, इति । अथैतदुक्थपात्रं होतोपसृष्टेन जपेन भक्षयति । वाग्देवी सोमस्य तृप्यतु । सोमो मे राजाऽऽयुःप्राणाय वर्षतु । स मे प्राणः सर्वमायुर्दुहां महत्, इति । उत्तमादाभिप्लविकात्तृतीयसवनमन्यद्वैश्वदेवान्निविद्धानादस्य वामस्य पलितस्य होतुरिति सलिलस्य दैर्घतमस एकचत्वारिंशतमानोभद्रीयं च तस्य स्थान ऐकाहिकौ वैश्वदेवस्य प्रतिपदनुचरौ, इति । च्यवेत चेद्यज्ञायज्ञीयमग्ने तव श्रवो वय इति षट्स्तोत्रियानुरूपौ यदीलान्दं भूयसीषु चेत्स्तुवीरन्नाऽग्निं न स्ववृक्तिभिरिति तावतीरनुरूपः, इति । संपन्नं महाव्रतं संतिष्ठत इदमहरग्निष्टोमो यथाकालमवभृथं प्रेङ्खं हरेयुः संदहेयुर्बृसीः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये द्वितीयः खण्डः ।। २ ।। ( १३)

5.3.3

नादीक्षितो महाव्रतं शंसेन्नानग्नौ न परस्मै नासंवत्सर इत्येके कामं पित्रे वाऽऽचार्याय वा शंसेदात्मनो हैवास्य तच्छस्तं भवति, इति । होतृशस्त्रेषूक्थशा यज सोमस्येत्येकः प्रैषः स नाराशंसेष्वनाराशंसेषु वा होत्रकाणामुक्थशा यज सोमानामिति, इति । तदिदमहर्नानन्तेवासिने प्रब्रूयान्नासंवत्सरवासिने नो एवासंवत्सरवासिने नाब्रह्मचारिणे नासब्रह्मचारिणे नो एवासब्रह्मचारिणे नानभिप्राप्तायैतं देशम्, इति । न भूयः सकृद्गदनाद्द्विर्गदनाद्वा द्वय्येव , इति। एक एकस्मै प्रब्रूयादिति ह स्माऽऽह जातूकर्ण्यः, इति । न वत्से च न तृतीय इति, इति । न तिष्ठंस्तिष्ठते न व्रजन्व्रजते न शयानः शयानाय नोपर्यासीन उपर्यासीनायाध एवाऽऽसीनोऽध आसीनाय, इति । नावष्टब्धो न प्रतिस्तब्धो नातिवीतो नाङ्कं कृत्वोर्ध्वज्ञुरनपश्रितोऽधीयीत न मांसं भुक्त्वा न लोहितं दृष्ट्वा न गतासुं नाव्रत्यमाक्रम्य नाक्त्वा नाभ्यज्य नोन्मर्दनं कारयित्वा न नापितेन कारयित्वा न स्नात्वा न वर्णकेनानुलिप्य न स्रजमपिनह्य न स्त्रियमुपगम्य नोल्लिख्य नावलिख्य,इति । नेदमेकस्मिन्नहनि समापयेदिति ह स्माऽऽह जातूकर्ण्यः समापयेदिति गालवो यदन्यत्प्राक्तृचाशीतिभ्यः समापयेदेवेत्याग्निवेश्यायनोऽन्यमन्यस्मिन्देशे शमयमान इति, इति । यत्रेदमधीयीत न तत्रान्यदधीयीत यत्र त्वन्यदधीयीत काममिदं तत्राधीयीत, इति । नेदमनधीयन्त्स्नातको भवति यद्यप्यन्यद्बह्वधीयान्नैवेदमनधीयन्त्स्नातको भवति, इति । नो एवास्मात्प्रमाद्येत्, इति । अस्माच्चेन्न प्रमाद्येदलमात्मन इति विद्यात्, इति । अलं सत्यं विद्यात्, इति । नेदंविदनिदंविदा समुद्दिशेन्न सहभुञ्जीत न सधमादी स्यात्, इति । अथातः स्वाध्यायधर्मं व्याख्यास्याम उप पुराणे नाऽऽपीते कक्षोदके पूर्वाह्णे न संभिन्नासु च्छायास्वपराह्णे नाध्यूह्ळे मेघेऽपर्तौ वर्षे त्रिरात्रं वैदिकेनाध्यायेनान्तरियान्नास्मिन्कथां वदेत नास्य रात्रौ च न च कीर्तयिषेत्, इति । तदिति वा एतस्य महतो भूतस्य नाम भवति योऽस्यैतदेवं नाम वेद ब्रह्म भवति ब्रह्म भवति, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये तृतीयः खण्डः ।। ३ ।। ( १४) इति बहवृचब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयोऽध्यायः ।। ३ ।।

ॐ उदितः शुक्रियं दधे । तमहमात्मनि दधे । अनु मामैत्विन्द्रियम् । मयि श्रीर्मयि यशः । सर्वः सप्राणः संबलः । उत्तिष्ठाम्यनु श्रीः । उत्तिष्ठत्वनु माऽऽयन्तु देवताः । अदब्धं चक्षुरिषितं मनः । सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिँसीः । तच्चक्षुर्देव हितं शुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतम् । त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः । आवदंस्त्वं शकुने भद्रमावद तूष्णीमासीनः सुमतिं चिकिद्धि नः । यदुत्पतन्वदसि कर्कुरिर्यथा बृहद्वदेम विदथे सुवीराः । शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् । मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् । वाड्रमे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणी स्थ श्रुतं मे मा प्रहासीरनेनाधीतेन । अहोरात्रान्त्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः । इत्युत्तरशान्तिः इति वह्वृचब्राह्मणारण्यककाण्डे पञ्चममारण्यकं समाप्तम् ।। ५ ।।