ऋग्वेदः सूक्तं ८.५९
← सूक्तं ८.५८ | ऋग्वेदः - मण्डल ८ सूक्तं ८.५९ सुपर्णः काण्वः। |
सूक्तं ८.६० → |
दे. इन्द्रावरुणौ। जगती
(इति वालखिल्यम् समाप्तम्) |
इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् ।
यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ॥१॥
निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत ।
या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ॥२॥
सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः ।
ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः ॥३॥
घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य ।
या ह वामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम् ॥४॥
अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् ।
अस्मान्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती ॥५॥
इन्द्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे ।
यानि स्थानान्यसृजन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम् ॥६॥
इन्द्रावरुणा सौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तम् ।
प्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥७॥
(इति वालखिल्यम् समाप्तम्)
भाष्यम्
' इमानि वाम्' इति सप्तर्चमेकादशं सूक्तं काण्वस्य सुपर्णस्यार्षमैन्द्रावरुणं जागतम् । ' इमानि वां सप्त सुपर्ण ऐन्द्रावरुणं जागतम्' इत्यनुक्रान्तत्वात् । विनियोगः सूत्रादवगन्तव्यः ।।
इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् ।
य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥१
इ॒मानि॑ । वा॒म् । भा॒ग॒ऽधेया॑नि । सि॒स्र॒ते॒ । इन्द्रा॑वरुणा । प्र । म॒हे । सु॒तेषु॑ । वा॒म् ।
य॒ज्ञेऽय॑ज्ञे । ह॒ । सव॑ना । भु॒र॒ण्यथः॑ । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑थः ॥१
इमानि । वाम् । भागऽधेयानि । सिस्रते । इन्द्रावरुणा । प्र । महे । सुतेषु । वाम् ।
यज्ञेऽयज्ञे । ह। सवना । भुरण्यथः । यत् । सुन्वते । यजमानाय । शिक्षथः ॥ १ ॥
हे इन्द्रावरुणा इन्द्रावरुणौ इमानि इदानीं कृतानि भागधेयानि भवदंशभूतानि चरुपुरोडाशादिहवींषि वां युवां प्रति सिस्रते प्राप्तुमिच्छन्ति । अतः सुतेषु अभिषुतेषु सोमेषु सत्सु महे महते पूजनाय वां युवां प्र प्रार्चये । उपसर्गवशाद्योग्यक्रियाध्याहारः । यत् यस्मात् यज्ञेयज्ञे प्रतियज्ञं सवना त्रिष्वपि सवनेषु भुरण्यथो ह गच्छथः खलु । किंच सुन्वते सोमाभिषवं कुर्वते यजमानाय शिक्षथः अभिमतं प्रयच्छथः । शिक्षतिर्दानकर्मा । ' पृणाति शिक्षति' इति दानकर्मसु पाठात् ॥
नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिन्द्रा॑वरुणा महि॒मान॒माश॑त ।
या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययो॒ः शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥२
निः॒ऽसिध्व॑रीः । ओष॑धीः । आपः॑ । आ॒स्ता॒म् । इन्द्रा॑वरुणा । म॒हि॒मान॑म् । आ॒श॒त॒ ।
या । सिस्र॑तुः । रज॑सः । पा॒रे । अध्व॑नः । ययोः॑ । शत्रुः॑ । नकिः॑ । अदे॑वः । ओह॑ते ॥२
निःऽसिध्वरीः । ओषधीः । आपः । आस्ताम् । इन्द्रावरुणा । महिमानम् । आशत ।
या । सिस्रतुः । रजसः । पारे । अध्वनः । ययोः । शत्रुः । नकिः । अदेवः । ओहते ॥२॥
इन्द्रावरुणा इन्द्रावरुणौ भवन्तौ यदा आस्ताम् ओषध्यादिकर्तृत्वेनाभूतां तदा निःसिध्वरीः नितरां मंङ्गलस्वभावा ओषधीः व्रीह्याद्या ओषधयः आपः उदकानि च महिमानं भवतोर्माहात्म्यम् आशत व्याप्नुवन्ति । किंच या यौ भवन्तौ रजसोऽन्तरिक्षलोकस्य संबन्धिनः अध्वनो मार्गस्य पारे परतीरे सिस्रतुः यथेच्छं सरणं कुरुतः । ययोर्भवतोः शत्रुः शातयिता अदेवः देवप्रतियोगी असुरादिः नकिः ओहते न कोऽपि तर्कगोचरो भवति । स्वेच्छया विहरतोर्भवतोः गतिप्रतिघातकः शत्रुः न कोऽप्यस्तीत्यर्थः ।।
स॒त्यं तदि॑न्द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणीः॑ ।
ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ॥३
स॒त्यम् । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । कृ॒शस्य॑ । वा॒म् । मध्वः॑ । ऊ॒र्मिम् । दु॒ह॒ते॒ । स॒प्त । वाणीः॑ ।
ताभिः॑ । दा॒श्वांस॑म् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ । यः । वा॒म् । अद॑ब्धः । अ॒भि । पाति॑ । चित्ति॑ऽभिः ॥३
सत्यम् । तत् । इन्द्रावरुणा । कृशस्य । वाम् । मध्वः । ऊर्मिम् । दुहते । सप्त । वाणीः ।
ताभिः । दाश्वांसम् । अवतम् । शुभः । पती इति । यः । वाम् । अदब्धः । अभि । पाति । चित्तिऽभिः ॥ ३ ॥
हे इन्द्रावरुण इन्द्रावरुणौ याः सप्तसंख्याकाः सर्पणस्वभावा वा वाणीः वाण्यः सप्तहोत्रकाणां स्तुतिरूपा वाचः कृशस्य एतन्नाम्नो यजमानस्य संबन्धिनः मध्वः मधुरस्य सोमस्य ऊर्मिं तदुपलक्षितं रसं प्रति वां युवां दुहते प्रपूरयन्तीति यत् तत्सत्यमवितथमेव । तस्मात्ताभिर्वाणीभिर्हेतुभूताभिः युवां दाश्वांसं हविर्दत्तवन्तं यजमानम् अवतं रक्षतम् । यजमानं विशिनष्टि । हे शुभस्पती उदकस्य पालयिताराविन्द्रवरुणौ यो यजमानः अदब्धः केनाप्यहिंसितः सन् चित्तिभिः प्रज्ञोपलक्षितैः कर्मभिः वां युवामभि पाति सर्वतो रक्षति । तमवतमिति पूर्वेणान्वयः ॥
घृ॒त॒प्रुष॒ः सौम्या॑ जी॒रदा॑नवः स॒प्त स्वसा॑र॒ः सद॑न ऋ॒तस्य॑ ।
या ह॑ वामिन्द्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतम् ॥४
घृ॒त॒ऽप्रुषः॑ । सौम्याः॑ । जी॒रऽदा॑नवः । स॒प्त । स्वसा॑रः । सद॑ने । ऋ॒तस्य॑ ।
याः । ह॒ । वा॒म् । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । ताभिः॑ । ध॒त्त॒म् । यज॑मानाय । शि॒क्ष॒त॒म् ॥४
घृतऽप्रुषः । सौम्याः । जीरऽदानवः । सप्त । स्वसारः । सदने । ऋतस्य ।
याः । ह । वाम् । इन्द्रावरुणा । घृतऽश्चुतः । ताभिः । धत्तम् । यजमानाय । शिक्षतम् ॥४॥ ॥३०॥
ताः सत्यवाण्यः क्व सन्तीत्यपेक्षायामाह । ऋतस्य यज्ञस्य सदने स्थाने सप्त सप्तसंख्याकाः स्वसारः स्वयंसारिण्यो वाण्यः सन्ति । कीदृश्यस्ताः । घृतप्रुषः । घृतमित्युदकनाम । तेन सोमरसो लक्ष्यते । तथा च सोमरसस्राविण्य इत्यर्थः । सोम्याः सोमार्हाः जीरदानवः क्षिप्रदानाः । किंच हे इन्द्रावरुणा इन्द्रावरुणौ या वाण्यः वां युवामुद्दिश्य घृतश्चुतः सोमरसस्राविण्यो भवन्ति अथवा आज्यस्राविण्यो भवन्ति । हेति प्रसिद्धम् । ताभिर्हेतुभूताभिः धत्तं यजमानं पुष्णीतम् । तदर्थं च यजमानाय शिक्षतमभिमतं दत्तम् ॥ ॥ ३० ॥
अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् ।
अ॒स्मान्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभिः॑ सा॒प्तेभि॑रवतं शुभस्पती ॥५
अवो॑चाम । म॒ह॒ते । सौभ॑गाय । स॒त्यम् । त्वे॒षाभ्या॑म् । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् ।
अ॒स्मान् । सु । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । त्रिऽभिः॑ । सा॒प्तेभिः॑ । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥५
अवोचाम । महते । सौभगाय । सत्यम् । त्वेषाभ्याम् । महिमानम् । इन्द्रियम् । अस्मान् । सु। इन्द्रावरुणा । घृतऽश्चुतः । त्रिऽभिः । साप्तेभिः । अवतम् । शुभः । पती इति ॥५॥
हे इन्द्रावरुणा इन्द्रावरुणौ त्वेषाभ्यां दीप्ताभ्यां भवद्भ्यां संपादितं महिमानं कीर्तिविशेषं वयं महते बृहते सौभगाय ऐश्वर्याय अवोचाम वर्णयेम । कीदृशं महिमानम् । सत्यमवितथम् । युष्मत्स्वरूपानुकूलमित्यर्थः । इन्द्रियम् इन्द्रयोः परमेश्वरयोर्भवतोर्ज्ञापकम् । तस्मात् हे शुभस्पती उदकस्य पालयिताराविन्द्रावरुणौ युवां घृतश्चुतः सोमरसस्राविणोऽस्मान् यजमानान् त्रिभिः साप्तेभिः । सप्तयोऽश्वाः तेषां समूहः । सप्तयूथैस्तैः त्रिसंख्याकैरश्वसमूहैः सोतं ( सु अवतं ) सुतरां पालयतम् । इन्द्रावरुणयोरैश्वर्ययोगात् अश्वैरस्मत्पालनं समञ्जसमिति भावः ॥
इन्द्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ ।
यानि॒ स्थाना॑न्यसृजन्त॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यम् ॥६
इन्द्रा॑वरुणा । यत् । ऋ॒षिऽभ्यः॑ । म॒नी॒षाम् । वा॒चः । म॒तिम् । श्रु॒तम् । अ॒द॒त्त॒म् । अग्रे॑ ।
यानि॑ । स्थाना॑नि । अ॒सृ॒ज॒न्त॒ । धीराः॑ । य॒ज्ञम् । त॒न्वा॒नाः । तप॑सा । अ॒भि । अ॒प॒श्य॒म् ॥६
इन्द्रावरुणा । यत् । ऋषिऽभ्यः । मनीषाम् । वाचः । मतिम् । श्रुतम् । अदत्तम् । अग्रे ।
यानि । स्थानानि । असृजन्त । धीराः । यज्ञम् । तन्वानाः । तपसा । अभि । अपश्यम् ॥६॥
हे इन्द्रावरुणा इन्द्रावरुणौ यत् ये ऋषयः यज्ञं तन्वानाः कर्मविशेषं विस्तारयन्तः अत एव धीराः शुद्धान्तःकरणत्वेन धीमन्तः सन्तः अग्रे अन्तःकरणशुद्धेः प्राक् यानि स्थानानि गृहक्षेत्रादीनि स्थितानि तानि असृजन्त विसृष्टवन्तः। तत्यजिरिति ( तत्यजुरिति ) यावत् । तेभ्य ऋषिभ्यः मन्त्रदृग्भ्यः मनीषादिश्रुतान्तं सर्वं युवाम् अदत्तं दत्तवन्तौ इत्यहं तपसा आलोचनात्मकेन ज्ञानेन अभ्यपश्यं सर्वतो दृष्टवानस्मि । मनीषा अत्र चिज्जडविवेकवती बुद्धिः । वाचः उपनिषल्लक्षणा गिरः । मतिर्मननं तर्कसामर्थ्यम् । श्रुतं शास्त्रमीमांसालक्षणम् । एतत्सर्वं भवद्भ्यां तेभ्यो दत्तमिति श्रीमच्चरणप्रसादाल्लब्धज्ञानेन मया ज्ञातमित्यृषेर्वक्तुरभिप्रायः ।।
इन्द्रा॑वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तम् ।
प्र॒जां पु॒ष्टिं भू॑तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयुः॑ ॥७
इन्द्रा॑वरुणा । सौ॒म॒न॒सम् । अदृ॑प्तम् । रा॒यः । पोष॑म् । यज॑मानेषु । ध॒त्त॒म् ।
प्र॒ऽजाम् । पु॒ष्टिम् । भू॒ति॒म् । अ॒स्मासु॑ । ध॒त्त॒म् । दी॒र्घा॒यु॒ऽत्वाय॑ । प्र । ति॒र॒त॒म् । नः॒ । आयुः॑ ॥७
इन्द्रावरुणा । सौमनसम् । अदृप्तम्। रायः । पोषम् । यजमानेषु । धत्तम् ।
प्रजाम्। पुष्टिम् । भूतिम् । अस्मासु । धत्तम् । दीर्घायुऽत्वाय । प्र । तिरतम् । नः । आयुः ॥ ७ ॥ ॥ ३१ ॥
हे इन्द्रावरुणा इन्द्रावरुणा युवां सौमनसं प्रसन्नमनस्कत्वं तथा अदृप्तम् अनुद्धतम् । मोहशून्यमिति यावत् । रायः धनस्य पोषं पुष्टिं च यजमानेषु धत्तं धारयतम् । किंचास्मासु स्तोतृषु प्रजां पुत्रपौत्रादिरूपां पुष्टिं धनादेः समृद्धिं भूतिं गवाश्वादिगजान्तसंपदं च धत्तं धारयतम् । अथ च दीर्घायुत्वाय चिरजीवनाय नोऽस्माकमायुः जीवितकालं प्र तिरतं प्रवर्धयतम् । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ॥ ३१ ॥
टिप्पणी
मण्डल ८ | ||||||
---|---|---|---|---|---|---|