ऋग्वेदः सूक्तं ८.३३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.३३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ८.३२ ऋग्वेदः - मण्डल ८
सूक्तं ८.३३
मेध्यातिथिः काण्वः।
सूक्तं ८.३४ →
दे. इन्द्रः। बृहती, १६-१८ गायत्री, १९ अनुष्टुप्।


वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥१॥
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥२॥
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् ।
पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥३॥
पाहि गायान्धसो मद इन्द्राय मेध्यातिथे ।
यः सम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः ॥४॥
यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्गृणे ।
य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः ॥५॥
यो धृषितो योऽवृतो यो अस्ति श्मश्रुषु श्रितः ।
विभूतद्युम्नश्च्यवनः पुरुष्टुतः क्रत्वा गौरिव शाकिनः ॥६॥
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥७॥
दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
नकिष्ट्वा नि यमदा सुते गमो महाँश्चरस्योजसा ॥८॥
य उग्रः सन्ननिष्टृत स्थिरो रणाय संस्कृतः ।
यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥९॥
सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः ।
वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥१०॥
वृषणस्ते अभीशवो वृषा कशा हिरण्ययी ।
वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो ॥११॥
वृषा सोता सुनोतु ते वृषन्नृजीपिन्ना भर ।
वृषा दधन्वे वृषणं नदीष्वा तुभ्यं स्थातर्हरीणाम् ॥१२॥
एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् ।
नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः ॥१३॥
वहन्तु त्वा रथेष्ठामा हरयो रथयुजः ।
तिरश्चिदर्यं सवनानि वृत्रहन्नन्येषां या शतक्रतो ॥१४॥
अस्माकमद्यान्तमं स्तोमं धिष्व महामह ।
अस्माकं ते सवना सन्तु शंतमा मदाय द्युक्ष सोमपाः ॥१५॥
नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति ।
यो अस्मान्वीर आनयत् ॥१६॥
इन्द्रश्चिद्घा तदब्रवीत्स्त्रिया अशास्यं मनः ।
उतो अह क्रतुं रघुम् ॥१७॥
सप्ती चिद्घा मदच्युता मिथुना वहतो रथम् ।
एवेद्धूर्वृष्ण उत्तरा ॥१८॥
अधः पश्यस्व मोपरि संतरां पादकौ हर ।
मा ते कशप्लकौ दृशन्स्त्री हि ब्रह्मा बभूविथ ॥१९॥

सायणभाष्यम्

‘वयं घ त्वा' इत्येकोनविंशत्यृचं तृतीयं सूक्तं काण्वस्य मेध्यातिथेरार्षं बृहतीच्छन्दस्कम् । षोडश्याद्यास्तिस्रो गायत्र्य एकोनविंश्यनुष्टुप् । इन्द्रो देवता । तथा चानुक्रान्तं- ‘ वयं घैकोना मेध्यातिथिर्बार्हतं त्रिगायत्र्यनुष्टुबन्तम् ' इति । महाव्रते निष्केवल्ये बार्हततृचाशीतावादितः पञ्चदशर्चः । तथैव पञ्चमारण्यके शौनकेन सूत्र्यते- ‘ वयं घ त्वा सुतावन्त इति पञ्चदश मो षु त्वा वाघतश्चनेत्येतस्य द्विपदां चोद्धरति ' ( ऐ. आ. ५, २. ४ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे ‘ वयं घ त्वा ' इति तृचो वैकल्पिकः स्तोत्रियः । तथा च सूत्रं - ‘ वयं घ त्वा सुतावन्तः क ईं वेद सुते सचा ' ( आश्व. श्रौ. ७. ४ ) इति । स्वरसाम्न्ययमेव तृचोऽनुरूपः । सूत्रितं च -- वयं घ त्वा सुतावन्त इति तिस्रो बृहत्यः ' ( आश्व. श्रौ. ८. ५) इति । तस्मिन्नेव शस्त्रे ‘ क ईं वेद' इति वैकल्पिकोऽनुरूपः । सूत्रमुक्तमेव ॥


व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः ।

प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥१

व॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्तः । आपः॑ । न । वृ॒क्तऽब॑र्हिषः ।

प॒वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तारः॑ । आ॒स॒ते॒ ॥१

वयम् । घ । त्वा । सुतऽवन्तः । आपः । न । वृक्तऽबर्हिषः ।

पवित्रस्य । प्रऽस्रवणेषु । वृत्रऽहन् । परि । स्तोतारः । आसते ॥१

हे “वृत्रहन इन्द्र “त्वा त्वां “वयं “घ वयं खलु “सुतवन्तः सोममभिषुतवन्तः “आपो “न आप इव प्रवणमभिगच्छामः । "पवित्रस्य सोमानां “प्रस्रवणेषु “वृक्तबर्हिषः स्तीर्णबर्हिषः “स्तोतारः च त्वां पर्युपासते । ।


स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिन॑ः ।

क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥२

स्वर॑न्ति । त्वा॒ । सु॒ते । नरः॑ । वसो॒ इति॑ । नि॒रे॒के । उ॒क्थिनः॑ ।

क॒दा । सु॒तम् । तृ॒षा॒णः । ओकः॑ । आ । ग॒मः॒ । इन्द्र॑ । स्व॒ब्दीऽइ॑व । वंस॑गः ॥२

स्वरन्ति । त्वा । सुते । नरः । वसो इति । निरेके । उक्थिनः ।

कदा । सुतम् । तृषाणः । ओकः । आ । गमः । इन्द्र । स्वब्दीऽइव । वंसगः ॥२

हे “वसो वासयितरिन्द्र “त्वा त्वां “सुते अभिषुते सोमे “निरेके निर्गमने “उक्थिनः “नरः नेतारः “स्वरन्ति शब्दायन्ते । अपि चेन्द्रः “सुतं सोमं प्रति “तृषाणः तृष्यन् “स्वब्दीव स्वभूतशब्द इव “वंसगः वननीयगमनो वृषभः शब्दं कुर्वन् “कदा “ओकः स्थानम् “आ गमत् ॥


कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म् ।

पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥३

कण्वे॑भिः । धृ॒ष्णो॒ इति॑ । आ । धृ॒षत् । वाज॑म् । द॒र्षि॒ । स॒ह॒स्रिण॑म् ।

पि॒शङ्ग॑ऽरूपम् । म॒घ॒ऽव॒न् । वि॒ऽच॒र्ष॒णे॒ । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥३

कण्वेभिः । धृष्णो इति । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् ।

पिशङ्गऽरूपम् । मघऽवन् । विऽचर्षणे । मक्षु । गोऽमन्तम् । ईमहे ॥३

हे “धृष्णो धर्षकेन्द्र “कण्वेभिः कण्वानुद्दिश्य । विभक्तिव्यत्ययः । “सहस्रिणं सहस्रसंख्याकं “वाजम् “आ “दर्षि देहि। हे “मघवन् धनवन् “विचर्षणे विद्रष्टरिन्द्र “धृषत् धृष्टं “पिशङ्गरूपं “गोमन्तं च वाजं “मक्षु शीघ्रम् “ईमहे याचामहे । त्वामिति शेषः ॥


पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा॑य मेध्यातिथे ।

यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्यय॑ः ॥४

पा॒हि । गाय॑ । अन्ध॑सः । मदे॑ । इन्द्रा॑य । मे॒ध्य॒ऽअ॒ति॒थे॒ ।

यः । सम्ऽमि॑श्लः । हर्योः॑ । यः । सु॒ते । सचा॑ । व॒ज्री । रथः॑ । हि॒र॒ण्ययः॑ ॥४

पाहि । गाय । अन्धसः । मदे । इन्द्राय । मेध्यऽअतिथे ।

यः । सम्ऽमिश्लः । हर्योः । यः । सुते । सचा । वज्री । रथः । हिरण्ययः ॥४

हे “मेध्यातिथे “पाहि सोमं पिब । “अन्धसः पीतस्य सोमस्य “मदे तस्मै “इन्द्राय “गाय स्तोत्रं पठ' च । “यः इन्द्रः "हर्योः अश्वयोः “संमिश्लः स्वरथे संमिश्लयिता । “यः च “सुते सोमे “सचा सहायः । य इन्द्रः “वज्री । यस्य “रथः “हिरण्ययः हिरण्मयः ।।


यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे ।

य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इन्द्रो॒ यः पू॒र्भिदा॑रि॒तः ॥५

यः । सु॒ऽस॒व्यः । सु॒ऽदक्षि॑णः । इ॒नः । यः । सु॒ऽक्रतुः॑ । गृ॒णे ।

यः । आ॒ऽक॒रः । स॒हस्रा॑ । यः । श॒तऽम॑घः । इन्द्रः॑ । यः । पूः॒ऽभित् । आ॒रि॒तः ॥५

यः । सुऽसव्यः । सुऽदक्षिणः । इनः । यः । सुऽक्रतुः । गृणे ।

यः । आऽकरः । सहस्रा । यः । शतऽमघः । इन्द्रः । यः । पूःऽभित् । आरितः ॥५

“यः “सुषव्यः शोभनसव्यहस्तः यश्च “सुदक्षिणः यश्च “इनः ईश्वरः । ‘ नियुत्वान् इनः' इतीश्वरनामसु पाठात् । “यः चापि “सुक्रतुः सुप्रज्ञः। “सहस्रा सहस्राणां बहूनां “यः च “आकरः कर्ता । “यः चापि “शतमघः बहुधनः । “यः च “पूर्भित् पुरां भेत्ता । यश्च “आरितः प्रत्यृतः स्तोमान् । तथा च यास्कः- ‘ य आरितः कर्मणि कर्मणि स्थिरः प्रत्यृतः स्तोमान्' (निरु. ५. १५) इति । सः “इन्द्रः “गृणे अस्माभिः स्तूयते च ॥ ॥ ७ ॥


यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः ।

विभू॑तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ॥६

यः । धृ॒षि॒तः । यः । अवृ॑तः । यः । अस्ति॑ । श्मश्रु॑षु । श्रि॒तः ।

विभू॑तऽद्युम्नः । च्यव॑नः । पु॒रु॒ऽस्तु॒तः । क्रत्वा॑ । गौःऽइ॑व । शा॒कि॒नः ॥६

यः । धृषितः । यः । अवृतः । यः । अस्ति । श्मश्रुषु । श्रितः ।

विभूतऽद्युम्नः । च्यवनः । पुरुऽस्तुतः । क्रत्वा । गौःऽइव । शाकिनः ॥६

“यो “धृषितः शत्रूणां धर्षयिता "यः च "अवृतः शत्रुभिरपरिवृतः “यः चापि “श्मश्रुषु युद्धेषु । श्रवः श्रयन्त्यस्मिन्निति व्युत्पत्तेः श्मश्रु युद्धमिति वृद्धा वदन्ति । “श्रितः “अस्ति भवति । यश्चापि “विभूतद्युम्नः प्रभूतधनः । यश्च “च्यवनः सोमानां च्यावयिता । यश्चापि “पुरुष्टुतः बहुस्तुतः । स इन्द्रः “क्रत्वा कर्मणा “शाकिनः शक्तस्य यजमानस्य “गौरिव यथा गौः पयसो दोग्ध्री तथा कामानां दोग्धा भवति ।।


क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे ।

अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥७

कः । ई॒म् । वे॒द॒ । सु॒ते । सचा॑ । पिब॑न्तम् । कत् । वयः॑ । द॒धे॒ ।

अ॒यम् । यः । पुरः॑ । वि॒ऽभि॒नत्ति॑ । ओज॑सा । म॒न्दा॒नः । शि॒प्री । अन्ध॑सः ॥७

कः । ईम् । वेद । सुते । सचा । पिबन्तम् । कत् । वयः । दधे ।

अयम् । यः । पुरः । विऽभिनत्ति । ओजसा । मन्दानः । शिप्री । अन्धसः ॥७

“सुते अभिषुते सोमे “सचा ऋत्विजा सह सोमं “पिबन्तम् “ईम् एनमिन्द्रं “कः “वेद वेत्ति । न कोऽपि वेत्तीत्यर्थः । “कत् किं वा “वयः अन्नं “दधे धारयति । “यः "अयम् इन्द्रः “शिप्री हनूमान् “अन्धसः सोमेन “मन्दानः मन्दमानः “ओजसा बलेन “पुरः “विभिनत्ति ॥


दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे ।

नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ॥८

दा॒ना । मृ॒गः । न । वा॒र॒णः । पु॒रु॒ऽत्रा । च॒रथ॑म् । द॒धे॒ ।

नकिः॑ । त्वा॒ । नि । य॒म॒त् । आ । सु॒ते । ग॒मः॒ । म॒हान् । च॒र॒सि॒ । ओज॑सा ॥८

दाना । मृगः । न । वारणः । पुरुऽत्रा । चरथम् । दधे ।

नकिः । त्वा । नि । यमत् । आ । सुते । गमः । महान् । चरसि । ओजसा ॥८

“मृगः शत्रूणामन्वेषकः “वारणः गजः “दाना मदजलानीव “पुरुत्रा बहुषु यज्ञेषु “चरथं चरणशीलं मदं “दधे इन्द्रो धारयति । अथ प्रत्यक्षस्तुतिः । हे इन्द्र “त्वा त्वां “नकिः “नि “यमत् न कश्चिन्नियच्छति । “सुते सोमे “आ “गमः आगच्छ । “महान् हि त्वम् “ओजसा बलेन सर्वतः “चरसि ॥


य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः ।

यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ॥९

यः । उ॒ग्रः । सन् । अनि॑ऽस्तृतः । स्थि॒रः । रणा॑य । संस्कृ॑तः ।

यदि॑ । स्तो॒तुः । म॒घऽवा॑ । शृ॒णव॑त् । हव॑म् । न । इन्द्रः॑ । यो॒ष॒ति॒ । आ । ग॒म॒त् ॥९

यः । उग्रः । सन् । अनिऽस्तृतः । स्थिरः । रणाय । संस्कृतः ।

यदि । स्तोतुः । मघऽवा । शृणवत् । हवम् । न । इन्द्रः । योषति । आ । गमत् ॥९

"यः “उग्रः उद्गूर्ण ओजस्वी वा “सन् भवन् “अनिष्टृतः शत्रुभिरनिस्तीर्णः “स्थिरः अचलः “रणाय युद्धाय “संस्कृतः शस्त्रैरलंकृतः सोमैर्वा संस्कृतः सः “इन्द्रः “मघवा धनवान् "यदि “स्तोतुः “हवम् आह्वानं “शृणवत् शृणोति तर्ह्यन्यत्र “न "योषति न गच्छति । किंतु “आ “गमत् तत्रैवागच्छति ॥


स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः ।

वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥१०

स॒त्यम् । इ॒त्था । वृषा॑ । इत् । अ॒सि॒ । वृष॑ऽजूतिः । नः॒ । अवृ॑तः ।

वृषा॑ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे । प॒रा॒ऽवति॑ । वृषो॒ इति॑ । अ॒र्वा॒ऽवति॑ । श्रु॒तः ॥१०

सत्यम् । इत्था । वृषा । इत् । असि । वृषऽजूतिः । नः । अवृतः ।

वृषा । हि । उग्र । शृण्विषे । पराऽवति । वृषो इति । अर्वाऽवति । श्रुतः ॥१०

हे “उग्र उद्गूर्णेन्द्र त्वं “सत्यम् “इत्था इत्थं “वृषेत् कामानां वर्षक एव “असि । “वृषजूतिः वृषभिश्चाकृष्टः “नः अस्माकम् “अवृतः शत्रुभिरपरिवृतश्चासि । “वृषा “हि सेचक एव “शृण्विषे श्रूयसे । “परावति दूरेऽपि वृषैव “अर्वावति समीपेऽपि वृषा सेचक एव “श्रुतः वृषैवाश्रूयथाः ॥ ॥८॥


वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा॑ हिर॒ण्ययी॑ ।

वृषा॒ रथो॑ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ॥११

वृष॑णः । ते॒ । अ॒भीश॑वः । वृषा॑ । कशा॑ । हि॒र॒ण्ययी॑ ।

वृषा॑ । रथः॑ । म॒घ॒ऽव॒न् । वृष॑णा । हरी॒ इति॑ । वृषा॑ । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥११

वृषणः । ते । अभीशवः । वृषा । कशा । हिरण्ययी ।

वृषा । रथः । मघऽवन् । वृषणा । हरी इति । वृषा । त्वम् । शतक्रतो इति शतऽक्रतो ॥११

हे “मघवन् “ते तव “अभीशवः रश्मयोऽश्वरशनाः “वृषणः वर्षितारः । “हिरण्ययी हिरण्मयी "कशा अपि “वृषा । “रथः अपि “वृषा वर्षिता । “हरी अश्वावपि “वृषणा वृषणौ वर्षितारौ । हे “शतक्रतो बहुप्रज्ञेन्द्र “त्वं च “वृषा वर्षिता ॥


वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र ।

वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणाम् ॥१२

वृषा॑ । सोता॑ । सु॒नो॒तु॒ । ते॒ । वृष॑न् । ऋ॒जी॒पि॒न् । आ । भ॒र॒ ।

वृषा॑ । द॒ध॒न्वे॒ । वृष॑णम् । न॒दीषु॑ । आ । तुभ्य॑म् । स्था॒तः॒ । ह॒री॒णा॒म् ॥१२

वृषा । सोता । सुनोतु । ते । वृषन् । ऋजीपिन् । आ । भर ।

वृषा । दधन्वे । वृषणम् । नदीषु । आ । तुभ्यम् । स्थातः । हरीणाम् ॥१२

हे “वृषन् वर्षितरिन्द्र “ते तव “सोता अभिषवकर्ता “वृषा वर्षिता सन् "सुनोतु सोममभिषुणोतु । हे “ऋजीषिन् ऋजुगमनेन्द्र “आ “भर धनमस्मभ्यमाहर । “हरीणाम् अश्वानाम् “आ आभिमुख्येन हे "स्थातः इन्द्र “तुभ्यं “नदीषु उदकेषु “वृषणं वर्षितारं सोमं “वृषा वर्षिता “दधन्वे धारितवानभिषवार्थम् ॥


एन्द्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यम् ।

नायमच्छा॑ म॒घवा॑ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतु॑ः ॥१३

आ । इ॒न्द्र॒ । या॒हि॒ । पी॒तये॑ । मधु॑ । श॒वि॒ष्ठ॒ । सो॒म्यम् ।

न । अ॒यम् । अच्छ॑ । म॒घऽवा॑ । शृ॒णव॑त् । गिरः॑ । ब्रह्म॑ । उ॒क्था । च॒ । सु॒ऽक्रतुः॑ ॥१३

आ । इन्द्र । याहि । पीतये । मधु । शविष्ठ । सोम्यम् ।

न । अयम् । अच्छ । मघऽवा । शृणवत् । गिरः । ब्रह्म । उक्था । च । सुऽक्रतुः ॥१३

हे “शविष्ठ बलवत्तम “इन्द्र “सोम्यं सोमात्मकं “मधु अमृतं “पीतये पानाय “आ “याहि आगच्छ । किमर्थमागमनमित्यत आह । यत आगमनमन्तरेण “मघवा धनवान् “सुक्रतुः सुकर्मा शोभनप्रज्ञो वा “अयम् इन्द्रः “गिरः स्तुतीः “ब्रह्म स्तोत्राण्युक्थानि “च “न “अच्छ, “शृणवत् नाभिशृणोति । अत आगमनमित्यर्थः ॥


वह॑न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युज॑ः ।

ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥१४

वह॑न्तु । त्वा॒ । र॒थे॒ऽस्थाम् । आ । हर॑यः । र॒थ॒ऽयुजः॑ ।

ति॒रः । चि॒त् । अ॒र्यम् । सव॑नानि । वृ॒त्र॒ऽह॒न् । अ॒न्येषा॑म् । या । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥१४

वहन्तु । त्वा । रथेऽस्थाम् । आ । हरयः । रथऽयुजः ।

तिरः । चित् । अर्यम् । सवनानि । वृत्रऽहन् । अन्येषाम् । या । शतक्रतो इति शतऽक्रतो ॥१४

हे “वृत्रहन् “शतक्रतो बहुप्रज्ञ “रथेष्ठां रथस्थम् “अर्यम् ईश्वरं “त्वा त्वां “रथयुजः रथे युक्ताः “हरयः अश्वाः “अन्येषां “या यानि सवनानि सन्ति तानि “तिरः तिरस्कुर्वन्तः “सवनानि अस्मदीयानि सवनानि “आ “वहन्तु ॥


अ॒स्माक॑म॒द्यान्त॑मं॒ स्तोमं॑ धिष्व महामह ।

अ॒स्माकं॑ ते॒ सव॑ना सन्तु॒ शंत॑मा॒ मदा॑य द्युक्ष सोमपाः ॥१५

अ॒स्माक॑म् । अ॒द्य । अन्त॑मम् । स्तोम॑म् । धि॒ष्व॒ । म॒हा॒ऽम॒ह॒ ।

अ॒स्माक॑म् । ते॒ । सव॑ना । स॒न्तु॒ । शम्ऽत॑मा । मदा॑य । द्यु॒क्ष॒ । सो॒म॒ऽपाः॒ ॥१५

अस्माकम् । अद्य । अन्तमम् । स्तोमम् । धिष्व । महाऽमह ।

अस्माकम् । ते । सवना । सन्तु । शम्ऽतमा । मदाय । द्युक्ष । सोमऽपाः ॥१५

हे “महामह महतामपि महन् महापूज वा “अद्य “अन्तमम् अन्तिकतमम् “अस्माकं मेध्यातिथीनां “स्तोमं “धिष्व धारय । हे “द्युक्ष दीप्त “सोमपाः सोमस्य पातरिन्द्र “ते तव “मदाय मदार्थं “सवना सवनानि “अस्माकं “शंतमा शंतमानि सुखतमानि “सन्तु भवन्तु ॥ ॥ ९ ॥


न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति ।

यो अ॒स्मान्वी॒र आन॑यत् ॥१६

न॒हि । सः । तव॑ । नः॒ । मम॑ । शा॒स्त्रे । अ॒न्यस्य॑ । रण्य॑ति ।

यः । अ॒स्मान् । वी॒रः । आ । अन॑यत् ॥१६

नहि । सः । तव । नः । मम । शास्त्रे । अन्यस्य । रण्यति ।

यः । अस्मान् । वीरः । आ । अनयत् ॥१६

“यः “वीरः शूरः “अस्मान् “आनयत् “सः इन्द्रः “तव “शास्त्रे शासने “नहि “रण्यति न रमते । “मम अपि शास्त्रे शासने "नो रण्यति । “अन्यस्य अपि शासने न रण्यति । किंतु रक्षण एव रमत इत्यर्थः । ।


इन्द्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मन॑ः ।

उ॒तो अह॒ क्रतुं॑ र॒घुम् ॥१७

इन्द्रः॑ । चि॒त् । घ॒ । तत् । अ॒ब्र॒वी॒त् । स्त्रि॒याः । अ॒शा॒स्यम् । मनः॑ ।

उ॒तो इति॑ । अह॑ । क्रतु॑म् । र॒घुम् ॥१७

इन्द्रः । चित् । घ । तत् । अब्रवीत् । स्त्रियाः । अशास्यम् । मनः ।

उतो इति । अह । क्रतुम् । रघुम् ॥१७

यो मेध्यातिथेर्धनप्रदाता प्लायोगिरासङ्गः स पुमान् भूत्वा स्त्र्यभवत् । तदा यदिन्द्र उवाच तदिदमाह । तथा चाहुः -‘प्लायोगिश्चासङ्गो यः स्त्री भूत्वा पुमानभूत् स मेध्यातिथये दानं दत्त्वा ' इति । “इन्द्रश्चिद्ध इन्द्रः खलु “तदब्रवीत् । “स्त्रियाः “मनः चित्तम् “अशास्यं पुरुषेणाशिष्यं शासितुमशक्यं प्रबलत्वादिति । "उतो अपि च स्त्रियाः “क्रतुं प्रज्ञां "रघुं लघुमाह ॥


सप्ती॑ चिद्घा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथ॑म् ।

ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ॥१८

सप्ती॒ इति॑ । चि॒त् । घ॒ । म॒द॒ऽच्युता॑ । मि॒थु॒ना । व॒ह॒तः॒ । रथ॑म् ।

ए॒व । इत् । धूः । वृष्णः॑ । उत्ऽत॑रा ॥१८

सप्ती इति । चित् । घ । मदऽच्युता । मिथुना । वहतः । रथम् ।

एव । इत् । धूः । वृष्णः । उत्ऽतरा ॥१८

“सप्ती “चिद्ध इन्द्रस्याश्वावपि खलु “मदच्युता सोमं प्रति गन्ताराविन्द्रस्यैव “रथं मिथुनौ “वहतः । “एवेत् एवमेव “वृष्णः इन्द्रस्य रथस्य “धूः “उत्तरा अश्वयोरुत्तरा भवति ॥


अ॒धः प॑श्यस्व॒ मोपरि॑ संत॒रां पा॑द॒कौ ह॑र ।

मा ते॑ कशप्ल॒कौ दृ॑श॒न्स्त्री हि ब्र॒ह्मा ब॒भूवि॑थ ॥१९

अ॒धः । प॒श्य॒स्व॒ । मा । उ॒परि॑ । स॒म्ऽत॒राम् । पा॒द॒कौ । ह॒र॒ ।

मा । ते॒ । क॒श॒ऽप्ल॒कौ । दृ॒श॒न् । स्त्री । हि । ब्र॒ह्मा । ब॒भूवि॑थ ॥१९

अधः । पश्यस्व । मा । उपरि । सम्ऽतराम् । पादकौ । हर ।

मा । ते । कशऽप्लकौ । दृशन् । स्त्री । हि । ब्रह्मा । बभूविथ ॥१९

एवमन्तरिक्षादागच्छन् रथस्थ इन्द्रः स्त्रियं सन्तं स्वस्मात् पुंस्त्वमिच्छन्तं प्लायोगिं यदुवाच तदाह । हे प्लायोगे त्वं स्त्री सती “अधः “पश्यस्व । एष स्त्रीणां धर्मः । “उपरि “मा पश्यस्व । उपरिदर्शनं स्त्रीणां धर्मो न भवति हि । “पादकौ पादावपि “संतरां संश्लिष्टौ यथा भवतस्तथा “हर । यथा पुरुषो विश्लिष्टपादनिधानो भवति तथा त्वया स्त्रिया न कर्तव्यमित्यर्थः । अपि च “ते “कशप्लकौ । कशश्च प्लकश्च कशप्लकौ । कशतिराहननकर्मा। कशप्लकावुभे अङ्गे “मा “दृशन्। पुरुषा न पश्यन्तु । तयोरदर्शनं वाससः सुष्ठु परिधानेन भवति । अतः सुष्ठु वाससा परिधानं कुरु । स्त्रियो हि आ गुल्फादभिसंवीता भवन्तीत्यर्थः । “हि यस्मात् कारणात् “ब्रह्मा सन् "स्त्री "बभूविथ ॥ ॥ १० ॥



मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३३&oldid=191542" इत्यस्माद् पुनः प्राप्तिः