ऋग्वेदः सूक्तं ८.७९
← सूक्तं ८.७८ | ऋग्वेदः - मण्डल ८ सूक्तं ८.७९ कृत्नुर्भार्गवः। |
सूक्तं ८.८० → |
दे. सोमः। गायत्री, ९ अनुष्टुप् । |
अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः ।
ऋषिर्विप्रः काव्येन ॥१॥
अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम् ।
प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥२॥
त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः ।
उरु यन्तासि वरूथम् ॥३॥
त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन् ।
यावीरघस्य चिद्द्वेषः ॥४॥
अर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम् ।
ववृज्युस्तृष्यतः कामम् ॥५॥
विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत् ।
प्रेमायुस्तारीदतीर्णम् ॥६॥
सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः ।
भवा नः सोम शं हृदे ॥७॥
मा नः सोम सं वीविजो मा वि बीभिषथा राजन् ।
मा नो हार्दि त्विषा वधीः ॥८॥
अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे ।
राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥९॥
सायणभाष्यम्
‘ अयं कृत्नुः' इति नवर्चं दशमं सूक्तम् । अत्रेयमनुक्रमणिका - अयं कृत्नुर्नव कृत्नुर्भार्गवः सौम्यमन्त्यानुष्टुप् ' इति । भार्गवः कृत्नुर्ऋषिः । नवम्यनुष्टुप् । अष्टौ गायत्र्यः । सोमो देवता । विनियोगो लैङ्गिकः ॥
अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोम॑ः ।
ऋषि॒र्विप्र॒ः काव्ये॑न ॥१
अ॒यम् । कृ॒त्नुः । अगृ॑भीतः । वि॒श्व॒ऽजित् । उ॒त्ऽभित् । इत् । सोमः॑ ।
ऋषिः॑ । विप्रः॑ । काव्ये॑न ॥१
अयम् । कृत्नुः । अगृभीतः । विश्वऽजित् । उत्ऽभित् । इत् । सोमः ।
ऋषिः । विप्रः । काव्येन ॥१
“अयं “सोमः “कृत्नुः कर्ता सर्वस्य “अगृभीतः अन्यैरगृहीतः “विश्वजित् सर्वस्य जेता “उद्भित् फलस्योद्भेदकः । अथवा विश्वजिदुद्भिदौ सोमयागौ। तयोर्निष्पादकत्वात्तद्रूपः । “ऋषिः ज्ञानवान् “विप्रः मेधावी विप्रवत् पूज्यो विशेषेण पूरको वा । एवंमहानुभावः सोमः "काव्येन स्तोत्रेण स्तुत्यो भवतीति शेषः ।।
अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् ।
प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त् ॥२
अ॒भि । ऊ॒र्णो॒ति॒ । यत् । न॒ग्नम् । भि॒षक्ति॑ । विश्व॑म् । यत् । तु॒रम् ।
प्र । ई॒म् । अ॒न्धः । ख्य॒त् । निः । श्रो॒णः । भू॒त् ॥२
अभि । ऊर्णोति । यत् । नग्नम् । भिषक्ति । विश्वम् । यत् । तुरम् ।
प्र । ईम् । अन्धः । ख्यत् । निः । श्रोणः । भूत् ॥२
अयं सोमः "यन्नग्नम् अस्ति तत् “अभ्यूर्णोति आच्छादयति । यन्नग्नमिव विफलं वर्तते तदाच्छादयति फलेन । अथवा वस्त्रं जनयन्नाच्छादयति । तथा “यत् "तुरम् आतुरं रुग्णं “विश्वं तत् “भिषक्ति भिषज्यति। यज्ञद्वारा स्वर्गसाधनेनौषधरूपेण च शरीरसिद्धिसाधनश्च । “अन्धः सन् अन्धोऽपि “प्र “ख्यत् पश्यति । “श्रोणः अपि पङ्गुरपि “निः “भूत् निर्भवति निर्गच्छति ॥
त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः ।
उ॒रु य॒न्तासि॒ वरू॑थम् ॥३
त्वम् । सो॒म॒ । त॒नू॒कृत्ऽभ्यः॑ । द्वेषः॑ऽभ्यः । अ॒न्यऽकृ॑तेभ्यः ।
उ॒रु । य॒न्ता । अ॒सि॒ । वरू॑थम् ॥३
त्वम् । सोम । तनूकृत्ऽभ्यः । द्वेषःऽभ्यः । अन्यऽकृतेभ्यः ।
उरु । यन्ता । असि । वरूथम् ॥३
हे सोम “त्वं “तनूकृद्यःकृ कृशीकुर्वद्भ्यः । अथवाङ्गानां विच्छेदकेभ्यः “अन्यकृतेभ्यः "द्वेषोभ्यः शत्रुकृतेभ्योऽप्रियेभ्यः । कृत्याभ्य इत्यर्थः । "वरूथं वरकं रक्षणम् "उरु "यन्तासि भवसि स्तोतॄणाम्। 'अन्यकृतानि हि रक्षांसि ' इति ब्राह्मणम् ॥
त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् ।
यावी॑र॒घस्य॑ चि॒द्द्वेष॑ः ॥४
त्वम् । चि॒त्ती । तव॑ । दक्षैः॑ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् ।
यावीः॑ । अ॒घस्य॑ । चि॒त् । द्वेषः॑ ॥४
त्वम् । चित्ती । तव । दक्षैः । दिवः । आ । पृथिव्याः । ऋजीषिन् ।
यावीः । अघस्य । चित् । द्वेषः ॥४
हे “ऋजीषिन् तृतीयसवनगतेनर्जीषेण तद्वन् सोम “त्वं “तव “चित्ती चित्त्या प्रज्ञया “दक्षैः बलैश्च “दिव “आ दिवश्च । आ इति चार्थे । “पृथिव्याः आ पृथिव्याश्च सकाशात् "अघस्य “चित् अस्माकमाहन्तुरपि “द्वेषः शत्रोः कृत्यां “यावीः पृथक्कुरु ॥
अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिम् ।
व॒वृ॒ज्युस्तृष्य॑त॒ः काम॑म् ॥५
अ॒र्थिनः॑ । यन्ति॑ । च॒ । इत् । अर्थ॑म् । गच्छा॑न् । इत् । द॒दुषः॑ । रा॒तिम् ।
व॒वृ॒ज्युः । तृष्य॑तः । काम॑म् ॥५
अर्थिनः । यन्ति । च । इत् । अर्थम् । गच्छान् । इत् । ददुषः । रातिम् ।
ववृज्युः । तृष्यतः । कामम् ॥५
"अर्थिनः धनानि कामयमानाः "यन्ति "चेत् यन्ति च "अर्थं प्रति । गत्वा च "ददुषः दातुः "रातिं दानं "गच्छानित् गच्छन्ति च । गतेषु मध्ये यं हे सोम त्वमनुगृह्णासि तस्य “तृष्यतः भिक्षमाणस्य "कामं "ववृज्युः । पुनः कामानावर्जयन्ति । तावत्पर्यन्तं पूरयन्तीत्यर्थः ॥ ॥ ३३ ॥
वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् ।
प्रेमायु॑स्तारी॒दती॑र्णम् ॥६
वि॒दत् । यत् । पू॒र्व्यम् । न॒ष्टम् । उत् । ई॒म् । ऋ॒त॒ऽयुम् । ई॒र॒य॒त् ।
प्र । ई॒म् । आयुः॑ । ता॒री॒त् । अती॑र्णम् ॥६
विदत् । यत् । पूर्व्यम् । नष्टम् । उत् । ईम् । ऋतऽयुम् । ईरयत् ।
प्र । ईम् । आयुः । तारीत् । अतीर्णम् ॥६
"यत् यदा "पूर्व्यं पुराणं "नष्टं स्वकीयं धनं "विदत् लभते नष्टधनः "ईम् एनम् "ऋतायुं नष्टधनलाभार्थं यज्ञकामम् "उत् "ईरयत् प्रेरयति । धनं साधयतीत्यर्थः ॥
सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः ।
भवा॑ नः सोम॒ शं हृ॒दे ॥७
सु॒ऽशेवः॑ । नः॒ । मृ॒ळ॒याकुः॑ । अदृ॑प्तऽक्रतुः । अ॒वा॒तः ।
भव॑ । नः॒ । सो॒म॒ । शम् । हृ॒दे ॥७
सुऽशेवः । नः । मृळयाकुः । अदृप्तऽक्रतुः । अवातः ।
भव । नः । सोम । शम् । हृदे ॥७
हे "सोम पीतस्त्वं "नः अस्माकं "हृदे हृदये वर्तमानः "सुशेवः सुसुखः "मृळयाकुः सुखयिता "अदृप्तक्रतुः अप्रमत्तप्रज्ञः "अवातः अगमनश्च [ तव हृदये पीताय हृदय ? ] सं (?”शं) भव । अपरो नः पूरणः ।।
मा न॑ः सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन् ।
मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ॥८
मा । नः॒ । सो॒म॒ । सम् । वी॒वि॒जः॒ । मा । वि । बी॒भि॒ष॒थाः॒ । रा॒ज॒न् ।
मा । नः॒ । हार्दि॑ । त्वि॒षा । व॒धीः॒ ॥८
मा । नः । सोम । सम् । वीविजः । मा । वि । बीभिषथाः । राजन् ।
मा । नः । हार्दि । त्विषा । वधीः ॥८
हे “सोम पीतस्त्वं "नः अस्मान् "मा “सं “वीविजः । चलिताङ्गान् मा कार्षीः । हे "राजन् सोम अस्मान् “मा “वि “बीभिषथाः भीतान् मा कुरु । "नः अस्माकं हार्दि हृदयं “त्विषा दीप्त्या “मा “वधीः ॥
अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ ।
राज॒न्नप॒ द्विष॑ः सेध॒ मीढ्वो॒ अप॒ स्रिध॑ः सेध ॥९
अव॑ । यत् । स्वे । स॒धऽस्थे॑ । दे॒वाना॑म् । दुः॒ऽम॒तीः । ईक्षे॑ ।
राज॑न् । अप॑ । द्विषः॑ । से॒ध॒ । मीढ्वः॑ । अप॑ । स्रिधः॑ । से॒ध॒ ॥९
अव । यत् । स्वे । सधऽस्थे । देवानाम् । दुःऽमतीः । ईक्षे ।
राजन् । अप । द्विषः । सेध । मीढ्वः । अप । स्रिधः । सेध ॥९
“स्वे "सधस्थे स्वकीये सहस्थाने गृहे "देवानां "दुर्मतीः दुर्मतयो न प्रविशन्त्विति । "यत् यदा "अव ईक्षे अहं त्वं वेक्षसे तदा हे "राजन् "द्विषः अस्मद्वेप्ष्टॄन "अप “सेध। हे "मीड्वः सोमरसस्य सेक्तः "स्रिधः हिंसकान् "अप "सेध । हिन्धीत्यर्थः ॥ ॥ ३४ ॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|