ऋग्वेदः सूक्तं ८.७८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.७८ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ८.७७ ऋग्वेदः - मण्डल ८
सूक्तं ८.७८
कुरुसुतिः काण्वः
सूक्तं ८.७९ →
दे. इन्द्रः। गायत्री, १० बृहती ।


पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर ।
शता च शूर गोनाम् ॥१॥
आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् ।
सचा मना हिरण्यया ॥२॥
उत नः कर्णशोभना पुरूणि धृष्णवा भर ।
त्वं हि शृण्विषे वसो ॥३॥
नकीं वृधीक इन्द्र ते न सुषा न सुदा उत ।
नान्यस्त्वच्छूर वाघतः ॥४॥
नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे ।
विश्वं शृणोति पश्यति ॥५॥
स मन्युं मर्त्यानामदब्धो नि चिकीषते ।
पुरा निदश्चिकीषते ॥६॥
क्रत्व इत्पूर्णमुदरं तुरस्यास्ति विधतः ।
वृत्रघ्नः सोमपाव्नः ॥७॥
त्वे वसूनि संगता विश्वा च सोम सौभगा ।
सुदात्वपरिह्वृता ॥८॥
त्वामिद्यवयुर्मम कामो गव्युर्हिरण्ययुः ।
त्वामश्वयुरेषते ॥९॥
तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे ।
दिनस्य वा मघवन्सम्भृतस्य वा पूर्धि यवस्य काशिना ॥१०॥


सायणभाष्यम्

‘ पुरोळाशं नः' इति दशर्चं नवमं सूक्तं काण्वस्य कुरुसुतेरार्षम् । आद्या नव गायत्र्यो दशमी बृहती । इन्द्रो देवता । तथा चानुक्रान्तं-' पुरोळाशं दश बृहत्यन्तम्' इति । सूक्तविनियोगो लैङ्गिकः । महाव्रते निष्केवल्ये गायत्रतृचाशीतावाद्यास्तिस्र ऋचः । तथा च सूत्रितं - ' पुरोळाशं नो अन्धस इति तिस्रः ' ( ऐ. आ. ५. २. ३ ) इति ॥


पु॒रो॒ळाशं॑ नो॒ अन्ध॑स॒ इन्द्र॑ स॒हस्र॒मा भ॑र ।

श॒ता च॑ शूर॒ गोना॑म् ॥१

पु॒रो॒ळाश॑म् । नः॒ । अन्ध॑सः । इन्द्र॑ । स॒हस्र॑म् । आ । भ॒र॒ ।

श॒ता । च॒ । शू॒र॒ । गोना॑म् ॥१

पुरोळाशम् । नः । अन्धसः । इन्द्र । सहस्रम् । आ । भर ।

शता । च । शूर । गोनाम् ॥१

हे “शूर “इन्द्र “पुरोळाशं पुरो दीयमानमेतत्संज्ञकम् “अन्धसः अन्नं स्वीकृत्य “गोनां गवां “सहस्रं “शता शतानि “च “नः अस्मभ्यम् “आ “भर आहर। अथवा नोऽस्मभ्यं पुरतो दीयमानमन्धसोऽन्धो व्यञ्जनं सहस्रं सहस्रसंख्याकं गोसहस्रं चाहरेति योज्यम्


आ नो॑ भर॒ व्यञ्ज॑नं॒ गामश्व॑म॒भ्यञ्ज॑नम् ।

सचा॑ म॒ना हि॑र॒ण्यया॑ ॥२

आ । नः॒ । भ॒र॒ । वि॒ऽअञ्ज॑नम् । गाम् । अश्व॑म् । अ॒भि॒ऽअञ्ज॑नम् ।

सचा॑ । म॒ना । हि॒र॒ण्यया॑ ॥२

आ । नः । भर । विऽअञ्जनम् । गाम् । अश्वम् । अभिऽअञ्जनम् ।

सचा । मना । हिरण्यया ॥२

हे इन्द्र त्वं “नः अस्मभ्यं “व्यञ्जनं “गामश्वमभ्यञ्जनं तैलं च “आ “भर। "मना मननीयानि “हिरण्यया हिरण्मयान्युपकरणानि "सचा सहाभरेति ॥


उ॒त न॑ः कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र ।

त्वं हि शृ॑ण्वि॒षे व॑सो ॥३

उ॒त । नः॒ । क॒र्ण॒ऽशोभ॑ना । पु॒रूणि॑ । धृ॒ष्णो॒ इति॑ । आ । भ॒र॒ ।

त्वम् । हि । शृ॒ण्वि॒षे । व॒सो॒ इति॑ ॥३

उत । नः । कर्णऽशोभना । पुरूणि । धृष्णो इति । आ । भर ।

त्वम् । हि । शृण्विषे । वसो इति ॥३

“उत अपि च “नः अस्मभ्यं “कर्णशोभना कर्णाभरणानि “पुरूणि बहूनि “आ “भर । हे “धृष्णो धर्षकेन्द्र “वसो वासयितरिन्द्र “त्वं “हि खलु “शृण्विषे श्रूयसे । किमिति । उदारोऽयमिन्द्र इति ॥


नकीं॑ वृधी॒क इ॑न्द्र ते॒ न सु॒षा न सु॒दा उ॒त ।

नान्यस्त्वच्छू॑र वा॒घत॑ः ॥४

नकी॑म् । वृ॒धी॒कः । इ॒न्द्र॒ । ते॒ । न । सु॒ऽसाः । न । सु॒ऽदाः । उ॒त ।

न । अ॒न्यः । त्वत् । शू॒र॒ । वा॒घतः॑ ॥४

नकीम् । वृधीकः । इन्द्र । ते । न । सुऽसाः । न । सुऽदाः । उत ।

न । अन्यः । त्वत् । शूर । वाघतः ॥४

हे “इन्द्र “ते त्वत्तोऽन्यः कश्चित् “वृधीकः वर्धयिता "नकीं नैव । तथा “सुषाः सुष्ठु संभक्ता संग्रामादौ त्वत्तोऽन्यः “न । “उत अपि च "सुदाः सुदाता “न । तथा हे “शूर “त्वत् त्वत्तोऽन्यः “वाघतः । ऋत्विग्नामैतत् । ऋत्विजो यजमानस्य नेता “नान्यः अस्ति त्वामृते ।।


नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे ।

विश्वं॑ शृणोति॒ पश्य॑ति ॥५

नकी॑म् । इन्द्रः॑ । निऽक॑र्तवे । न । श॒क्रः । परि॑ऽशक्तवे ।

विश्व॑म् । शृ॒णो॒ति॒ । पश्य॑ति ॥५

नकीम् । इन्द्रः । निऽकर्तवे । न । शक्रः । परिऽशक्तवे ।

विश्वम् । शृणोति । पश्यति ॥५

अयम् “इन्द्रः “निकर्तवे निकर्तुं “नकीं नैव शक्यः । तथा “शक्रः शक्तोऽयं "परिशक्तवे” परिभावाय “न शक्यत इति । स तु “विश्वं “शृणोति “पश्यति च ॥ ॥ ३१ ॥ स मन्यु मनामदब्धो नि चिकीषते । पुरा निदर्थिकीषते ॥ ६ ॥


स म॒न्युं मर्त्या॑ना॒मद॑ब्धो॒ नि चि॑कीषते ।

पु॒रा नि॒दश्चि॑कीषते ॥६

सः । म॒न्युम् । मर्त्या॑नाम् । अद॑ब्धः । नि । चि॒की॒ष॒ते॒ ।

पु॒रा । नि॒दः । चि॒की॒ष॒ते॒ ॥६

सः । मन्युम् । मर्त्यानाम् । अदब्धः । नि । चिकीषते ।

पुरा । निदः । चिकीषते ॥६

“सः इन्द्रः “मन्युं क्रोधम् । केषाम् । “मर्त्यानाम् । “अदब्धः केनाप्यहिंसितः सन् “नि “चिकीषते निकरोति । किं मन्यु प्राप्यैव नेत्याह । “निदः निन्दायाः “पुरा पूर्वमेव “चिकीषते । यदा तं निन्दितुमिच्छति कश्चित्ततः पूर्वमेव तं निकरोतीत्यर्थः ॥


क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः ।

वृ॒त्र॒घ्नः सो॑म॒पाव्न॑ः ॥७

क्रत्वः॑ । इत् । पू॒र्णम् । उ॒दर॑म् । तु॒रस्य॑ । अ॒स्ति॒ । वि॒ध॒तः ।

वृ॒त्र॒ऽघ्नः । सो॒म॒ऽपाव्नः॑ ॥७

क्रत्वः । इत् । पूर्णम् । उदरम् । तुरस्य । अस्ति । विधतः ।

वृत्रऽघ्नः । सोमऽपाव्नः ॥७

"तुरस्य त्वरमाणस्य “वृत्रघ्नः वृत्रं हतवतः “सोमपाव्नः सोमपातुः "उदरं “क्रत्व “इत् कर्मणैव “पूर्णम् “अस्ति भवति । कस्य कर्मणेति उच्यते । "विधतः परिचरतो यजमानस्य । यतः परिचरणाभावे तस्य कुक्षिपूर्त्यभावोऽतस्तत्पूर्तये परिचरतेति शेषः ।।


त्वे वसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा ।

सु॒दात्वप॑रिह्वृता ॥८

त्वे इति॑ । वसू॑नि । सम्ऽग॑ता । विश्वा॑ । च॒ । सो॒म॒ । सौभ॑गा ।

सु॒ऽदातु॑ । अप॑रिऽह्वृता ॥८

त्वे इति । वसूनि । सम्ऽगता । विश्वा । च । सोम । सौभगा ।

सुऽदातु । अपरिऽह्वृता ॥८

हे इन्द्र “त्वे त्वयि “वसूनि धनान्यस्मदिष्टानि "संगता संगतानि । तथा हे "सोम सोमवन्निन्द्र त्वयि “विश्वा सर्वाणि "सौभगा सौभाग्यानि संगतानि । तथा “सुदातु सुदानानि “अपरिह्वृता अकुटिलानि । अतस्तानि कुर्विति भावः । यद्वा । इन्द्रः सोमं पीत्वा सोम इत्यभिहितः सोमश्रुतेः ॥


त्वामिद्य॑व॒युर्मम॒ कामो॑ ग॒व्युर्हि॑रण्य॒युः ।

त्वाम॑श्व॒युरेष॑ते ॥९

त्वाम् । इत् । य॒व॒ऽयुः । मम॑ । कामः॑ । ग॒व्युः । हि॒र॒ण्य॒ऽयुः ।

त्वाम् । अ॒श्व॒ऽयुः । आ । ई॒ष॒ते॒ ॥९

त्वाम् । इत् । यवऽयुः । मम । कामः । गव्युः । हिरण्यऽयुः ।

त्वाम् । अश्वऽयुः । आ । ईषते ॥९

“त्वामित् त्वामेव “एषते । किम् । “मम "कामः । स कीदृशः । "यवयुः यवेच्छुः सन्नेषते । तथा “गव्युः सन्नेषते । तथा “हिरण्ययुः च सन्नेषते । तथा “अश्वयुः च सन्नेषते । तं काममाप्तेच्छं कुर्विति भावः ॥


तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे ।

दि॒नस्य॑ वा मघव॒न्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥१०

तव॑ । इत् । इ॒न्द्र॒ । अ॒हम् । आ॒ऽशसा॑ । हस्ते॑ । दात्र॑म् । च॒न । आ । द॒दे॒ ।

दि॒नस्य॑ । वा॒ । म॒घ॒ऽव॒न् । सम्ऽभृ॑तस्य । वा॒ । पू॒र्धि । यव॑स्य । का॒शिना॑ ॥१०

तव । इत् । इन्द्र । अहम् । आऽशसा । हस्ते । दात्रम् । चन । आ । ददे ।

दिनस्य । वा । मघऽवन् । सम्ऽभृतस्य । वा । पूर्धि । यवस्य । काशिना ॥१०

हे "इन्द्र “तवेत् तवैव “आशसा आशंसनेन त्वमस्मदीयं क्षेत्रं यवसमृद्धं करोषीत्याशंसनेन “हस्ते “दात्रं "चन लवनसाधनं दात्रमपि “आ “ददे स्वीकरोमि । किमनेन प्रयासेन । “दिनस्य “वा पूर्वमेव छिन्नस्य वा यवस्य "संभृतस्य “वा पूर्वमेव छित्त्वा निष्कृतस्य राशीकृतस्य वा “यवस्य “काशिना मुष्टिना “पूर्धि पूरय । आशंसनं देहि च ॥ ॥ ३२ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.७८&oldid=193013" इत्यस्माद् पुनः प्राप्तिः