सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ३/अभीवर्तः

विकिस्रोतः तः
अभीवर्तः

त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः ।
त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥ १४११ ॥ ऋ. ८.९०.५
तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे ।
महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥१४१२ ॥

[सम्पाद्यताम्]

टिप्पणी

इन्द्रस्य यशः (ग्रामगेयः)

अभीवर्तः (तं वो दस्म इति) (अभीवर्तोपरि संदर्भाः)

अभीवर्तमणिसूक्तम् (अथर्ववेदः)