सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः १/अभीवर्तः

विकिस्रोतः तः
अभीवर्तः
अभीवर्तः.

ऋ. ८.८८.१

 

१४ अभीवर्तः ॥ अभीवर्त । बृहती। इन्द्रः॥
तंवोऽ३दाऽ३स्मामृतीषहोवा ॥ वासोर्मन्दा। नमान्धाऽ१साऽ२ः । आभिवत्साऽ३१२३४म् । नस्वसरे। षुधाइनाऽ१वाऽ२ः ॥ इन्द्राङ्गाऽ१इर्भीऽ२ः ॥ नवाऽ३ । माऽ२३४५ ॥ हाऽ२३४५इ ॥श्रीः॥ इन्द्राऽ३ङ्गाऽ३इर्भिनवामहोवा ॥ आइन्द्रङ्गीर्भिः। नवामाऽहाऽ२इ। द्यूक्षꣳसुदाऽ३१२३४ । नुन्तविषी । भिरावाऽ१र्ताऽ२म् ॥ गिराइन्नाऽ१पूऽ२ ॥ रुभोऽ३ । जाऽ२३४५॥ साऽ२३४५म् ॥ श्रीः ॥ गिराऽ३इन्नाऽ३ पुरुभोजसोवा ।। गाइरिन्नपु । रुभोजाऽ१साऽ२म् । क्षूमन्तंवाऽ३१२३४ । जꣳशतिनम् । सहास्राऽ१इणाऽ२म् ॥ मक्षूगोऽ१माऽ२ ॥ तमाऽ३इ । माऽ२३४५ ॥ हाऽ२३४५इ॥
दी. ८. उत्. ६. मा. २२. ढा. ॥२३६।।


[सम्पाद्यताम्]

टिप्पणी

अभीवर्तः (ग्रामगेयः)

गवामयनम् --अभीवर्तो ब्रह्मसाम भवति। अभीवर्तेन वै देवाः स्वर्गं लोकमभ्यवर्तन्त यदभीवर्तो ब्रह्मसाम भवति स्वर्गस्य लोकस्याभिवृत्त्यै। एकाक्षरणिधनो भवत्येकाक्षरा वै वाग्वाचैव तदारभ्य स्वर्गं लोकं यन्ति। साम्नेतो यन्त्यृचा पुनरायन्ति। साम वै असौ लोक ऋगयं यदितः साम्ना यन्ति स्वर्गं लोकमारभ्य यन्ति यदृचा पुनरायन्त्यस्मिन् लोके प्रतितिष्ठन्ति। यत् सामावसृजेयुरव स्वर्गाल्लोकात् पद्येरन् यदृचमनुसृजेयुर्नश्येयुरस्माल्लोकात्। समानं साम भवत्यन्योऽन्यः प्रगाथोऽन्यदन्यद्धि चित्रमध्वानमवगच्छन्नेत। वृषा वा एष रेतोधा यदभीवर्तः प्रगाथेषु रेतो दधदेति यदितः समानं साम भवत्यन्योऽन्यः प्रगाथो रेत एव तद्दधति यत् परस्तात् समानः प्रगाथो भवत्यन्यदन्यत् साम रेत एव तद्धितं प्रजनयन्ति - पञ्चविं.ब्रा. ४.३.१

अ(भि>)भीवर्त्त

१. अभीवर्त्तः सविंश इति दक्षिणतः, अन्नं वै सविंशः । काठ २०,१३ ।

२. अभीवर्तं भ्रातृव्यवते ब्रह्मसाम कुर्यात्। अभीवर्त्तेन वै देवा असुरानभ्यवर्त्तन्त, यदभीवर्त्तो ब्रह्मसाम भवति भ्रातृव्यस्याभिवृत्यै । तां ८,२,८

३. अभीवर्तेन वै देवाः स्वर्गं लोकमभ्यवर्त्तन्त । यदभीवर्त्तो ब्रह्मसाम भवति स्वर्गस्य लोकस्याभिवृत्यै । तां ४,३,२।

४. प्रजापतिर्वा अभीवर्तः प्रजाश्छन्दांसि । जै २,३८०

५. अभीवर्त इतष्षण्मासो ब्रह्मसामं भवति ब्रह्म वा अभीवर्तो ब्रह्मणैव तत् स्वर्गं लोकमभिवर्तयन्तो यन्ति ॥ । काठ ३३.७

६. वृषा वा एष रेतोधा यदभीवर्त्तः । तां ४, ३, ८ ।

७. संवत्सरो वाऽअभीवर्त्तः सविꣳशस्तस्य द्वादशमासा सप्तऽर्तवः संवत्सर एवाभीवर्तः सविंशस्तद्यत्तमाहाभीवर्त इति संवत्सरो हि सर्वाणि भूतान्यभिवर्तते । माश ८,४,१,१५

८. अन्नं वा अभिवर्तः – तैसं ५.३.३.३